TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ क्रिमिनिदानम् ॥

॥ अथ क्रिमिनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ क्रिमिनिदानम् ॥
॥ अथ क्रिमिनिदानम्‍ ॥
तत्र क्रिमिभेदानाह ॥ क्रिमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदत: । बहिर्मलकफासृग्विड्‍जन्मभेदाच्चतुर्विधा: ॥१॥
नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवा: ॥ बाह्यक्रिमिरुपाण्याह ॥ तिलप्रमाणसंस्थानवर्णा: केशाम्बराश्रया: ॥२॥
बहुपादाश्च सूक्ष्माश्च यूकालिक्षाश्च नामत: । द्विधा ते कोष्ठपिटिकाकण्डूगण्डान्प्रकुर्वते ॥३॥
तेषां निदानमाह । अजीर्णभोजी मधुराम्लसेवी द्रवप्रिय: पिष्टगुडोपभोक्ता । व्यायामवर्जी च दिवाशयो च विरुद्धभोक्ता लभते कृमींश्च ॥४॥
पुरीषजानां निदानमाह । माषपिष्टान्नलवणगुडशाकै:  पुरीषजा: ॥ कफोद्भवनिदानमाह । मांसमाषगुडक्षीरदधिशुक्तै: कफोद्भवा: ॥५॥
शोणितजानां कारणमाह । विरुद्धाजीर्णशाकाद्यै: शोणितोत्था भवन्ति हि ॥ संजाताभ्यन्तरकृमिलक्षणमाह । ज्वरो विवर्णंता शूलं हृद्रोगश्छर्दनं भ्रम: ॥६॥
भक्तद्वेषोऽतिसारश्च संजातक्रिमिलक्षणम्‍ ॥ कफजानां स्वरुपमाह । कफादामाशये जाता वृद्धा: सर्पन्ति सर्वत: ॥७॥
पृथुवर्ध्रनिभा: केचित्केचिद्गण्डूपदोपमा:  । रुढधान्याड्कुराकारास्तनुदीर्घास्तथाणव: ॥८॥
श्वेतास्ताम्रावभासाश्च नामत: सप्तधा तु ते । अन्नादाश्चोदरावेष्टा हृदयादा महामुखा: ॥९॥
चुरवा दर्भकुसुमा: सुगन्धास्ते च कुर्वते । हल्लासमास्यस्त्रवणमाविपाकमरोचकम्‍ ॥१०॥
मूर्छाछर्दिज्वरानाहकार्श्यक्षवथुपीनसान्‍ ॥ अथ रक्तजानां स्वरुपमाह । रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणव: ॥११॥
अपादवृत्तास्ताम्राश्च सौक्ष्म्यात्केचिददर्शना: । केशादा लोमविध्वंसा रोमद्वीपा उदुम्बरा: ॥१२॥
षट्‍ ते कुष्ठैककर्माण: सहसौरसमातर: ॥ पुरीषजानां स्वरुपमाह ॥ पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिण: ॥१३॥
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखा: । तदास्योद्गारनिश्वासविड्‍बन्धानिविधायिन: ॥१४॥
तेषां शरीरमाह । पृथगवृत्ततनुस्थूला: श्यावपीतसितासिता: । ते पञ्च नाम्ना कृमय: ककेरुकमकेरुका: ॥१५॥
सौसुरादा: सलूनाख्या लेलिहाजनयन्ति च । भ्रम: शूलं तथा छर्दिर्हृदयज्वलनज्वरा: ॥१६॥
वैवर्ण्यमतिसार: स्यादरुचि: कृमिलक्षणम्‍ । विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुता: ॥ रोमहर्षोऽग्निसदनं गुदे कण्डूर्विमार्गगा: ॥१७॥
इति किमिनिदानम्‍ ॥
==
॥ अथातः किमिचिकित्सितं व्याख्यास्याम: ॥
मुस्ताखुपर्णीफलदारुशिग्रुक्वाथ: । सकॄष्णाकृमिशत्रुकल्क: । मार्गद्वयेनापि चिरप्रवृत्तान्‍ कृमीन्निहन्ति क्रिमिजांश्च रोगान्‍ ॥१॥
दाडिमत्वक्वृत: क्वाथस्तितैलेन संयुत: । त्रिदिनात्पातयत्येवं कोष्ठत: कृमिजालकम्‍ ॥२॥
खदिर: कुटज: पिचुमन्दवचात्रिकटुत्रिफलात्रिवृतासहितम्‍ । पशुमूत्रयुतं पिब सप्तदिनं कृमिकोटिशतान्यपि हन्त्यचिरात्‍ ॥३॥
निम्बवत्सकविड्गसैन्धवं रामठेन सह जन्तुनाशनम्‍ । निम्बषट्‍कमजमोदकान्वितं चूर्णमेव मधुना प्रशस्यते ॥४॥
आखुकर्णीद्लै: पिष्टै: पिष्टकेन च पूपकान्‍ । भुक्त्वा सौवीरकं चानु पिबेत्कृमिहरं परम्‍ ॥५॥
मुवर्चिकारामठपत्रिकाह्वाविडड्गबाल्हीककणाग्निविश्वा: । यवानिकाग्रन्थिकभद्रमुस्तास्तक्रेण चूर्णं कृमिकोटिहारि ॥६॥
भल्लातको वा दग्धा च चिञ्चाम्लेन हरेत्कृमीन्‍ । विड्ड्गं पारिभद्राग्रं ब्रम्हबीजं पृथक्‍ पिबेत्‍ ॥७॥
मधुना कृमिनाशाय निम्बं वा हिड्गुना युतम्‍ । निम्बाजमोदाजन्तुग्नं ब्रह्मबीजं सचोरकम्‍ ॥ सहिड्गुकं समगुडं सद्यो जन्तुविनाशनम्‍ ॥८॥
हरीतकी चैव तथा दरिद्रा सौवर्चलं चैव समं विचूर्णितम्‍ । इन्द्रवारूणिजलेन भावितं कीटसड्घविनिवारणं परम्‍ ॥९॥
काकुभकुसुमविडड्गं लाड्गलि भल्लातकं तथोशीरम्‍ । श्रीविष्टकसर्जरसं चन्दनमथ कुष्टमष्टमं दद्यात्‍ ॥१०॥
एष सुगन्धो धूप: सकृत्कृमीणां विनाशक: प्रोक्त: । शय्यासु मत्कुणानां शिरसि च गात्रेषु यूकानाम्‍ ॥११॥
इति सुगन्धो धूप: ॥ विशालाया: फलं पक्वं तप्तलोहे परिक्षिपेत्‍ । तद्धूमो दन्तलग्रश्चेत्कीटनां पातन: पर: ॥१२॥
अथ विड्ड्गादितैलम्‍ ॥ सविड्ड्गं च शिलया सिद्धं सुरभिजलेन कटुतैलम्‍ । निखीला नयति विनाशं लिक्षासहिता दिनैर्यूका: ॥१॥
इति विड्ड्गादितैलम्‍ । पारदं मर्दयेन्निष्कं कृष्णधत्तूरकद्रवै: । नागवल्लीद्रवैर्वाथ वस्त्रखण्डं प्रलेपयेत्‍ ॥१॥
तद्वस्त्रं मस्तके पेष्यधार्यं यामत्रयं तत: । यूका: पतन्ति निश्चेष्टा: सलिक्षा नात्र संशय: ॥२॥
चित्रकं दन्तिनीमूलं कोशातकीसमन्वितम्‍ । कल्कं पिष्ट्वा पचेत्तैलं केशशत्रुविनाशनम्‍ ॥३॥

॥ अथ रसादिलेप: ॥
रसेन्द्रेण समायुक्तो रसो धत्तूरपत्रज: । ताम्बूलपत्रजो वापि लेपनाद्यूकनाशन: ॥१॥

॥ अथ कृमिमुद्गरो रस: ॥
क्रमेण वृद्धं रसगन्धकाजमोदाविड्ड्गं विषमुष्टिका च । पलाशबीजं च विचूर्णंमस्य निष्कप्रमाणं मधुनावलीढम्‍ ॥१॥
पिबेत्कषायं घनजं तदूर्ध्वं रसोऽयमुक्त: कृमिमुद्‍गराख्य: । क्रिमीन्निहन्ति क्रिमिजांश्च रोगान्‍ संदीपयत्यग्निमयं त्रिरात्रात्‍ ॥२॥

॥ अथ कृमिकुठार: ॥
विश्वं रामठसैन्धवाग्निमरिचं पथ्या वचा गुग्गुलुर्बोलं रात्रिविडड्गकुष्ठलशुनं गन्ध: कुबेराक्षक: । इन्द्रोद्भूतपलाशबीजखदिराजाजीकणादीप्यकं सौवर्चं मधुना गुटी कृमिकुठाराह्वा रुजाजन्तुनुत्‍ ॥१॥
कृमिषु वर्ज्याण्याह । क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पत्रवन्ति । समासतोऽम्लं मधुरान्रसांश्च कृमीञ्जिघांसु: परिवर्जयेत्तु ॥२॥
शीताम्बु मधुरं क्षारं दधिक्षीरघृतादिकम्‍ । सौवीरं पत्रशाकांश्च वर्जयेत्कृमिवान्नर: ॥५॥
इति कृमिचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-19T20:52:59.8200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कोतवाल घोडा

  • m  A led horse. 
RANDOM WORD

Did you know?

निर्जीव गाड्यांची पूजा करतात, यामागील शास्त्र काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site