संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ देशाः ॥

॥ अथ देशाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


देशोऽल्पवारिद्रुनगो जाङ्गलः स्वल्परोगदः । अनूपो विपरीतोऽस्मात्समः साधारणः स्मृतः ॥१॥
जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्बनम्‌ । साधारणं सममलं त्रिधा भूदेशमादिशेत्‌ ॥२॥
मतान्तरे । देशः प्रचुरपानीयो बहुवृक्षसमाकुलः । वातकफव्याधिरनूप इति कथ्यते ॥३॥
स्वल्पोदकः स्वल्पवृक्षो बहुपित्तासृगामयः । कथ्यते जाङ्गलो देशस्ताभ्यां साधारणः परः ॥४॥
इति देशः ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP