संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तत्र वर्णभेदाः ॥

॥ अथ तत्र वर्णभेदाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


कृष्णगव्या वरं क्षीरं वातपितकफप्रणुत्‌ ।
पीताया वातपित्तघ्नं रक्ताया वातहृत्परम्‌ ॥१॥
चित्रायास्तद्वदाख्यातं श्वेतायाः श्लेष्मलं गुरु ।
बालवत्साविवत्सानां गत्वां क्षीरं त्रिदोषकृत्‌ ॥२॥
बष्कयण्यास्त्रिदोषघ्नं तर्पणं बलकृत्पयः ।
पिण्याकाद्यशनाज्जातं क्षीरं गुरु कफावहम्‌ ॥३॥
निद्रारेतोबलस्थौल्यवह्निमान्द्यकरं हिमम्‌ ।
कृष्णगव्या पयःफेनो ह्यजानां चातिशस्यते ॥४॥
मन्दाग्नीनां कृशानां च विशेषादतिसारिणाम्‌ ।
उत्साहदीपनं बल्यं मधुरं वातनाशनम्‌ ॥५॥
सद्यो बलकरं दण्डतप्तक्षीरं विलोडितम्‌ ।
क्षीणे ज्वरातिसारे च सामे च विषमे ज्वरे ।
मन्दाग्नौ कफमाश्रित्य पयःफेनः प्रशस्यते ॥६॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP