TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पञ्चतिक्तघृतम् ॥

॥ अथ पञ्चतिक्तघृतम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ पञ्चतिक्तघृतम् ॥
॥ अथ पञ्चतिक्तघृतम्‍ ॥
निम्बामृतावृषपटोलनिदिग्धिकानां भागान्पृथग्‍ दशपलानि पचेद्धटेऽपाम्‍ । अष्टाशेषितरसेन पुनश्च तेन प्रस्थं घृतस्य विपचेत्पिचुभागकल्कै: ॥१॥
रास्त्राविड्गदारुगजोपकुल्याद्विक्षारनागरनिशामिशिचव्यकुष्ठै: । तेजोवतीमरिचवत्सकदीप्यकाग्निरोहिण्यपुष्करवचाकणमूलयुक्तै: ॥२॥
मञ्जिष्ठया तु विषया त्रिवृत्ता यवान्या संशुद्धगुगुलुषलैरपि पञ्चसंख्यै: । तत्सेवितं घृतप्रतिप्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठ्मीदृक्‍ ॥३॥
नाडीव्रणार्बुदभगन्दरगण्डमालाजत्रूर्ध्ववातगुदगुल्मगुदोत्थमेहान्‍ । यक्ष्मारुजश्वसनपीनसकासशोफहृत्पाण्डुरोगमथ विद्रधिवातरक्तम्‍ ॥४॥
इति पञ्चतिक्तघृतम्‍ ॥

॥ अथाजमोदादिवटी ॥
अजमोदा कणा वेल्लं शतपुष्पा सनागरम्‍ । मरीचं सैन्धवं देवं भागैकं च पृथक्‍ पृथक्‍ ॥१॥
पञ्चभागा हरीतक्या: शुण्ठी च दशभागिका । वृद्धदारोर्दशांश: स्यात्‍ षट्‍त्रिंशद्‍ गुडभागका: ॥२॥
गुडपाकैर्वटीं कृत्वा मात्राकर्ष: प्रकीर्तित: । संधिवाते प्रदेयं तत्त्वामवाते सुदारुणे ॥ उष्णोदकानुपानेन सर्ववातं नियच्छति ॥३॥

॥ अथ वाते कढी ॥
निर्गुण्डीदीप्यकं वह्निहरिद्राविश्वभेषजम्‍ । तक्रं काञ्जिकसम्पक्वं वातघ्नं वह्निवर्धनम्‍ ॥१॥

॥ अथ स्वेदलेपविधि: ॥
एरण्डार्ककरञ्जमोरटबलातर्कारिसोमस्नुहीनिर्गुण्डीतलपोटशिगुवरणास्फोताश्वगन्धादिजै: । पत्रै: काञ्जिकमूत्रचुक्रसहितै: स्विन्नैर्घटस्थै: कृतै: स्वेद: क्रुद्धसमीरणार्तवपुषां सद्य: मुखोत्पादक: ॥१॥
निर्गुण्ड्या चोपनाहं च सकरञ्जै: सपित्तलै: । भेषजै: सेकलेपादि त्वभिषेकादिकं चरेत्‍ ॥२॥
शतपुष्पसुरर्द्रुदिनेशपयोगदरामठसिन्धुभवं हरति । अपि लेपनतोऽस्थिगतं मरुतं कटिसन्धिभवं त्रिदिनात्सततम्‍ ॥३॥

॥ अथ महाशाल्बणयोग: शार्ड्गधरात्‍ ॥
कुलत्थमाषगोधूमैरतसीतिलसर्षपै: । शतपुष्पं देवदारुशेफालीस्थूलजीरकै: ॥१॥
एरण्डबिल्वमूलैश्च रास्त्रामूलैश्च शिग्रुभि: । मिशिकृष्णाकुठेरैश्च लवणैरम्लसंयुतै: ॥२॥
प्रसारण्यश्वगन्धाभ्यां बलाभिर्दशमूलकै: । गुडूच्या वानरीबीजैर्यथालाभं समाहृतौ: ॥३॥
क्षुण्णै: स्विन्नैश्च वस्त्रेण घृतै: संस्वेदयेन्नरम्‍ । महाशाल्बणसंज्ञोऽयं योग: सर्वानिलार्तिजित्‍ ॥४॥

॥ अथ स्वेदलेपविधि: ॥
तक्षयित्वा क्षुरेणाड्गं केवलानिलपीडितम्‍ । तत्र प्रदेहं दद्याच्च पिष्ट्वा गुञ्जाफलै:कृतम्‍ ॥१॥
तेनावबाहुजा पीडा विश्वाची गृध्रसी तथा । अन्यापि वातजा पीडा प्रशमं याति वेगत: ॥२॥
इति स्वेदलेपविधि: ॥

