संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तक्रहरीतकी ॥

॥ अथ तक्रहरीतकी ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सप्ताहं वा दशाहं वा मासं मासार्धमेव वा । बलकालविकालज्ञो भिषक्‍ तक्रं प्रयोजयेत्‍ ॥१॥
न तक्रदानात्प्रभवन्ति रोगा न तक्रसेवी व्यथते कदाचित्‍  । यथा सुराणाममृतं प्रधानं तथा नराणां भुवि तक्रमाहु: ॥२॥
तक्रं नोरक्षते दद्यान्नोष्णकाले न दुर्बले । न मूर्च्छाभ्रमदाहे च न रोगे रक्तपैत्तिके ॥३॥ इति वृन्दात्‍ ॥
ग्रहणीदोषिणां तक्रं दीपनं ग्राहि लाघवात्‍ । पथ्यमम्लमपाकित्वान्न च पित्तप्रकोपनम्‍ ॥१॥
अरुचौ मातुलिड्गस्य केसरं साज्यसैन्धम्‍ । दद्याद्भोजनकाले तु प्रातस्तक्रं च रोगिणाम्‍ ॥२॥
दहनाजमोदसैन्धवनागरमरिचं पिबाम्लतक्रेण । सप्ताहादग्निबलं ग्रहण्यतीसारशूलग्नम्‍ ॥३॥
त्रिकंसे तक्रस्य द्विकुडवपटो: षष्ठिरभया: पचेव्द्यर्था: सार्धं घृततिलजविश्वाकुडवै: । समावाप्याजाजीमरिचचपलादीप्यकपलैर्लिहन्सन्नं वह्निं द्र्ढयति विकारांश्च जयति ॥४॥
इति तक्रहरीतकी ॥

N/A

References : N/A
Last Updated : December 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP