संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथोष्णवारिगुणाः ॥

॥ अथोष्णवारिगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


यत्क्काथ्यमानं निर्वेगं निष्फेनं निर्मलं भवेत्‌ ।
अर्धावशिष्टं भवति तदुष्णोदकमुच्यते ॥१॥
कफमेदोनिलामघ्नं दीपनं बस्तिशोधनम्‌ ।
कासश्वासज्वरहरं पथ्यमुष्णोदकं सदा ॥२॥
तप्तं पाथः पादभागेन हीनं पथ्यं प्रोक्तं वातजातामयघ्नम्‌ ।
अर्धांशोनं नाशयेद्वातपित्तं पादप्रायं तत्तु दोषत्रयघ्नम्‌ ॥३॥
तप्तायःपिण्डसंसिक्तं लोष्ठनिर्वापितं जलम्‌ ।
सर्वदोषहरं पथ्यं सदा नैरुज्यकारकम्‌ ॥४॥
उष्णोदकं श्रेष्ठतमं वदन्ति विश्वायवानीसहितं क्रमेण ।
कफे च वाते न च पित्तरोगे सर्वेषु रोगेषु न शीतलाम्बु ॥५॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP