संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ विसर्पनिदानमाह ॥

॥ अथ विसर्पनिदानमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ विसर्पनिदानमाह ॥

अथ तस्य सम्प्राप्तिमाह ॥ लवणाम्लकटूष्णादिसंसेवादोषकोपत: । विसर्प: सप्तधा ज्ञेय: सर्वत: परिसर्पणात्‍ ॥१॥
अथ तस्य सड्ख्यामाह ॥ वातिक: पैत्तिकश्वैव कफज: सान्निपातिक: । चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रय: ॥१॥
आग्नेयो वातपित्ताभ्यां ग्रन्थाख्य: कफवातज: । यस्तु कर्दमको घोर: स पित्तकफसम्भव: ॥२॥
रक्तं लसीका त्वड्मांसं दूष्यं दोषास्त्रयो मला: । विसर्पाणां समुत्पत्तौ विज्ञेया: सप्त धातव: ॥३॥
अथ तत्र वातिकमाह ॥ तत्र वातात्परीसर्पो वातज्वरसमव्यथ: । शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान्‍ ॥१॥
अथ पैत्तिकमाह ॥ पित्ताद्‍द्रुतगति: पित्तज्वरलिड्गोऽतिलोहित: ॥१॥
अथ कफजमाह ॥ कफात्कण्डूयुत: स्निग्ध: कफज्वरसमानरुक्‍ ॥१॥
अथ सान्निपातिकमाह ॥ सन्निपातसमुत्थश्च सर्वलिड्गसमन्वित: ॥१॥
स चान्तर्बहिर्भेदाद्विसर्प: पठितो द्विधा ॥ अथ तमाह ॥ मर्मोपतापान्मोहाच्च हृदयानां च घट्ट्‍नात्‍ ॥१॥
तृष्णातियोगाद्वेगानां विषमाच्च प्रवर्तनात्‍ । विद्याद्विसर्पमन्तर्जमाशु चाग्निबलक्षयात्‍ । अतो विसर्पणाद्‍ बाह्यमन्यं विद्यात्सुलक्षणै: ॥२॥
अथ द्वन्द्वजमाह ॥ वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृडभ्रमै: । अस्थिभेदाग्रिसदनतमकारोचकैर्युत: ॥१॥
करोति सर्वमड्गं च दीप्ताड्गारावकीर्णवत्‍ । यं यं देशं विसर्पश्च विसर्पति भवेत्स: स: ॥२॥
शीताड्गारासितो नीलो रक्तो वाशु च चीयते । अग्निदग्ध इव स्फोटै: शीघ्रं गत्वा द्रुतं स च ॥३॥
मर्मानुसारी वीसर्प: स्याद्वातोऽतिबलस्तत: । व्यथेताड्गं हरेत्संज्ञां निद्रां श्वासं समीरयेत्‍ ॥४॥
हिध्मां च सर्वतोऽवस्थामीद्दशीं लभते नर: क्वचिच्छ्रमारतिग्रस्तो भूमिशय्यासनादिषु ॥५॥
चेष्टमानस्तत: क्लिष्टो मनोदेहश्रमोद्भवाम्‍ । दुष्प्रबोधोऽश्रुते निद्रां सोऽग्निवीसर्प उच्यते ॥६॥
अथ कफमारुतजग्रन्थिविसप्रमाह ॥ कफेन रुद्ध: पवनो भित्वा तं बहुधा कफम्‍ । रक्तं वा वृद्धरक्तस्य त्वकशिरास्त्र्नायुमांसगम्‍ ॥१॥
दूषयित्वा च दीर्घानुवृत्तस्थूलखरात्मनाम्‍ । ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्‍ज्वराम्‍ ॥२॥
श्वासकासास्यवैरस्यशोषहिध्मावमिभ्रमै: । मोहवैवर्ण्यमूर्च्छाड्गभड्गाग्रिसदनैर्युताम्‍ ॥ इत्ययं ग्रन्थिवीसर्प: कफमारुतकोपज: ॥३॥
अथ कफपित्तात्मककर्दमविसर्पमाह ॥ कफपित्ताज्ज्वर: स्तम्भो निद्रा तन्द्रा शिरोरुजा । अड्गावसादविक्षेपप्रलापारोचकभ्रमा: ॥१॥
मूर्च्छाग्रिहानिर्भेदोऽस्थ्रां पिपासेन्द्रियगौरवम्‍ । आमोपवेशनं लेप: स्त्रोतसां च विसर्पति ॥२॥
प्रायेणामाशयं हृह्णन्नेकदेशं न चातिरुक्‍ । पिटिकैरवकीर्णोऽतिपीतलिहितपाण्डुरै: ॥३॥
स्निग्धोऽसितो मेचकाभो मलिन: शोथवान्‍ गुरु: । गम्भीरपाक: प्राज्योष्मा स्पृष्ट: क्लिन्नोऽवदीर्यते ॥४॥
पड्कवच्छीर्णमांसश्च स्फुटस्नायुशिरागण: । शवगन्धि: स वीसर्प: कर्दमाख्यमुशन्ति तम्‍ ॥ अग्निकर्दमको घोर: स पित्तकफसंभव: ॥५॥
क्षतजमाह ॥ बाह्यहेतो: क्षतात्क्रुद्ध: सरक्तं पित्तमीरयेत्‍ । विसर्प मारुत: कुर्यात्कुलत्थसदृशैश्चितम्‍ ॥ स्फोटै: शोथज्वररुजादाहाढ्यं श्यावलोहितम्‍ ॥१॥
अथ विसर्पोपद्रवानाह ॥ ज्वरातिसारवमथुत्वड्यांसदरणक्लमा: । अरोचका विपाकौ च विसर्पाणामुपद्र्वा: ॥१॥
अथ साध्यमाह ॥ सिध्यन्ति वातकफपित्तकृता विसर्पा: ॥१॥
अथासाध्यमाह ॥ सर्वात्मक: क्षतकृतश्च न सिद्धिमेति । पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्य: ॥ कृच्छ्राच्च मर्मसु भवन्ति हि सर्व एव ॥१॥
इति विसर्पनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
पूर्वमेव विसर्पेषु कुर्याल्लड्घनरुक्षणे । विरेकवमनालेपसेचनासृग्विमोक्षणै: । उपाचरेद्यथादोषं विसर्पानविदाहिभ: ॥१॥
अथ विरेचनम्‍ ॥ त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह । प्रयोक्तव्यं विरेकार्थं विसर्पज्वरशान्तये ॥ त्रिवृद्धरीतकीभिर्वा विसर्पे शोधनं हितम्‍ ॥१॥
अथ वमनम्‍ पटोलपिचुमन्दाभ्यां पिप्पल्या मदनेन वा । विसर्पे वमनं शस्तं तथा चेन्द्रयवै: सह ॥१॥
श्लैष्मिकेऽत्र वमि: कार्या पूर्वं रेचनकं तत: । मदनं मधुकं निम्बवत्सकस्य फलानि च ॥ एतैर्वमिर्विधातव्या विसर्पे कफसंभवे ॥२॥
अथ लेपा: ॥ रास्त्रा नीलोत्पलं दारु चन्दनं मधुकं बला । पिष्ट्वाज्यक्षीरवांल्लेपो वातवीसर्पनाशन: ॥१॥
प्रपोण्डरीकमञ्जिष्ठापद्मकोशीरचन्दनै: । सयष्टीन्दीवरोपेतै: क्षीरपिष्टै: प्रलेपनम्‍ ॥२॥
कसेरुशृड्गाटकपद्मगुञ्जा सशैवला: सोत्पलकर्दमाश्च । वस्त्रान्तरा: पित्तकृते विसर्पे लेपा विधेया: सघृता: सुशीता: ॥३॥
गायत्रीपद्मकोशीरसमड्गाकरवीरकम्‍ । नलमूलमनन्ता च लेप: श्लेष्मविसर्पहा ॥५॥
सर्पिषा शतधौतेन कृतो लेपो मुहुर्मुहु: । निहन्ति सर्ववीसर्पं सर्पं पतगराडिव ॥६॥
अथ दशाड्गलेप: ॥ शिरीषयष्टीनतचन्दनैलामांसीहरिद्राद्वयकुष्ठवालै: । लेपो दशाड्ग: सघृत: प्रयोज्यो विसर्पकुष्ठव्रणशोधहारी ॥१॥
अथ मांस्यादिलेप: ॥ मांसी सर्जरसो लोध्रं मधुकं सहरेणुकम्‍ । मूर्वानीलोत्पलं पद्मं शिरीषकुसुमानि च ॥ एतै: प्रदेह: कथितो वह्निवीसर्पनाशन: ॥१॥
शतधौतघृतविमिश्र: कल्कस्त्वक्पञ्चकस्य लेपेन । बहुदाहकमुच्चैरग्निविसर्पं विनाशयति ॥२॥
न्यग्रोधपादो गुञ्जा च कदलीगर्भ एव च । एतैर्ग्रन्थिविसर्पघ्नो लेपो धौताज्यसंयुत: ॥३॥
शतधौतघृतोन्मिश्र: शिरीषत्वग्रज: कृत: । लेप: शमयति क्षिप्रं विसर्पं कर्दमाभिधम्‍ ॥४॥
इति लेपा: ॥ अथ क्वाथा: ॥ कनीय: पञ्चमूलस्य यववल्कलकस्य वा । कषाय: पित्तवीसर्पे पाने सेकेऽपि शस्यते ॥१॥
अथ पटोलादि: ॥ कुलकवृषकिरातारिष्टतिक्ताक्षपथ्यामलकमलयजानां कौशिकाढ्य: कषाय: । सकलगदसमुत्थं हन्ति वीसर्पमुग्रं ज्वरवमिविषदाहभ्रान्तितृष्णारुजाभि: ॥१॥
अथ गुडूच्यादि: ॥ अमृतवृषपटोलं निम्बकल्कैरुपेतं त्रिफलखदिरसारं व्याधिघातं च तुल्यम्‍ ॥ क्वथितमिदमशेषं गुग्गुलो: पादयुक्तं हरति विषविसर्पान्‍ कुष्ठसंघातमाशु ॥१॥
वृन्दात्‍ ॥ अथ भूनिम्बाद्य: ॥ भूनिम्बवासा कटुका पटोलं फलत्रिकं चन्दननिम्बसिद्ध: । विसर्पदाहज्वरशोफकण्डूविस्फोटकतृष्णावमिनुत्कषाय: ॥१॥
अथ दुरालाभादि: ॥ दुरालभा पर्पटकं गुडूची विश्वभेषजम्‍ । निशापर्युषितं दद्यात्तृष्णावीसर्पशान्तये ॥१॥
अथ द्वितीय: पटोलादिर्वृन्दात्‍ ॥ पटोलं पिचुमन्दं च दार्वी कटुकरोहिणीं । यष्ट्याह्वं त्रायमाणां च दद्याद्वीसर्पशान्तये ॥१॥
अथ मुस्तादि: ॥ मुस्तारिष्टपटोलानां क्वाथ: सर्वविसर्पनुत्‍ । धात्रीपटोलमुद्गानामथवा घृतसंयुत: ॥१॥
इति क्वाथा: ॥ अथ घृतानि ॥ तत्रादौ गौराद्यं सर्पि: ॥ द्वे हरिद्रे स्थिरा मूर्वा सारिवा चन्दनद्वयम्‍ । मधुकं मधुपर्णी च पद्मकं पद्मकेसरम्‍ ॥१॥
उशीरमुत्पलं मेदा त्रिफला पञ्चवल्कलम्‍ । कल्कैरक्षसमैरेभिर्घृतप्रस्थं विपाचयेत्‍ ॥२॥
