TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सद्योव्रणनिदानमाह ॥

॥ अथ सद्योव्रणनिदानमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ सद्योव्रणनिदानमाह ॥
॥ अथ सद्योव्रणनिदानमाह ॥
नानाधारमुखै: शस्त्रैर्नानास्थाननिपातितै: । भवन्ति नानाकृतयो व्रणास्तांस्तान्निबोध मे ॥१॥
अथ तेषां षड्विधत्वमाह ॥ छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च । घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम्‍ ॥२॥
तिर्यक्‍ छिन्नो ऋजुर्वापि व्रणो यस्त्वायतो भवेत्‍ । गात्रस्य पातनं तद्धि च्छिन्नमित्यभिधीयते ॥३॥
शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो हत: । यत्किजञ्चित्प्रस्त्रवेत्तद्धि भिन्नलक्षणमुच्यते ॥४॥
स्थानान्यमाग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदुन्दुक: फुफ्फुसश्च कोष्ठ इत्यभिधीयते ॥५॥
तस्मिन्‍ भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते । मूत्रमार्गगुदास्येभ्यो रक्तं प्राणाच्च गच्छति ॥६॥
मूर्च्छा श्वासस्तृषाध्मानमभक्तच्छन्द एव च । विण्मूत्रवातसड्गश्च स्वेदस्त्रावोऽक्षिरक्तता ॥७॥
लोहगन्धित्वमास्यस्य गात्रे दौर्गन्ध्यमेव च । हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु ॥८॥
आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि । आध्मानमतिमात्रं च शूलं च भृशदारुणम्‍ ॥९॥
पक्वाशयगते चापि रुजा गौरवमेव च । अध:काये विशेषण शीतता च भवेदिह ॥१०॥
सूक्ष्मास्यशल्याभिहतं यदड्गं त्वाशयं विना । उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत्‍ ॥११॥
नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम्‍ । विषमं व्रणमड्गे यत्‍ तत्क्षतं तु विनिर्दिशेत्‍ ॥१२॥
प्रहारपीडनाभ्यां तु यदड्गं पृथुतां गतम्‍ । सास्थि तत्पिच्चितं विद्यान्‍ मज्जरक्तपरिप्लुतम्‍ ॥१३॥
घर्षणादभिघाताद्वा यदड्गं विगतत्वचम्‍ । ऊषास्त्रावान्वितं तच्च घृष्टमित्यभिधीयते ॥१४॥
श्यावं सशोफं पिटिकान्वितं च मुहुर्मुहु: शोणितवाहिनं च । मृदूवृत्तं बुब्दुदतुल्यमांसं व्रणं सशल्यं सरुजं वदन्ति ॥१५॥
त्वचोऽतीत्य शिरादीनि भित्वा च परिहृत्य वा । कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान्‍ ॥१६॥
तत्रान्तलोहितं पाण्डुशीतपादकराननम्‍ । शीतोच्छ्वासं रक्तनेत्रमानद्वं परिवर्जयेत्‍ ॥१७॥
भ्रम: प्रलाप: पतनं प्रमोहो विचेष्टनं ग्लानिरथोष्णता च । स्त्रस्ताड्गता मूर्च्छ्नमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ता: ॥१८॥
मांसोदकाभं रुधिरं च गच्छेत्सर्वेन्द्रियार्थोपरमस्तथैव । दशार्धसंख्येष्वपि हि क्षतेषु सामान्यतो मर्मसु लिड्गमुक्तम्‍ ॥१९॥
सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्त्रवेत्तत्क्षतजश्च वायु: । करोति रोगान्विविधान्यथोक्ताञ् शिरासु विद्धास्वथ वाक्षतासु ॥२०॥
कौब्जं शरीरावयवावसाद: क्रियास्वशक्तिस्तुमुला रुजश्च । चिराद्‍ व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं व्यवस्येत्‍ ॥२१॥
शोफाभिवृद्धिस्तुमुला रुजश्च बलक्षय: पर्वसु भेदशोफौ । क्षतेषु सन्धिष्वचलचलेषु स्यात्सर्वकर्मोपरमश्च लिड्गम्‍ ॥२२॥
घोरा रुजो यस्य निशादिनेषु सर्वा स्ववस्थासु न चैति शान्तिम्‍ । भिषग्वि पश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं मनुजं व्यवस्येत्‍ ॥२३॥
यथास्वमेतानि विभावयेच्च लिड्गानि मर्मस्वभिताडितेषु । पाण्डुर्विवर्णश्च सुखं न वेत्ति यो मांसमर्मण्यभिताडितश्च ॥२४॥
मर्माश्रितं व्रणं प्राप्य वायुर्य: सर्वदेहग: । वेगैरायामयेद्देहं व्रणायामं तु तं त्यजेत्‍ ॥२५॥
विसर्प: पक्षघातश्च शिरास्तम्भोऽपतानक: । मोहोन्मादव्रणरुजो ज्वरतृष्णाहनुग्रहा: ॥२६॥
कासश्छर्दिरतीसारो हिक्का श्वास: सवेपथु: । षोडशोपद्रवा: प्रोक्ता व्रणिनां व्रणचिन्तकै: ॥२७॥
इति सद्योव्रणनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
बुद्ध्वागन्तुव्रणं वैद्यो घृतक्षौद्रसमन्विताम्‍ । शीतां क्रिया चरेदाशु रक्तपित्तोष्मनाशिनीम्‍ ॥१॥
क्रुद्धे सद्योव्रणे युञ्ज्यादूर्ध्वं वाधश्च शोधनम्‍ । लड्घनं च बलं ज्ञात्वा भोजनं चास्त्रमोक्षणम्‍ ॥२॥
घृष्टे विदलिते चैव सुतरामिष्यते विधि: । तयोरल्पं स्त्रवत्यस्त्रं पाकस्तेनाश जायते ॥३॥
छिन्ने भिन्ने तथा विद्धे क्षते चासृगतिस्त्रवेत्‍ । रक्तक्षयात्तत्र रुज: करोति पवनो भृशम्‍ ॥४॥
स्नेहपानपरीषेकलेपस्वेदोपनाहनम्‍ । कुर्वीत स्नेहवस्तिं च मारुतघ्नौषधै: शृतै: ॥५॥
उक्तं च ग्रन्थान्तरे ॥ छिन्ने भिन्ने तथा विद्धे क्षते सद्यो भिषज्वर: । षट्टसूत्रेण संस्वेदं व्रणं व्रणविशारद: ॥१॥
मुहुर्मुहुर्यथा दु:खं न प्राप्नोति व्रणी नर: । अथवा दीप्यलवणपोटल्या स्वेदयेन्मुहु: ॥२॥
सन्तप्तया तप्तलोहपात्रसंयोगत: क्रमात्‍ । दुष्टं रक्तं स्थितं चापि शृड्ग्यलाब्वादिभिर्हरेत्‍ ॥३॥
सद्य:क्षतव्रणं वैद्य: सशूलं परिषेचयेत्‍ । यष्टीमधुकमिश्रेण नातिशीतेन सर्पिषा ॥४॥
कषायमधुरा: शीता: क्रिया: सर्वास्तु योजयेत्‍ । सद्योव्रणानां सप्ताहात्पश्चात्पूर्वोक्तमाचरेत्‍ ॥५॥
चिकित्सितं तु तत्सर्वं सामान्यव्रणनाशनम्‍ । आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते ॥ पक्वाशयस्थे देयं च विरेचनमसंशयम्‍ ॥६॥
अथ वंशत्वगादिक्वाथ: ॥ क्वाथो वंशत्वगेरण्डाश्वदंष्ट्राश्मभिदा कृत: । हिड्गुसैन्धवसंयुक्त: कोष्ठस्थं स्त्रावयेदसृक्‍ ॥१॥
अथ यवादि: ॥ यवकोलकुलत्थानां नि:स्नेहेन रसेन च । भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम्‍ ॥१॥
अथ गौराद्यं घृतम्‍ ॥ गौराहरिद्रामञ्जिष्ठामांसीमधुकमेव च । प्रपौण्डरीकं ह्यीबेरं नतं मुस्तं च चन्दनम्‍ ॥१॥