॥ अथ वातहा पोटली ॥
पुन्नागैरण्डबिम्बैर्बकुलधनददृड्‍नारिकेलै: करञ्जै: कार्पासै: शिग्रुडोलाफलसुनिषण्णकै: सर्षपाड्‍कोलबीजै: । रास्त्राकुष्ठै: कुलत्थैरितललशुनवचाहिड्गुसिद्धार्थविश्वै: सर्वै: स्नेहै: कृतं तत्सकलपटु युतं पोटलं वातभञ्जि ॥१॥
इति योगसारात्‍ ॥

॥ अथ शार्ड्गधराल्लशुनकल्क: ॥
पक्ककन्दरसोनस्य गुलिका निस्तुषीकृता: । पाटयित्वा च मध्यस्थं दूरीकुर्यात्तदड्कुरम्‍ ॥१॥
तदुग्रगन्धनाशाय रात्रौ तक्रे विनिक्षिपेत्‍ ॥ अपनीय च तन्मध्याच्छिलायां पेषयेत्तत: ॥२॥
तन्मध्ये पञ्चमांशेन चूर्णमेषां विनिक्षिपेत्‍ । सौवर्चलं यवानी च भर्जितं हिड्गु सैन्धवम्‍ ॥३॥
कटुत्रिकं जीरकं च समभागानि चूर्णयेत्‍ । एकीकृत्य तत: सर्वं कल्कं कर्षप्रमाणत: ॥४॥
खादेदग्निबलापेक्षी ऋतुदोषाद्यपेक्षया । अनुपानं तत: कुर्यादेरण्डसूतमन्वहम्‍ ॥५॥
सर्वाड्गैकाड्गजं वातमर्दितं चापतन्त्रकम्‍ । अपस्मारं तथोन्मादमूरुस्तम्भं च गृध्रसीम्‍ ॥६॥
उर:पार्श्वकटीपार्श्वकुक्षिपीडाकृमीञ्जयेत्‍ । अजीर्णमातपं रोषं तप्तनीरं पयो गुडम्‍ ॥७॥
रसोनमश्नन्‍ पुरुषस्त्यजेदेतन्निरन्तरम्‍ । मद्यं मांसं तथाम्लं च रसं सेवेत नित्यश: ॥८॥
अन्यश्च । शुद्ध: कल्को रसोनस्य तिलतैलेन मिश्रित: । वातरोगाञ्जयेत्तीव्रान्विषमज्वरनाशन: ॥१॥
इति लशुनकल्क: ॥

॥ अथैरण्डपाक: ॥
बातारिबीजप्रस्थं तु सुपक्वं निस्तुषीकृतम्‍ । क्षीरद्रोणार्धसंयुक्तं भिषड्‍ मन्दाग्नि ना पचेत्‍ ॥१॥
घृतप्रस्थार्थयुक्‍ पक्वं खण्डप्रस्थद्वयं क्षिपेत्‍ । त्र्यूषणं सचतुर्जातं ग्रन्थिकं वह्निचव्यकम्‍ ॥२॥
छत्रा मिशि: शटी बिल्वदीप्यौ जीरे निशायुगम्‍ । अश्वगन्धा बला पाठा हपुषा वेल्लपुष्करम्‍ ॥३॥
श्वदंष्ट्रारुग्वरादारुवेल्लर्यावालुकावरी । एतानि पिचुमात्राणि चूर्णितानि विनिक्षिपेत्‍ ॥४॥
वातव्याधींश्च शूलं च शोफं वृद्धिं तथोदरम्‍ । आनाहं बस्तिरुगगुल्ममामवातं कटिग्रहम्‍ ॥ ऊरुग्रहं हनुस्तम्भं ताशयेदपि योगत: ॥५॥
इत्येरण्डपाक: ॥

॥ अथ रसा: ॥
शार्ड्गधरात्‍ स्वच्छन्दभैरवरस: ॥ शुद्धसूतं मृतं लोहं ताप्यं गन्धं च तालकम्‍ । पथ्याग्निमन्थनिर्गुण्डीत्र्यूषणं टड्कणं विषम्‍ ॥१॥
तुल्यांशं मर्दयेत्‍ खल्वे दिनं निर्गुण्डिकाद्रवै: । मुण्डिद्रावैर्दिनैकं तु द्विगुञ्जं वटकीकृतम्‍ ॥२॥
भक्षयेद्वातरोगार्तो नाम्ना स्वच्छन्दभैरव: । रानामृतादेवदारुशुण्ठीवातारिजं शृतम्‍ ॥ सगुग्गुलं पिबेत्कोष्णमनुपानं सुखावहम्‍ ॥३॥
इति स्वच्छन्दभैरव: ॥ अथ समीरान्त्रग: । अभ्रगन्धविषव्योषरसटड्कान्समांशकान्‍ । भावयेत्सप्तधा भृड्गरसेन स्यात्समीरहा ॥१॥
आर्द्रद्रवेण वल्लो वा खण्डव्योषेण योजित: । महावाताञ्जयत्याशु नासाध्मात: सुसंज्ञकृत्‍ ॥२॥
अथ वातविध्वंसनो रस: ॥ रसं गन्धकं नागवड्गं च लोहं तथा ताम्रजं व्योम निश्चन्द्रिकं च । कणा टड्कणं त्र्यूषणं नागरं वै पृथग्‍ भागमेकं विमर्द्यैकयामम्‍ ॥१॥
ततो वत्सनाभं चतु:सार्धभागं दृढं मर्दयेद्भावना व्योषसंज्ञा । वराचित्रकैर्मार्कवै: कुष्ठजाद्भिस्त्रिभिर्भावयेन्निर्गुडीभानुदुग्धै: ॥२॥
महीधात्रिकाचन्द्रिकानिम्बुनीरै: समं भावयेद्वातविध्वंसनोऽ‍यम्‍ । समीरे च शूले महाश्लेष्मरोगे ग्रहण्यां तथा सन्निपाते च सर्वे ॥ स्त्रिया: सूतिकावातरोगेषु दद्यान्निषेवेत गुञ्जाद्वयं सूतमेनम्‍ ॥३॥
इति वातविध्वंसनोरस: ॥ अथ वातराक्षसरस: ॥ मृतं सूतं तथा गन्धं कान्तं चाभ्रकमेव च । ताम्रभस्मकृतं सम्यग्‍ मर्दयित्वा समांशकम्‍ ॥१॥
पुनर्नवागुडूच्यग्निसुरसात्र्यूषणं  तथा । एतेषां स्वरसेनैव भावयेत्रिदिनं पृथक्‍ ॥२॥
दत्वा लघुपुटं सम्यक्‍ स्वाड्गशीतं समुद्धरेत्‍ । वातराक्षसनामायं वातरोगे प्रयोजयेत्‍ ॥३॥
तत्तद्रोगानुपानेन द्विगुञ्जामात्रसेवनात्‍ । ऊरुस्तम्भे वातरक्ते गात्रभड्गे तथैव च ॥४॥
आमवातं धनुर्वातं वेदनावातमेव च । पक्षाघातं कम्पवातं सर्वसन्धिगतं तथा ॥५॥
सुप्तिवातं च शूलं च उन्मादं च विनाशयेत्‍ । तत्तद्रोगानुपानेन वाताशीतिविनाशन: ॥६॥
इति रससारसंग्रहे वातराक्षसरस: ॥ अथ धनुर्वाते सूतिकाभरणरस: ॥ सुवर्णं रजतं ताम्रं प्रवालं पारदं समम्‍ । गन्धकं चाभ्रकं तालं शिला त्रिकटु रोहिणी ॥१॥
एतानि समभागानि रविक्षीरेण मर्दयेत्‍ । चित्रमूलकषायेण पुनर्नवारसेन च ॥२॥
दिनं गजपुटे पाच्यं मूषायां धारयेत्‍ पृथक्‍ । अनुपानविशेषेण देयं गुञ्जार्धकं च तत्‍ ॥३॥
सूतिकारोगतुलं धनुर्वातं विशेषत: । त्रिदोषोत्थात्‍ हरेव्द्याधीनिच्छापथ्यं प्रदापयेत्‍ ॥ सूतिकाभरणं नाम सर्वरोगहरं च तत्‍ ॥४॥
अथ वातरोगे प्रतापाग्निकुमारो रस: ॥ पारदं शुल्बजं भस्म विषं मरिचनागरम्‍ । त्रिक्षारं पञ्चलवणमेभिर्मर्द्यार्द्रकद्रवै: ॥१॥
काचकूप्यन्तरे क्षिप्त्वा मृदा संलेपयेब्दहि: । शनैर्मृद्वग्निना पाच्यं वालुकायन्त्रके दिनम्‍ ॥२॥
स्वाड्गशीतलमुद्‍धृत्य दशांशं च विषं क्षिपेत्‍ । सूक्ष्मचूर्णं कृतं खल्वे गुञ्जामात्रं प्रदापयेत्‍ ॥३॥
सन्निपातान्निहन्त्याशु आर्द्रकद्रवसंयुत: । प्रतापाग्निकुमारोऽयं सर्ववातहर: परम्‍ ॥४॥
अथ प्रसूतवाते लक्ष्मीनारायणरस: ॥ शुद्धगन्धकमेतच्च टड्कणं विषहिड्गुलम्‍ । रोहिण्यतिविषाकृष्णावत्सकाभ्रकसैन्धवम्‍ ॥१॥
एतानि समभागानि खल्वमध्ये विनिक्षिपेत्‍ । दन्तिद्रावै: फलद्रावैर्मर्दयेच्च दिनत्रयम्‍ ॥२॥
वल्लद्वयां वटीं कृत्वा आर्द्रकस्य जलैर्ददेत्‍ । दोषज्वरे सन्निपाते विषूच्यां विषमज्वरे ॥३॥
अतिसारे ग्रहण्यां च रक्तामे मेहशूलजित्‍ । सूतिकावातदोषघ्नो लड्केशमिव राघव: ॥४॥
इष्टान्नं भोजयेत्पथ्यमभ्यड्गं स्नानमाचरेत्‍ । कर्पूरभिश्रताम्बूलं प्रसूनं हरिचन्दनम्‍ ॥५॥
नारिकेलोदकं पीत्वा नारीणां संगमेव च । लक्ष्मीनारायणो नाम रसानामुत्तमो रस: ॥६॥
इति रसा: ॥

॥ अथ पथ्यापथ्यम्‍ ॥
कुलत्थमाषगोधूमा: रक्ताभा: शालयो हिता: । पटोलं शिग्रुवार्ताकं दाडिमं च परुषकम्‍ ॥१॥
मत्स्यण्डिका घृतं दुग्धं किलाटं दधिकूर्चिका । बदरं लशुनं द्राक्षा ताम्बूलं लवणं तथा ॥२॥
चटक: कुक्कुटो बर्ही तित्तिरश्चेति जाड्गला: । शिलीन्द्र: पर्वतो नक्रो गर्गर: खुडिशो झष: ॥३॥
यथाश्रयं यथावस्थं यथाचरणमेव च । वातव्याधो समुत्पन्ने पथ्यमेतन्नृणां भवेत्‍ ॥४॥
चिन्ताप्रजागरणवेगविधारणानि छर्दि:श्रमोऽनशनता चणका: कलाया: । श्यामाकचूर्णकुरुबिन्दुनिवारकड्गुमुद्गास्तडागतटिनीसलिलं करीरम्‍ ॥५॥
क्षौद्रं कषायकटुतिक्तरसा व्यवायो हस्त्यश्वयानमपि चड्क्रमणं च खट्वा । आध्मानिनोऽर्दितवतोऽपि पुनर्विशेषात्सनानं प्रदुष्टसलिलैर्द्विजघर्षणं च ॥६॥
नि:शेषतन्त्रपरिकीर्तित एष वर्गो नृणां समीरणगदेषु मुदं न दत्ते ॥७॥
इति पथ्यापथ्यविधि: ॥ वातरोअगस्त्वसाध्योऽयं दैवयोगात्सुसिध्यति । अनुमानेन कुर्वन्ति वैद्यकं न प्रतिज्ञया ॥८॥
वातरोगचिकित्सा समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-20T19:04:05.1370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उफाळा

  • वि. अधिक ; वाजवीपेक्षां जास्त ; पुरुन उरलेलें ; शिलकी ठेवलेलें . [ सं . उत + फल ] - पु . 
  • उकळी ; ऊत ; उत्साह ; जोर ; आवेश ; उफाड पहा . उफाळेचि जाती मुजा फुर्फुरीती । - राक . पुण्याच्या पुण्यप्रदेशांत उफाळ्याला आलेला तो एरंड ... - इंप ८९ . 
  • एकदम वर येणें ; जोरानें उठणें ; जोरानें बाहेर येणें ; उसळी ; ऊत ( पाणी वगैरेस ); ( क्रि० निघणें ; येणें ). आगें घेतुसे उफाळा । सिगेवरि ॥ - ऋ ८१ . नंदाचें मूल काळें । त्यासि नेलें काळें । कोण्हींयेका काळे । चालिलें उफाळें ॥ - दावि २४१ . नाना तीर्थांची कारंजीं बहुत । घरोघरीं उफाळत । - रावि ३६ . १७२ . 
  • शिल्लक ; वाढ . 
RANDOM WORD

Did you know?

’ एकोद्दिष्ट श्राद्ध ’ बद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.