विषवीसर्पविस्फोटकीटलूताव्रणापहम्‍ । गौरोद्यमिति विख्यातं सर्पि: श्लेष्ममरुत्प्रणत्‍ ॥३॥
अथ वृषादिसर्पि: ॥ वृषखदिरपटोलपत्रनिम्बै: समममृतामलकीकषायकल्कै: । घृतमभिनवमेतदाशु पक्वं जयति सदास्त्रविसर्पकुष्ठगुल्मान्‍ ॥१॥
अथ दूर्वादिसर्पि: ॥ दूर्वावटोदुम्बरजम्बुसालसप्तच्छदाश्वत्थकषायकल्कै: । सिद्धं विसर्पज्वरदाहपाकविस्फोटशोफान्विनिहन्ति सर्पि: ॥१॥
इति घृतानि ॥ अथ करञ्जादितैलम्‍ करञ्जसप्तच्छदलाड्गलीकास्नुत्द्यर्कदुग्धानलभृड्गत्रायन्तीपाठा काश्मरिका बलि: ॥२॥
गायत्री त्रिफला तिक्ता सारिवा नक्तमालक: । वासोशीरमहावृक्षसोमराजीप्रियड्गुका: ॥३॥
चन्दनं पर्पटानन्ताविशालात्रिवृता जलम्‍ । कटुत्रिकं खुरासानं पलमेकं पृथक्‍ पृथक्‍ ॥४॥
द्वाविंशतिपलां पथ्यां जलद्रोणे विपाचयेत्‍ । अष्टावशेष: कर्तव्य: क्वाथ: सद्भिषजा तत: ॥५॥
वस्त्रपूता शिवा कार्या तीक्ष्णलोहेन वेधयेत्‍ । मधुमध्ये विनिक्षिप्य दिनत्रि:सप्तसंख्यया ॥६॥
विनष्टं मधु संत्यज्य मधु श्रेष्ठं पुन: क्षिपेत्‍ । तत: सुस्वादसंपन्नां प्रभाते भक्षयेच्छिवाम्‍ ॥७॥
विसर्पान्नाशयेत्सर्वान्कुष्ठान्यष्टादशापि च । खुडं पामां च कण्डूं च दद्रुविस्फोटविद्रधीन्‍ ॥ अन्यांस्त्वग्दोषजान्‍  रोगांस्तथा रक्तसमुद्भवान्‍ ॥८॥
इति मञ्जिष्ठाभया ॥ त्रिदोषघ्नीं क्रियां कुर्याद्विसर्पे द्वन्द्वसंभवे । रसायनानि कुष्ठेषु सर्पीषि क्वाथनानि च । चूर्णादीन्यपि सर्वाणि विसर्पेष्वपि तान्यलम्‍ ॥१॥
अथ पथ्यापथ्यम्‍ ॥ विरेको वमनं लेपो लड्घनं रक्तमोक्षणम्‍ । पुराणयवगोधूमकड्गुषष्टिकशालय: ॥ मुद्गा मसूराश्चणकास्तुवर्यो जाड्गलो रस: ॥१॥
नवनीतं घृतं द्राक्षा दाडिमं कारवेल्लकम्‍ । वेत्राग्रं कुलकं धात्री खदिरो नागकेसरम्‍ ॥२॥
द्राक्षा शिरीषकर्पूरं चन्दनं तिललेपनम्‍ । यथादोषं पथ्यमिदं सेवितव्यं विसर्पिभि: ॥३॥
व्यायाममह्नि शयनं सुरतं प्रवातं क्रोधं शुचं वमनवेगविधारणं च । गुर्वन्नपानमखिलं लशुनं कुलित्थान्माषांस्तिलान्सकलमांसमजाड्गलं च ॥ स्वेदं विदाहिलवणाम्लकटूनि मद्यमर्कप्रभामपि विसर्पगदी त्यजेच्च ॥४॥
इति पथ्यापथ्यम्‍ ॥ इति विसर्परोगचिकित्सा ॥

N/A

References : N/A
Last Updated : March 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP