TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मूत्राघातनिदानं व्याख्यास्याम: ॥

॥ अथ मूत्राघातनिदानं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ मूत्राघातनिदानं व्याख्यास्याम: ॥
॥ अथ मूत्राघातनिदानं व्याख्यास्याम: ॥
जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश । प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकादय: ॥१॥
अथादौ तेषां मध्ये क्रमेण वातकुण्डलिकामाह ॥ रुक्षाद्वातविघाताद्वावायुर्वस्तौ सवेदन: । मूत्रमाविश्य चरति विगुण: कुण्डलीकृत: ॥१॥
मूत्रमल्पाल्पमथवा  सरुजं संप्रवर्तते । वातकुण्डलिकां तां तु व्याधिं विद्यात्सुदारूणम्‍ ॥२॥
अथाष्ठीलामाह ॥ आधापयन्वस्तिगुदं रुद्‍ध्वा वायुश्चलोन्नताम्‍ । कुर्यात्तीव्रार्तिमष्ठीलां मूत्रमार्गनिरोधिनीम्‍ ॥१॥
अथ वातबस्तिमाह ॥ वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नर: । निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिल: ॥१॥
मूत्रसड्गो भवेत्तेन वस्तिकुक्षिरुजाकर: । वातवस्ति: स विज्ञेयो व्याधि: कृच्छ्रप्रसाधन: ॥२॥
अथ मूत्रातीतमाह ॥ चिरं धारयतो मूत्रं त्वरया न प्रवर्तते । मेहमानस्य मन्दं वा मूत्रातीत: स उच्यते ॥१॥
अथ मूत्रजठरमाह ॥ मूत्रस्य वेगेऽभिहते तदुदावर्तहेतुक: । अपान: कुपितो वायुरुदरं पूरयेद्भृशम्‍ ॥१॥
नाभेरधस्ताध्मानं जनयेत्तीव्रवेदनम्‍ । तन्मूत्रजठरं विद्याद्‍ गुदवस्तिनिरोधनम्‍ ॥२॥
अथ मूत्रोत्सड्गमाह ॥ वस्तौ वाप्यथ वा नाले मणौ वा यस्य देहिन: । मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहत: ॥१॥
स्त्रवेच्छनै: शनैरल्पं सरुजं वाथ नीरुजम्‍ । विगुणानिलजो व्याधि: स मूत्रोत्सड्गसंज्ञित: ॥२॥
अथ मूत्रक्षयमाह ॥ रुक्षस्य क्लान्तदेहस्य वस्तिथौ पित्तमारुतौ । मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम्‍ ॥१॥
अथ मूत्रग्रन्थिमाह ॥ अन्तर्वस्तिमुखे वृत्त: स्थिरोऽल्प: सहसा भवेत्‍ । अश्मरीतुल्यरुगग्रन्थिर्मूत्रग्रन्थि: स उच्यते ॥१॥
तन्त्रान्तरे । उक्तं वातकफाद्दुष्टं वस्तिद्वारेषु दारूणम्‍ । ग्रन्थिं कुर्यात्स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्‍ ॥१॥
॥ अथ मूत्रशुक्रमाह ॥ मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धतम्‍ । स्थानाच्च्युतं मूत्रयत: प्राक्‍ पश्चाद्वा प्रवर्तते ॥ भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥१॥
अथोष्णवातमाह ॥ व्यायामाध्मातपै: पित्तं वस्तिं प्राप्यानिलावृतम्‍ । वस्तिं मेढ्रं गुदं चैव प्रदहेत्‍ स्त्रावयेदध: ॥१॥
मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा । कृच्छ्रात्पुन: पुनर्जन्तोरुष्णवातं बदन्ति तम्‍ ॥२॥
अथ मूत्रसादमाह ॥ पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत्‍ । कृच्छ्रान्मूत्रं तदा रक्तं पीतं श्वेतं वा मूत्रसादं वदन्ति तम्‍ ॥२॥
अथ विड्विघातमाह ॥ रुक्षदुर्बलयोर्वातादुदावृत्तं शकृद्यदि । मूत्रस्त्रोतोऽनुपद्येत विड्‍विसृष्टं तदा नर: । विड्गन्धं मूत्रयेत्‍ कृच्छ्रद्विड्‍विघातं तमादिशेत्‍ ॥१॥
अथ बस्तिकुण्डलमाह ॥ द्रुताध्वलड्घनायासैरभिघातात्प्रपीडनात्‍ । स्वस्थानाद्वस्तिरुद्‍वृत्त: स्थूलस्तिष्ठति गर्भवत्‍ ॥१॥
शूलस्पन्दमदाहार्तो बिन्दुं बिन्दूं स्त्रवत्यपि । पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्तनार्तिमान्‍ ॥२॥
बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्‍ । पवनप्रबलं प्रायो दुर्निवारमबुद्धिभि: ॥३॥
तस्मिन्पित्तावृते दाह: शूलं मूत्रविवर्णता । श्लेष्माणा गौरवं शोफ: स्निग्धं मूत्रं घनं सितम्‍ ॥४॥
श्लेष्मरुद्धबिलो वस्ति: पित्तोदीर्णो न सिध्यति । अविश्रान्तबिल: साध्यो न च य: कुण्डलीकृत: ॥ स्याद्वस्तौ कुण्डलीभूते तृण्मोह: श्वास एव च ॥५॥
इति मूत्राघातनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
स्नेहस्वेदोपपन्नस्य हितं स्नेहविरेचनम्‍ । दद्यादुत्तरवस्तिं च मूत्राघाते सवेदने ॥१॥
अथ नलादिक्वाथ: ॥ नलकुशकाशेक्षुशिफाक्वथितं प्रात: सुशीतलं ससितम्‍ पिबत: प्रयाति नियतं मूत्राघात: सवेदन: पुंस: ॥१॥
अथ गोधावन्यादि ॥ गोधावन्यामूलक्वथितं घृततैलगोरसोन्मिश्रम्‍ । पीतं विरुद्धमचिराद्भिनत्ति मूत्रस्य संघातम्‍ ॥१॥
अथ शार्ड्गधरात्‍ । वीरन्तरो वृक्षवृन्दावासासहचरद्वयम्‍ । कुशद्वयं नलो गुन्द्रा बकपुष्णोऽग्निमन्थक: ॥१॥
मूर्वा पाषाणभेदश्च स्योनाको गोक्षुरस्तथा । अपामार्गश्च कमलं ब्राह्मी चेति गणो वर: ॥२॥
वीरन्तरादिरित्येष शर्कराश्मरिकृच्छ्र्हा । मूत्राघातं वातरोगान्नाशयेदखिलानपि ॥३॥
पिबेच्छिलाजतुक्वाथे गने वीरन्तरादिके । रसं दुरालभाया वा कषायं वासकस्य च ॥४॥
अथ दशमूलादिक्वाथ: ॥ दशमूलीशृतं पीत्वा सशिलाजतुशर्करम्‍ । वातं कुण्डलिकाष्ठीलावातवस्तौ प्रमुच्यते ॥१॥
अथ गोक्षुरादिक्वाथ: ॥ पीतो गोकण्टकक्वाथ: सशिलाजतुकौशिक: । मूत्रकृच्छ्रान्मूत्रशुक्रान्मूत्रोत्सड्गादिमुच्यते ॥१॥
अथ शिलाजतुयोग: ॥ सशर्करं च ससितं लीढं सिद्धं शिलाजतु । निहन्ति मूत्रजठरं मूत्रातीतं च देहिन: ॥१॥
अथ त्रिकण्टकादियोग: ॥ त्रिकण्टकैरण्डशतावरीभि: सिद्धं पयो वातमये च शूले । गुडप्रगाढं सघृतं पयो वा रोगेषु कृच्छ्रादिषु शस्तमेतत्‍ ॥१॥
अथ निदिग्धिकादियोग: ॥ निदिग्धिकाया: स्वरसं पिबेद्वा तक्रसंयुतम्‍ । जले कुड्कुमकल्कं वा सक्षौद्रमुषितं निशि ॥१॥
शृतशीतं पयो मांसी चन्दनं तण्डुलाम्बुना । पिबेत्सशर्करां श्रेष्ठामुष्णवाते सशोणिते ॥२॥
अथ शतावर्यादियोग: ॥ वरीगोक्षुरभूधात्रीमूलानां स्वरसं पलम्‍ । माषमेकं यवक्षारं सौरं माषद्वयं तथा ॥१॥
द्विगुञ्जं टड्कणं क्षारं सर्वमेकत्रमेलयेत्‍ । पिबेत्तत्तु विनाशाय मूत्राघाते सुदारुणे ॥२॥
इति सारसंग्रहात्‍ ॥ स्त्रीणामतिप्रसड्गेन शोणितं यस्य सिच्यते । मैथुनोपरमश्चास्य बृहणीयो विधिर्मत: ॥ ताम्रचूडवसातैलं हितं चोत्तरवस्तिषु ॥१॥
अथ स्वगुप्ताद्यं चूर्णम्‍ । स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारज: । समानमर्घंभागानि क्षीरक्षौद्रघृतानि च ॥१॥
सर्वं सम्यविग्वमर्द्यांक्षमात्रां लीढ्वा पय: पिबेत्‍ । हन्ति शुक्रक्षयोत्थांश्च दोषान्वध्यासुतप्रदम्‍ ॥२॥
अथ क्षौद्रार्धभागघृतम्‍ ॥ क्षौद्रार्धभाग: कर्तव्यो भाग: स्यात्क्षीरसर्पिषो: । शर्करायाश्च चूर्णं च द्राक्षाचूर्णं च तत्समम्‍ ॥१॥
स्वयड्गुप्ताफलं चैव तथैवेक्षुरकस्य च । पिप्पलीनां तथा चूर्णं समभागं प्रदापयेत्‍ ॥२॥
तदेकस्थं मेलयित्वा खल्वेनोन्मथ्य च क्षणम्‍ । तस्य पाणितलं चूर्णं लिहेत्क्षीरं तत: पिबेत्‍ ॥३॥
एत्सर्पि: प्रयुञ्जान: शुद्धदेहो नर: सदा । शुक्रदोषाञ्जयेत्सर्वानेवापि भृशदुर्जयान्‍ ॥ जयेच्छोणितदोषांश्च वन्ध्या स्त्री गर्भमाप्नुयात्‍ ॥४॥
अथ धान्यगोक्षुर्याद्यं घृतम्‍ ॥ धान्यगोक्षुरकक्काथकल्कसिद्धं घृतं हितम्‍ । मूत्रघातेषु कृच्छ्रेषु शुक्रदोषे च दारूणे ॥१॥
अथ चित्रकाद्यं घृतम्‍ ॥ चित्रकं सारिवा चैव बला काला च सारिवा । द्राक्षाविशाला पिप्पल्यस्तथा च त्रिफला भवेत्‍ ॥१॥
तथैव मधुकं दद्याद्दद्यादामलकानि च । घृताढकं पचेदेतै: कल्कैरक्षसमन्वितै: ॥२॥
क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत्‍ शीतं परिशृतं चैव शर्कराप्रस्थसंयुतम्‍ ॥३॥
तुगाक्षीर्या च तत्सर्वं मतिमान्परिमिश्रयेत्‍ । ततो मितं पिबेत्काले यथादोषं यथाबलम्‍ ॥४॥
मूत्रग्रन्थिं मूत्रसादमुष्णवातमसृग्दरम्‍ । विड्विघातं निहन्त्येतद्वस्तिकुण्डलिमप्यलम्‍ ॥५॥
सर्पिरेतत्प्रयुञ्जाना स्त्रीगर्भं लभतेऽचिरात्‍ । अस्त्रदोषे योनिदोषे मूत्रदोषे तथैव च ॥ प्रयोक्तव्यमिदं सर्पिश्चित्रकाद्यं सदा बुधै: ॥६॥
अथ सदाभद्राद्यं चूर्णम्‍ ॥ सदाभद्राश्मभिन्मूलं शतादर्याश्च चित्रकम्‍ । रोहिणीकोकिलाक्षौ च क्रौञ्चस्थूलं त्रिकण्टकम्‍ ॥ श्लक्ष्णपिष्टा: सूरापीता मूत्राघातप्रबन्धना:  ॥१॥
अथोशीरादि चूर्णम्‍ ॥ उशीरं वालकं पत्र कुष्ठं धात्री च मौसली । एला हरेणुकं द्राक्षा कुड्कुमं नागकेसरम्‍ ॥१॥
पद्मकेसरकन्दं च कर्पूरं चन्दनद्वयम्‍ । व्योषं मधुकलाजाश्च अश्वगन्धा शतावरी ॥२॥
गोक्षुरं कर्कटाख्यं च जातीकड्कोलचोरकम्‍ । एतानि समभागानि द्विगुणामृतशर्करा ॥३॥
मत्स्यण्डिकामधुभ्यां च प्रातरेव बुभुक्षित: । क्षयं च रक्तपित्तं च पाददाहमसृग्दरम्‍ ॥४॥
मूत्राघातं मूत्रकृच्छ्रं रक्तस्त्रावं च नाशयेत्‍ । अशीति वातजान्‍ रोगान्‍ विशेषान्मेहनुप्तरम्‍ ॥५॥
इत्युशीरादि ॥ अश्मरीमूत्रकृच्छ्रेषु भेषजं यक्रिया च या । मूत्राघातेषु सर्वेषु कुर्यात्तत्सर्वमादरात्‍ ॥१॥
रसश्चन्द्रकलाख्यश्च कृच्छ्रघ्नो य: पुरेरित: । मूत्राघातेषु सर्वेषु स प्रयोज्यो बिजानता ॥२॥

॥ अथ पथ्यापथ्यम्‍ ॥
पुरातना लोहितशालयश्च मांसानि धन्वप्रभवाणि मद्यम्‍ ॥ तक्रं पयो दध्यपि माषयूष: पुराणकूष्माण्डफलं पटोलम्‍ ॥१॥
उर्वारुखर्जूरकनारिकेलतालद्रुमाणामपि मस्तकानि । यथामलं सर्वमिदं च मूत्रघातपुराणां हि तमादिशन्ति ॥२॥
विरुद्धाशनसर्वाणि व्यायामं मार्गशीतलनम्‍ । रुक्षं विदाहि बिष्टम्भि व्यवायं वेगधारणम्‍ ॥
करीरं वमनं चापि मूत्राघाती विवर्जयेत्‍ ॥३॥
इति मूत्रघातचिकित्सा ॥
॥ अथाश्मरीनिदानं व्याख्यास्याम: ॥
वातपित्तकफैस्तिस्त्रश्चतुर्थी शुक्रजापरा । प्राय: श्लेष्माश्रया: सर्वा ह्यश्मर्यं: स्युर्यमोपमा: ॥१॥
अथ तत्सप्राप्तिमाह ॥ विशेषयेद्वस्तिगतं रोचना गो: ॥१॥
अथ तस्यामनेकदोषाश्रयत्वमाह ॥ नैकदोषाश्रया: सर्वास्त्वथासां पूर्वलक्षणम्‍ । वत्स्याध्मानं मूत्रकृच्छ्रं ज्वरोऽरुचि: ॥१॥
अथ तासां सामान्यलक्षणमाह ॥ सामान्यलिड्गं रुड्नाभिसीवन्तीवस्तिमूर्धसु । विशीर्णधारं मूत्रं स्यात्तया मार्गे निरोधिते ॥१॥
अथ पुनर्लक्षणान्तरमाह ॥ तव्द्यपायात्‍ सुखं मेहेदच्छं गोमेदकोपमम्‍ । तत्संक्षोभात्क्षते सास्त्रमायासाच्चातिरुग्भवेत्‍ ॥१॥
अथ वातजामाह ॥ तत्र वातादृशं चार्त्रो दन्तान्‍ खादति वेपते । मृद्गाति मेहनं नाभिं पीडयत्यनिशं क्वणन्‍ ॥१॥
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुश: । श्यावारुणाश्मरी चास्य स्याच्चिताकण्टकैरिव ॥२॥
अथ पित्तजमाह ॥ पित्तेन दह्यते वस्ति: पच्यमान इवोष्मवान्‍ । भल्लातकास्थिसंस्थाना रक्तपीता तथाश्मरी ॥१॥
अथ श्लेष्मजमाह ॥ वस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरु: । अश्मरी महती श्लक्ष्णा मधुवर्णाथ वा सिता ॥१॥
॥ अथ प्रायेण शिशूनां ता भवन्ति ॥ एता भवन्ति बालानां तेषामेव च भूयसा । आश्रयोपचयाल्पत्वाद्‍ ग्रहणाहरणे सुखा: ॥१॥
अथ शुक्राश्मरीमाह ॥ शुक्राश्मरी तु शोषयत्युपसड्गृह्य शुक्रं तच्छुक्रजाश्मरी ॥१॥
अथ तल्लक्षणमाह ॥ वस्तिरुडमूत्रकृच्छ्र्त्वं मुष्कश्वयथुकारिणी । तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते ॥१॥
॥ अथ शर्करालक्षणमाह ॥ पीडिते त्ववकाशेऽस्मिन्नश्मर्येव च शर्करा । अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे ॥१॥
निरेइ सह मूत्रेण प्रतिलोमे विबध्यते । मूत्रस्त्रोत:श्रिता सा तु सक्ता कुर्यादुपद्रवान्‍ ॥२॥
अथ तानेवोपद्रवानाह ॥ दौर्बल्यं सदनं कार्श्यं कुक्षिशूलमथारुचि । पाण्डुत्वमुष्णवातं च तृष्णाहृत्पीडनं वमि: ॥१॥
अथ तस्या असाध्यत्वमाह ॥ प्रशूननाभिवृषणं बद्धमूत्रं रुजावहम्‍ । अश्मरी क्षपयत्याशु सिकता शर्करान्विता ॥१॥
अप्सु स्वच्छास्वपि तथा निषिक्ता सुघटेऽथ वा । कालान्तरेण पड्क: स्यादश्मरीह भवेत्तथा ॥२॥
इत्यश्मरीनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ।
आदौ शूल: कुक्षिदेशे कटौ स्यात्पश्चाद्रोधो जायते मूत्रमुष्णम्‍ । एतैर्लिड्गैरश्मरीरोगचिह्नं ज्ञात्वा कुर्याद्भेषजाद्यैश्चिकित्साम्‍ ॥१॥
अथ वाताश्मरी ॥ वाताश्मरीपूर्वरुपे स्नेहपानं प्रशस्यते ॥१॥
अथ शुण्ठ्यादि: क्वाथ: ॥ शुण्ठ्यग्निमन्थपाषाणभिच्छिग्रुवरुणक्षुरै: । अभयारग्वधफलै: क्वाथं कृत्वा विचक्षण: ॥१॥
रामठक्षारलवणचूर्णं दत्वा पिबेन्नर: । वाताश्मरीं हन्ति कृच्छ्रं मान्द्यमग्रेश्च तनुज: ॥ कट्यूरुगुदमेढ्रस्थं वड्क्षणस्थं च मारुतम्‍ ॥२॥
अथ वरुणक्वाथ: ॥ वरुणस्य त्वचं श्रेष्ठां शुण्ठीगोक्षुरसंयुताम्‍ । क्वाथयित्वा शृतं तस्य यवक्षारगुडान्विताम्‍ ॥ पीत्वा वाताश्मरीं हन्ति चिरकालानुबन्धिनीम्‍ ॥१॥
अथ वीरतर्वादि: ॥ वीरतर्वादिक: क्वाथ: पूर्वोक्तो वातजाश्मरीम्‍ । सद्यो हन्ति यवाक्षारगुडयुक्तो न संशय: ॥१॥
क्षारान्यवागूं पेयांश्च कषायाणि पयांसि च । भोजनार्थं प्रयोज्यानि वाताश्मरीजुषां नृणाम्‍ ॥२॥
अथ पित्ताश्मरी ॥ पीत्वा पाषाणभित्क्वाथं सशिलाजतुशर्करम्‍ । पित्ताश्मरीं निहन्त्याशु वृक्षमिन्द्राशनिर्यथा ॥१॥
अथ कफाश्मरी ॥ क्वाथो निपीत: सक्षार: शिग्रुतग्वरुणत्वचो: । कफजाश्मरीं हन्ति शक्राशनिरिव द्रुमम‍ ॥१॥
अथ शुक्राश्मरी ॥ शुक्राश्मर्यां सुसामान्यो विधिरश्मरिनाशन: ॥१॥
अथ कूष्माण्डरस: ॥ यवक्षारगुडोन्मिश्रं पिबेत्पुष्पफलोद्भवम्‍ । रसं मूत्रविबन्धघ्नं शुक्राश्मरिविनाशनम्‍ ॥१॥
॥ अथ शतावर्यादि: ॥ शतावरीमूलरसो गव्येन पयसा सम: । पीतो निपातयत्याशु ह्यश्मरीं चिरजामपि ॥१॥
अथ कुटजादियोग: ॥ पिबत: कुटजं दग्धा पथ्यमन्नं च खादत: । निपतत्यचिरादस्य निश्चितं मेढ्रशर्करा ॥१॥
अथ कुटजकल्क: । अथैरण्डादिकल्क: ॥ गन्धर्वहस्तबृहतीव्याघ्रीगोक्षुरकेक्षुरात्‍ । मूलकल्कं पिबेद्दग्धा महुरेणाश्मभेदन: ॥१॥
अथ पाषाणभेदादिक्वाथ: ॥ पाषाणभिद्वरुणगोक्षुरकोरुबूकक्षुद्राद्वयक्षुरकमूलकृत: कषाय: । दग्धा युतो जयति मूत्रविबन्धशुक्रमुग्राश्मरीमपि च शर्करया समेताम्‍ ॥१॥
अथैलादि ॥ एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकै: ॥ शृतं पिबेदश्मजतुप्रगाढं सशर्करे साश्मरिमूत्रकृच्छ्रे ॥१॥
अथ शिग्रुमूलादि: ॥ क्वाथश्च शिक्रूमूलोत्थ: कदुष्णोऽश्मरीपातन: । क्षीरान्नभुग्‍ बर्हिशिखामूलं वा तण्डुलाम्बुना ॥१॥
अथ शिलाजत्वादि ॥ अश्मर्यां चाश्मरीकृच्छ्रे शिलाजतु समाक्षिकम्‍ । यवक्षारं गोक्षुरं च स्वादेद्वा । दृढमूत्रशर्करवान्‍ भवति  सुखी कतिपयैर्दिवसै: ॥१॥
अथ राजमार्तण्डाद्‍ गोपालकर्कट्यादि ॥ गोपालकर्कटीमूलं पिष्टं पर्युषिताम्भसा । पीयमानं त्रिरात्रेण पातयत्यश्मरी हठात्‍ ॥१॥
अथ वृन्दात्‍ ॥ शृड्गबेरादियोग: ॥ शृड्गबेरयवक्षारपथ्याकालीयकान्वितम्‍ । आजं दधि भिनत्त्युग्रामश्मरीमाशु पातयेत्‍ ॥१॥
अथार्कपुष्पीकल्क: ॥ गव्येन पिष्टा पयसार्कपुष्पी निपीयमानानुदिनं प्रभाते । विदार्य वीर्येण निजेन तीव्रामप्यश्मरीं या कुरुते सदाहाम्‍ ॥१॥
अथ त्रिकण्टकादिचूर्णम्‍ ॥
त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम्‍ । अविक्षीरेण सप्ताहं पिबेदश्मरिभेदनम्‍ ॥१॥
अथ हरिद्रादियोग: ॥ य: पिबेद्रजनीं सम्यक्‍ सगुडां तुषवारिणा । तस्याशु चिररुढापि यात्यस्तं मेण्ढ्रशर्करा ॥१॥
अथ तिलादिक्षारयोग: ॥ तिलापामार्गकतिलक्षार: ॥ क्षार: पेयोऽ‍विमूत्रेण शर्करास्वश्मरीषु च ॥१॥
अथ तिलक्षार: ॥ क्षारो निपीतस्तिलनालजात: समाक्षिक: क्षीरयुतस्त्रिरात्रम्‍ । हन्त्यश्मरीं सिन्धुविमिश्रितं वा निपीयमानं रुचकं प्रयत्नात्‍ ॥१॥
अथ वरूणादिघृतम्‍ ॥ वरुणस्य तुलां क्षुण्णां जलद्रोणे विपाचयेत्‍ । पादशेषं परिस्त्राव्य घृतप्रस्थं विपाचयेत्‍ ॥१॥
वारुणी कदली बिल्वं तृणजं पञ्चमूलकम्‍ । अमृता त्वश्मजं देयं बीजं च त्रपुसस्य च ॥२॥
शतपर्वा तिलक्षार: पलाशक्षार एव च । यूथिकायाश्च मूलानि कार्षिकाणि समावपेत्‍ ॥३॥
अस्य मात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया । जीर्णे चानुपिबेत्पूर्वमजीर्णेन तु मस्तुना ॥ अश्मरीं शर्करां चैव मूत्रकृच्छ्रं च नाशयेत्‍ ॥४॥
इति वरुणघृतम्‍ ॥ अथ पाषाणभेदपाक: ॥ अश्मभेदात्प्रस्थमेकं चूर्णितं वस्त्रगालितम्‍ । गव्ये दुग्धाढके क्षिप्त्वा पाचयेन्मृदुवह्निना ॥१॥
दर्व्या संमर्दयेत्तावद्यावद्‍घनतरं भवेत्‍ । एला लवड्गमगधा यष्टी मध्वमृताभया ॥२॥
कौन्ती क्ष्वदंष्ट्रा वृषकं शरपुड्खा पुनर्नवा । यावशूको निलम्बी च मांसी सप्ताड्गुलात्पलम्‍ ॥३॥
वड्गं लोहं तथाभ्रं च कर्पूरं पर्पटं सटी । पत्रेभकेसरं त्वक्‍च संशुद्धं च शिलाजतु ॥४॥
पृथगर्धपलं चूर्णं चूर्णितं सितशर्करा । सार्धप्रस्थमिता ग्राह्या दुग्धे वै लेह्यतां नयेत्‍ ॥५॥
सर्वं तन्निक्षिपेत्तत्र स्वाड्गशीतलतां नयेत्‍ । मधुन: प्रस्थकं दद्यात्सिन्ग्धभाण्डे विनिक्षिपेत्‍ ॥६॥
कर्षार्धं भक्षयेत्प्रातस्तीक्ष्णं तैलादिकं त्यजेत्‍ । पञ्चाइमरीभेदन: स्यान्मूत्रकृच्छ्रं खुडं तथा ॥७॥
मूत्राघातान्प्रमेहांश्च नाशयेनमधुमेहताम्‍ । अधोगं रक्तपित्तं च वस्तिकुक्षिगदं तथा ॥८॥
तीव्राश्मरीपरीतानां विशेषेण हितं हि तत्‍ । प्रथमात्रिणा विरचितं च्यवनाय निवेदितम्‍ ॥९॥
अथ रसा: ॥ तत्रादौ पाषाणवज्रकरस: ॥ शुद्धसूतं त्रिधा गन्धं द्रावै: श्वेतपुनर्नवै: । मर्दयित्वा दिनं खल्वे रुद्ध्वा तद्भूधरे पचेत्‍ ॥१॥
पाषाणभेदचूर्णं तु समयुक्तं द्विमाषकम्‍ । भक्षयेदश्मरीं हन्ति रस: पाषानवज्रक: ॥२॥
गोपालकर्कटीमूलक्वाथं तदनु पापयेत्‍ ॥३॥
अथ त्रिविक्रमरस: ॥ ताम्रभस्म त्वजाक्षीरे पाच्यं तुल्ये घृते पचेत्‍ । तत्ताम्रं शुद्धसूतं च गन्धकं च समं समम्‍ ॥१॥
निर्गुण्द्ययुत्थद्रवैर्मर्द्यं दिनं तद्गोलमाहरेत्‍ । यामैकं वालुकायन्त्रे पाच्यं भोज्यं द्विगुञ्जकम्‍ ॥२॥
बीजपूरस्य मूलं तु सजलं चानुपाययेत्‍ । रसस्त्रिविक्रमो नाम्ना सिकतां चाश्मरीं जयेत्‍ ॥३॥
अथ पथ्यम्‍ ॥ कुलित्था मुद्गगोधूमा जीर्णशालियवा हिता: । धन्वामिषं तण्डुलीयं जीर्णकूष्माण्डकं फलम्‍ ॥ आर्द्रकं यावशूकश्च पथ्यमश्मरीरोगिणाम्‍ ॥१॥
इत्यश्मरीचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T20:03:00.8200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

suspension polymerisation

  • निलंबन बहुवारिकन 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.