TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ शीताड्गसंनिपातोऽसाध्य: ॥

॥ शीताड्गसंनिपातोऽसाध्य: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ शीताड्गसंनिपातोऽसाध्य: ॥
॥ अथ तन्द्रिकचिकित्सा ॥
ज्वरे प्रथमुत्पन्ने चक्षुर्भ्यां नैव पश्यति । तन्द्रिक: संनिपातोऽयं कष्टसाध्यो भवेत्तत: ॥१॥
भार्गीपुष्करपथ्यानिदिग्धिकानागरामृताक्काथ: । अपनयति तन्द्रिकमिमं नि:संशय: प्रगे पीत: ॥२॥
रास्त्रामन: शिलैलांञ्जनमेतत्तन्द्रिकेऽपीष्टम्‍ । अमृतापटोलवासाव्योषयुतस्तन्द्रिके क्वाथ: ॥३॥
कुष्ठगवाक्षीनागरमरिचनिशाद्वयवचाकणायुक्त: । वस्तसलिलेन पिष्टं तन्द्रिकनिघ्नं भवेत्रस्यम्‍ ॥४॥
इति तन्द्रिकचिकित्सा ॥

॥ अथ कण्ठकुब्जचिकित्सा ॥
त्रिकटुककलिड्गकटुकाहरीतकीबिभितकमलकै: । ध्वंसयति कण्ठकुब्जं वृषरजनीद्वययुत: क्वाथ: ॥१॥
शृड्गीवत्सकचेतकीघनसटीभूनिम्बभार्गीनिशातिक्तापुष्करचित्रकै: समरिचैर्व्याघ्रीवृषामिश्रितै:  । धात्री दारुबिभितकैश्च चाविकाविश्वाकणाट्‍फलै: पीत: कृन्तति कण्ठकुब्जमचिरात्कोष्ण: कषायस्त्विह ॥२॥
अपनयति कण्ठकुब्जं कृष्णापामार्गबीजजं नस्यम्‍ । अथ हन्ति सलिलसहितं त्रिकटुककटुतुम्बिनीनस्यम्‍ ॥३॥
इति कण्ठकुब्जचिकित्सा ॥

॥ अथ कर्णग्रन्थिचिकित्सा ॥
रक्तस्त्रावो जलूकाभिघृतपानं च युज्यते । कर्णग्रन्थिविनाशार्थमायुर्वेदविदां वर: ॥१॥
तत्र रक्तं हरेत्क्षिमं जलौकाभिरनन्तरम्‍ । त्रिफलासर्पिष: पानं कार्यं जीर्ण घृतस्य च ॥२॥
प्रेदेहा: कफपित्तघ्रा: कार्या: संशमनानि च । मुद्रपर्णनिभा पृष्ठे रक्तवर्णा तथोदरे ॥ षडड्गुलप्रमाणेन जलौका भद्रिका मता ॥३॥
रास्त्राबृहतीपथ्याव्योषकटुकाघनपुष्कराह्वैश्च । शृड्गीधाराभार्गीक्वाथ: कर्णकरुजं हरेत्पानात्‍ ॥४॥
मरीचदशमूलमगधाफलत्रयनिशामहौषधीतिक्ता - भूनिम्बसैन्धवयुत: कर्णकहन्ता भवेत्काथ: ॥५॥
हिड्गुद्विनिशविशालासैन्धवसुरदारुकुष्ठविदुग्धै: । दत्त: क्रमेण लेपो हन्ति महाकर्णकग्रन्थिम्‍ ॥६॥
दशशतकरदुग्धारुष्करत्वक्समेतं दहनगुडनिकुम्भाकुष्ठकासीसयुक्तम्‍ । अपनयति वितीर्णं लेपनं सप्तरात्राच्छृयथुहरणयुक्तं कर्णकग्रन्थिमेतत्‍ ॥७॥
अशिशिरजलयुक्तं नावनं कर्णकार्तौ जनयति मुखसिद्धिं घ्रानरन्ध्रप्रवेशात्‍ । लवणपरमकृष्णाचूर्णयुक्तं प्रभाते सकलमुनिभिरुक्तं व्याधिविध्वंसकारि ॥८॥
दन्तीचित्रकयोर्मूलं स्नुह्यर्कपयसो गुर्णे: । मल्लातकास्थि कासीसं लेपो भवति कर्णके ॥९॥
सनागरं देवदारु रास्त्रा चित्रकपेषितम्‍ । मलेपनमिदं श्रेष्ठं गलशोथविनाशनम ॥१०॥
इति नागरादिलेपनम्‍ । कुलत्थ: कट्‍फलं शुण्ठी कारवी च समांशकै: । मुखोष्णं लेपनं कार्यं कर्णमूले मुहुर्मुहु: ॥११॥
इति कुलित्थादिलेप: ।

बीजपूरजमूलत्वग्वह्निमन्थस्तथैव च । शरपुड्खाशिखीतुम्बीसकृष्णाविषमुष्टिभि: ॥१२॥
प्रलेपो वा हिडम्बीभि: श्वयथौ कर्णमूलजे । वज्रमुष्टिभव: कन्द: शोथविध्वंसनक्षम: ॥१३॥
कर्कटस्य च मांसेन स्वेदनं बन्धनं तथा । कर्णंमूलभवं शोथंनाशयत्यविलम्बितम्‍ ॥१४॥
सिद्धार्थसैन्धववचाग्रहधूमविश्वै: पिष्ठैर्जलेन निशया सहितश्च सूक्षम्‍ । लेपो हितो रुधिरनिष्क्रमणप्रतीतशोफव्रणस्य शमन: सरुजश्च कर्णे ॥१५॥
इति कर्णग्रन्थिचिकित्सा ।

॥ अथ भग्ननेत्रचिकित्सा ॥
दार्व्यम्बुदातिक्तफलत्रिकं च क्षुद्रा पटोली रजनी सनिम्बा । क्वाथं विदध्याज्ज्वरसन्निपाते निश्चेतने पुंसि विबोधनार्थम्‍ ॥१॥
भूनिम्बमाक्षिकवचासहितं च कुर्याप्लेहं कणोषणरसोनमुराजिकाभि: । नेत्राञ्जनं च लवणोत्तमपिप्पलीभ्यां नस्यं वचामरिचहिड्गुमधूकसारै: ॥२॥
मरिचतुरगगन्धामागधीसिन्धुजातं लशुनमधुकसारैरुग्रगन्धार्द्रकाभ्याम्‍ । छगलकजलपिष्टं संयुत: शास्त्रविद्भि: संपदि भवति नस्यो भग्ननेत्रप्रमार्थी ॥३॥
इति भग्ननेत्रचिकित्सा ॥

॥ अथ रक्तष्ठीविचिकित्सा ॥
पर्पटधन्वयवासकवासाभूस्तृणकै: कटुकीफलनस्यात्‍ । शर्करया सहितोऽपि कषायो लोहितमास्यगतं विनिहन्ति ॥१॥
जलदाह्वयपद्मकपर्पटकैर्मलयोद्भवजातिवरीमधुकै: । मधुनिम्बजलानलचन्दनकै: क्वथितं मुखरक्तहरं सलिलम्‍ ॥२॥
इति रक्तष्ठीविचिकित्सा ॥

॥ अथ प्रलापचिकित्सा ॥
तगरतुरगगन्धा पर्पटी शड्खपुष्पी त्रिदशविटपितिक्ता भारती भूतकेशी । जलधरकृतमालश्वेतकीगोस्तनीभ्यां सह हरति कषायो मड्क्षु पानात्प्रलापम्‍ ॥१॥
जलधरदशमूलं वारि शुण्ठीसमेतं मलयजकृतमालं वासकं पर्पटं च । समधरणधृतांश:क्वाथ एष प्रभाते शमयति समुदीर्णं पीतमात्र: प्रलापम्‍ ॥२॥
इति प्रलापचिकित्सा ॥

॥ अथ जिह्वकचिकित्सा ॥
सिंहीनागरपुष्करै: सकुटकै रास्त्रगुडूचीयुतैर्भार्गीकर्कटशृड्गिकाशटिसमैर्दु:स्पर्शवासाधनै: । पीतं जिह्वकहारि वारि भवति ब्राम्हीवचामिश्रितै: प्रोक्तं वैद्यवरेण वन्द्यमुनिभिर्भूनिम्बमिश्रं शृतम्‍ ॥१॥
सुरतरुकटुनिम्बैरक्षपथ्यापटोलीरजनियुगुलविश्वासिंहिकापुष्कराह्वै: । सलिलधरगुडूचीवासकै: सर्वमेभि: प्रशमयति कषायो जिह्वकं कष्टसाध्यम्‍ ॥२॥
तीक्ष्णद्रव्यै: सलवणैर्मातुलुड्गरसप्लुतै: । जिह्यायां च सकृल्लेप: कटुतीक्ष्णेन संयुतै: ॥३॥
इति जिह्वकचिकित्सा ॥

॥ अथाभिन्यास: ॥
रामठनागरसहितं भृड्गरसाम्लं विलेहयेत्प्रात: । अथ कटुतिक्तोपयुतं भवति मुखप्रबोधनं तस्य ॥१॥
मरिचलवणकृष्णाभूतकेशीमधूकै: कटुफलमधु कृत्वा कोष्णनीरेण नस्य: । प्रकटयति विकीर्णश्चाष्टभिर्वा चतुर्भि: सकलकरणबोधं बिन्दुभिर्दीयमान: ॥२॥
लशुनमरिचकृष्णामाणिमन्थोग्रगन्धाशुकतरुफलफलबीजैर्विश्वगोमूत्रपिष्टै: । कफपवनविकारे रक्तपित्तप्रमेदे गदितमगदविद्भिर्नेत्रयोरञ्जनं स्यात्‍ ॥३॥
संज्ञा यस्य न जायते चरणयोर्द्वन्द्वं समादह्यते भाले लोहशलाकया संति कृते सर्वक्रियाकर्मणि शृड्गीधन्वयवासपुष्करजटाभार्गीशटीसिंहिकाक्वाथ: पानविधानत: कफहरोऽभिन्यासविध्वंसक: ॥४॥
त्रायन्तदीदशमूलपुष्करजटावातारिभि: कारवी भार्गी स्यादमृताटरुषकशटीगोमूत्रसंयोजितै: । शृड्गीव्योषपुनर्नवाभिचिरादुष्ण: कषायो हरित्सोऽभिन्या सगदं कफज्वरहरो नि:संशय: पानत: ॥५॥
मञ्जिष्ठाशिखिबालबिल्वकशटीशुण्ठीकरञ्जानिशात्रायन्तीबृहतीवृषोषणकणाक्वाथस्तु पेपीयते । यै:प्रात: प्रणिधाय लक्षितगदै: । सद्वैद्यराट्‍सन्निधौ तस्यापि प्रशमं व्रजन्ति सहसा सर्वाड्गजा व्याधय: ॥६॥
सुरभिसलिलयुक्त: सिंहिकाश्रीफलाभ्यां प्रवरलवणयासविश्वपाषाणभेदै: । पवनरिपुजटाभि: संयुत: क्वाथ एष प्रतिदिनमपि पीतो हन्त्यभिन्यासशूलम्‍ ॥७॥
यावच्च श्वसते जीवो यावत्क्रामति भेषजम्‍ । तावत्क्रिया प्रकर्तव्या दैवस्य कुटिला गति: ॥८॥
इति त्रयोदशसन्निपातचिकित्सा ॥

॥ अथागन्तुज्वरचिकित्सा ॥
अभिचाराभिशापोत्थौ ज्वरौ होमादिना जायेत्‍ । दानस्वरस्त्यनातिथ्यैरुत्पातग्रहपीडने ॥१॥
भूतविद्यासमुद्दिष्टैर्बन्धावेशनताडनै: । जयेद्भूताभिषड्गोत्थं मन:शान्त्या च मानसम्‍ ॥२॥
मधूकसारं मरिचं सैन्धवं पिप्पली वचा । संज्ञाप्रबोधनं नस्यं देयं भूतज्वरे सदा ॥३॥
अभिघातज्वरी कुर्याक्रियामुष्णविवर्जिताम्‍ । कषयान्मधुरान्‍ स्निग्धान्यथादोषमथापि वा ॥४॥
अभिघातज्वरो नश्येत्पानाभ्यड्गे र्पष: । मेध्यैर्द्रवैश्च सात्म्यैश्च तथा मांसरसौदनै: ॥५॥
वधबन्धसमावेशभग्ननष्टसमुद्भवान्‍ । ज्वरानुपाचरेत्पूर्वं मदिराक्षीरभोजनै: ॥६॥
औषधीगन्धाविषजौ विषपित्तप्रसादनै: । जयेत्कषायैर्मतिमान्‍ सर्वगन्धकृतैर्भिषक्‍ ॥७॥
क्रोधजे पित्तजित्काम्ये नार्य: सद्वाक्यमेव च । आश्वासनेष्टलाभेन वायो: प्रशमनेन च ॥८॥
हर्षेण च शमं यान्ति कामशोकभयज्वरा: प्रशाम्यति । कामात्‍ क्रोधज्वरो नाशं क्रोधात्कामसमुद्भव: ॥ याति ताभ्यामुभाभ्य: वा भयशोकसमुत्थित: ॥१०॥
इत्यागन्तुकज्वरचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-17T20:00:27.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

opus quadratum

  • न. चिरेकाम 
  • (pl. opera quadrat) 
  • (Roman masonry of squared blocks) 
RANDOM WORD

Did you know?

विविध पूजा अथवा होम प्रसंगी स्त्रीने पुरूषाच्या कोणत्या अंगास बसावे आणि हाताला हात कां लावावा?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.