जातीनिम्बपटोलं च करञ्जं कटुरोहिणी । मधूच्छिष्टं मधूकं च महामेदा तथैव च ॥२॥
पञ्चवल्कलतोयेन घृतप्रस्थं विपाचयेत्‍ । एतद्‍ गौरादिकं सर्पि: सर्वव्रणविशोधनम्‍ ॥३॥
आगन्तुकाश्च स हजा: सुचिरोत्थाश्च ये व्रणा: । नाडीव्रणश्च विषमो नश्यत्येव न संशय: ॥४॥
अथ तिक्तादिघृतम्‍ ॥१॥
तिक्तासिक्थनिशायष्टीनक्ताह्वफलपल्लवै: । पटोलमालतीनिम्बपत्रैर्वर्ण्यं शृतं घृतम्‍ ॥१॥
अथ जात्यादितैलम्‍ ॥ जातीनिम्बपटोलानां नक्तमालस्य पल्लवा: । सिक्थकं मधुकं कुष्ठं द्वे निशे कटुरोहिणी ॥१॥
मञ्जिष्ठापद्मकं लोध्रमभयानीलमुत्पलम्‍ । तुत्थकं सारिवाबीजं नक्तमालस्य च क्षिपेत्‍ ॥२॥
एतानि समभागानि पिष्ट्वा तैलं विपाचयेत्‍ । विषव्रणसमुत्पत्तौ स्फोटेषु च सकच्छषु ॥३॥
कण्डूविसर्परोगेषु कीटदष्टेषु सर्वथा । सद्य:शस्त्रप्रहारेषु दग्धविद्धक्षतेषु च ॥४॥
नखदन्तक्षते देहे दुष्टमांसावघर्षणे । भक्षणार्थमिदं तैलं हितं शोधनरोपणम्‍ ॥५॥
अथ विपरीतमल्लतैलम्‍ । चक्रदत्तात्‍ ॥ सिन्दूरकुष्ठविषहिड्गुरसोनचित्रबाणाड्घ्रिलाड्गलिकल्कविपक्कतैलम्‍ ॥
प्रासादमन्त्रयुतहुड्कदतुत्थफेन: क्लिन्नव्रणप्रशमने विपरीतमल्ल: ॥१॥
खड्गाभिघातगुरुगण्डमहोपदंशनाडीव्रणव्रणविचर्चिककुष्ठपामा: । एतान्निहन्ति विपरीतकमल्लनाम तैलं यथेष्टशयनाशनभोजनस्य ॥२॥
अथ दुर्वादितैलम्‍ ॥ दूर्वास्वरससंसिद्धं तैलं कम्पिल्लकेन वा । दार्वित्वचश्च कल्केन प्रधानं व्रणरोपणम्‍ ॥१॥
अथ सप्तविंशतिको गुग्गुल: ॥ त्रिकटुत्रिफलामुस्ताविडड्गामृतचित्रकम्‍ । पटोलं पिप्पलीमूलं हपुषा सुरदारु च ॥१॥
तुम्बरु: पुष्करं चव्यं विशाला रजनीद्वयम्‍ । बिडं सौवर्चलं क्षारं सैन्धवं गजपिप्पली ॥२॥
यावन्त्येतानि सर्वाणि तावद्विगुणगुग्गुलु: । कोलप्रमाणां वटिकां भक्षयेन्मधुना सह ॥३॥
कासं श्वासं तथा शोफमर्शांसि च भगन्दरम्‍ । हृच्छूलं पार्श्वशूलं च कुक्षिवस्तिगुदे रुजम्‍ ॥४॥
अश्मरीं मूत्रकृच्छ्रं च अन्त्रवृद्धिं तथा कृमीन्‍ । चिरज्वरोपसृष्टानां क्षतोपहतचेतसाम्‍ ॥५॥
आनाहं च तथोन्मादं कुष्ठान्यष्टोदराणि च । नाडीदुष्टव्रणान्सर्वान्प्रमेहाञ् श्लीपदं तथा ॥६॥
सप्तविंशतिको नाम गुग्गुलु: प्रथितो महान्‍ । धन्वतरिकृतो ह्येष सर्वरोगनिषूदन: ॥७॥
इति सप्तविंशतिको गुग्गुलु: ॥ व्रणे श्वयथुरायासात्स च रागश्च जागरात्‍ । तौ च रुक्‍ च दिवा स्वापात्ते च मृत्युश्च मैथुनात्‍ ॥१॥
अम्लं दधि च शाकं च मांसमानूपवारिजम्‍ । क्षीरं गुरुणि चान्नानि व्रणी च परिवर्जयेत्‍ ॥२॥
इति सद्योव्रणचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:00:26.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

nidged ashlar

  • अनघड चिरेबंदी 
  • = nigged ashlar 
RANDOM WORD

Did you know?

अतिथी व अतिथीसत्कार याबद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.