TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथानाहनिदानम् ॥

॥ अथानाहनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथानाहनिदानम् ॥
॥ अथानाहनिदानम्‍ ॥
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन । प्रवर्तमानं न यथा स्वमेनं विकारमानाहमुदाहरन्ति ॥१॥
अथामजमानाहमाह ॥ तस्मिन्भवत्यामसमुद्भवे तु तृष्णाप्रतिशायशिरोविदाहा: । आमाशये शूलमथो गुरुत्वं हृत्स्तम्भनोद्गारविघातनं च ॥१॥
अथ शकृत‍सञ्चयमाह ॥ स्तम्भ: कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा शकृतो वमिश्च । श्वासश्च पक्वाशयजे भवन्ति तथालसोक्तानि च लक्षणानि ॥१॥
उदावर्तिनमप्येनमानाहिनमथापि वा । तृष्णोपद्रवसंयुक्तं तं त्यजेद्भिषजां वर: ॥२॥

॥ अथानाहचिकित्सा ॥
आनाहेऽपि प्रयुञ्जीत उदावर्तहरीं क्रियाम्‍ ॥ तत्राप्यत्र विशेषमाह । त्रिवृद्धरीतकीश्यामा: स्नुहीक्षीरेण भावयेत्‍ । वटिका मूत्रपीतास्ता: श्रेष्ठास्त्वानाहभेदिका: ॥१॥
हिड्गुग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम्‍ । भागोत्तरं चूर्णितमेतदिष्टं गुल्मोदरानाहविषूचिकासु ॥१॥
वचाभयाचित्रकयावशूकान्‍ सपिप्पलीकातिविषाकुष्ठान्‍ । उष्णाम्बुनानाहविमूढवातान्पीत्वा जयेदाशु रसौदनाशी ॥२॥
अथ राढधूमादिवर्ति: ॥ राढधूमबिडव्योषगुडमूत्रविपाचिता । गुदेऽड्गुष्ठसमावर्तिधेयानाहशुलनुत्‍ ॥१॥
विपाच्य मूत्राम्लरसेन दन्तीपिण्डीतकृष्णाबिडकृष्णधूमै: । वर्ति कराड्गुष्टनिभां घृताक्तां गुदे रुजानाहहरीं विदध्यात्‍ ॥२॥
इत्यानाहचिकित्सा ॥
अथ पथ्यापथ्यम्‍ ॥ विष्टम्भीनि विरुद्धानि कषायानि गुरुणि च । उदावर्ते प्रयत्नेन वर्जयेत्सततं नर: ॥१॥
उदावर्ते हितं सर्वं पाचनं लड्घनं तथा । आनाहे तु यथायोग्यं सेवयेन्मतिमान्नर: ॥
इति पथ्यापथ्यम्‍ ॥

॥ अथातो गुल्मनिदानं व्याख्यास्याम: ॥
अथ तस्य सम्प्राप्तिमाह । दुष्टा वातादयो‍ऽत्यर्थं मिथ्याहारविहारत: । कुर्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरुपिणम्‍ ॥११॥
तेषां स्थानान्याह ॥ तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिबस्तय: ॥ तस्य लक्षणमाह ॥ हृन्नाभ्योरन्तरे ग्रन्थि: सञ्चारी यदि वाचल: वृत्तश्चयापचयवात्‍ स गुल्म इति कीर्तित: ॥१॥
विशेषलक्षणं चरके ॥ तृष्णाज्वरपरीतश्च दाहस्वेदाग्निमार्दवै: । गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत्‍ ॥१॥
भट्टारकहरिश्चन्द्र: ॥ स्त्रीणामार्तवजो गुल्मो न पुंसामुपजायते । अन्यस्त्वसृगभवो गुल्म: स्त्रीणां पुसां च जायते ॥१॥
निरुढमूलप्रभवो हि कोष्ठे स्थित: स्वतन्त्र: परसंश्रयो वा । स्पर्शोपलब्ध: परिपिण्डितत्वाद्गुल्मो यथा दोषमुपैति नाम ॥२॥
सव्यस्तैर्जायते दोषै: समस्तैरपि चोच्छ्रितै: । पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापर: ॥३॥
तस्य पूर्वरुपमाह ॥ उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि । आटोपमाध्मानमपक्तिशक्तिरासन्नगुल्मस्य वदन्ति चिह्नम्‍ ॥१॥
सर्वगुल्मानां सामान्यलक्षणमाह ॥ अरुचि: कृच्छ्रविण्मूत्रं वातान्त्रप्रतिकूजनम्‍ । आनाहं चोर्ध्ववातत्वं सर्वगुल्मेषु लक्षयेत्‍ ॥१॥
अथ वातजमाह ॥ रुक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च । शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतु: ॥१॥
य: स्थानसंस्थानरुजाविकल्पं विड्वातसड्गं गलवक्रशोषम्‍ । श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वांसशिरोरुजं च ॥२॥
करोति जीर्णेऽभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च । वातात्स गुल्मो न च तत्र रुक्षं कषायतिक्तं कटु चोपशेते ॥३॥
पैत्तिकमाह ॥ कट्वम्लतीक्ष्णोष्णविदाहिरुक्षक्रोधातिमद्यार्कहुताशसेवा । आमाभिघातो रुधिरं च दुष्टं पित्तस्य गुल्मस्य निमित्तमुक्तम्‍ ॥१॥
तस्य पूर्वरुपमाह ॥ ज्वर: पिपासा वदनाड्गराग: शूलं महज्जीर्यति भोजने च । स्वेदो विदाहो व्रणवच्च गुल्म: स्पर्शासह: पैत्तिकगुल्मरुपम्‍ ॥१॥
अथ श्लैष्मिकमाह ॥ शीतं गुरु स्निग्धमचेष्टनं च सम्पूरणं प्रस्वपनं दिवा च । गुल्मस्य हेतु: कफसम्भवस्य सर्वश्च दुष्टो निचयात्मकस्य ॥१॥
अथ पुन: श्लैष्मिकरुपाण्याह ॥ स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि । शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रुपाणि कफात्मकस्य ॥१॥
द्वन्द्वत्रिदोषजेष्वेकहेतुलक्षणनिर्देशार्थमाह ॥ निमित्तलिड्गान्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च । व्यामिश्रलिड्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्‍ ॥१॥
अथ त्रिदोषजस्यासाध्यत्वमाह ॥ महारुजं दाहपरीतमश्मवद्‍ घनोन्नतं शीघ्रविदाहि दारुणम्‍ । मन:शरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत्‍ ॥१॥
अथ स्त्रीणां रक्तगुल्मस्य सम्प्राप्तिमाह । नवप्रसूताहितभोजना या या चामगर्भं विसृजेदृतौ वा । वायुर्हि तस्या: परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम्‍ ॥१॥
उक्तं चरके । ऋतावनाहारभयातपेन विरुक्षणैर्वेगविधारणैश्च । संस्तम्भनोल्लेखनयोनिदोषैर्गुल्म: स्त्रिया रक्तभवोऽभ्युपैति ॥१॥
तस्य लिड्गमाह ॥ पित्तस्य गुल्मेन समानलिड्गं: ॥ स रौधिर: स्त्रीभव एव गुल्मो मासे व्यतीते द्शमे चिकित्स्य: ॥१॥
अथ चिरजस्यावस्थायामसाध्यत्वमाह ॥ सञ्चीत: क्रमशो गुल्मो महावास्तुपरिग्रह: । कृत: शूल: शोरोनद्धो यदा कूर्म इवोन्नत: ॥१॥
दौर्बल्यारुचिहृल्लासकासवम्यरतिज्वरै: । तृष्णातन्द्राप्रतिश्यायैर्युज्यते सन सिध्यति ॥२॥
पुनरसाध्यलक्षणमाह ॥ गृहीत्वा सज्वरं श्वासच्छर्द्यतीसारपीडितम्‍ । हृन्नाभिहस्तपादेषु शोथ: कर्षति गुल्मिनम्‍ ॥१॥
अथ पुन: श्वासासाध्यलक्षणमाह ॥ श्वास: शूलं पिपासान्नविद्वेषो ग्रन्थिमूढता । जायते दुर्बलत्वं च गुल्मिनो मरणाय वै ॥१॥
इति गुल्मनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
लड्घनं दीपनं स्निग्धमुष्णं वातानुलोमनम्‍ । बृंहणं च भवेदन्नं तद्धितं सर्वगुल्मिनाम्‍ ॥१॥
गुल्मिनामनिलशान्तिरुपायै: सर्वशो विधिवदाचरितव्या । मारुते तु विजितेऽन्यमुदीर्णं दोषमल्पमपि कर्मं निहन्यात्‍ ॥२॥
सुखोष्णा जाड्गलरसा: सुस्निग्धा व्यक्तसैन्धवा: । कटुत्रिकसमायुक्ता हिता: पानेषु गुल्मिनाम्‍ ॥३॥
कृमिपिण्डेष्टकास्वेदान्कारयेत्कुशलो भिषक्‍ । उपनाहाश्च कर्तव्या: सुखोषणा: शाल्वणादय: ॥४॥
गुल्मस्थाने रक्तमोक्षो बाहुमध्ये शिराव्यध: । स्वेदानुलोमनं चैव प्रशस्तं सर्वगुल्मिनाम्‍ ॥५॥
अथ वातगुल्मचिकित्सा ॥ प्रागेव वातजे गुल्मे सुस्त्रिग्धं स्वेदितं नरम्‍ । रेचितं स्नेहरेकैश्च निरुहै: सानुवासनै: ॥ उपाचरेद्भिषक्‍ प्राज्ञो मात्राकालविशेषत: ॥१॥
अथ मातुलुड्गादियोग: ॥ मातुलुड्गरसै हिड्गु दाडिमं बिडसैन्धवम्‍ । सुरामण्डेन पातव्यं वातगुल्मरुजापहम्‍ ॥१॥
अथ वृन्दान्नागरादि ॥ नागरार्धपलं पिष्टं द्वे पले लुञ्चितस्य च । तिलस्यैकं गुडपलं क्षीरेणोष्णेन पाययेत्‍ ॥ वातगुल्ममुदावर्तं योनिशूलं च नाशयेत्‍ ॥१॥
अथ हिड्गुपञ्चकम्‍ ॥ हिड्गुसैन्धववृक्षाम्लराजिकानागरै: समै: । चूर्णं गुल्मप्रशमनं स्यादेतद्धिड्गुपञ्चकम्‍ ॥१॥
अथ केतकीक्षारयोग: ॥ स्वर्जिकाकुष्ठसहित: क्षार: केतकिसंभव: । पीतस्तैलेन शमयेद्वातगुल्मं सुदारूणम्‍ ॥१॥
अथैरण्डतैलादियोग: ॥ पिबेदेरण्डतैलं वा वारुणीमण्डमिश्रितम्‍ । तदेव तैलं पयसा वातगुल्मी पिबेन्नर: ॥१॥
अथ वृन्दात्‍ हपुषाद्यं घृतम्‍ ॥ हपुषाजाजिपृथ्वीकापिप्पलीमूलचित्रकै: । क्षीरमूलककोलानांरसैश्च विपचेद्‍ घृतम्‍ ॥१॥
वातगुल्मारुचिश्वासशूलानाहज्वरार्शसाम्‍ । ग्रहणीयोनिदोषाणां घृतमेतन्निवारणम्‍ ॥२॥
अथ चित्रकाद्यं घृतम्‍ ॥ चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमै: । दीप्यकग्रन्थिकाजाजीहपुषाधान्यकै: समै: ॥१॥
दध्यारनालबदरमूलकस्वसैर्घृतम्‍ । पक्त्वा पिबेद्वातगुल्मदौर्बल्याटोपशूलनुत्‍ ॥२॥
अथ पथ्यम‍ । तित्तिरांश्च मयूरांश्च कुक्कुटान्‍ क्रौञ्चवर्तिकान्‍ । सर्पि:शालिप्रपन्नांश्च वातगुल्मे च योजयेत्‍ ॥१॥
वातगुल्मप्रतीकारे प्रकुप्यति यदा कफ: । शस्तमुल्लेखनं तत्र चूर्णाद्याश्च कफापहा: ॥२॥
यदि कुप्यति वा पित्त विरेकस्तत्र भेषजम्‍ । दोषघ्नैरप्यशान्ते च गुल्मे शोणितमोक्षणम्‍ ॥३॥
इति वातगुल्मचिकित्सा ॥

॥ अथ पित्तगुल्मचिकित्सा ॥
अथ त्रिवृच्चूर्णम्‍ ॥ पित्तगुल्मे त्रिवृच्चूर्णं पातव्यं त्रिफलाम्बुना । विरेचनाय ससितं कम्पिल्लं च समाक्षिकम्‍ ॥१॥
अथ द्राक्षादियोग: ॥ द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्‍ । सशर्करं वा विलिहेत्रिफलाचूर्णमुत्तमम्‍ ॥१॥
अथ पथ्याद्यं घृतम्‍ । रसेनामलकेक्षूणां घृतपादं विपाचयेत्‍ । पथ्यायाश्च पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्‍ ॥१॥
॥ अथ द्राक्षाद्यं घृतम्‍ ॥ द्राक्षामधुकखर्जूरं विदारीं सशतावरीम्‍ । परुषकाणि त्रिफलां साधयेत्पलसंमिताम्‍ ॥१॥
जलाढके पादशेषे रसमामलकस्य च । घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम्‍ ॥२॥
साधयेत्तद्‍ घृतं सिद्धं शर्कराक्षौद्रपादिकम्‍ प्रयोग: पित्तगुल्मग्न: सर्वगुल्मविकारनुत्‍ ॥३॥
अथ पथ्यम्‍ ॥ शालिगोछागदुग्धं च पटोलं घृतमिश्रितम्‍ । द्राक्षा परुषकं धात्री खर्जूरं दाडिमं सिताम्‍ ॥ पथ्यार्थं पैत्तिके गुल्मे बलातोयं च योजयेत्‍ ॥१॥
इति पित्तगुल्मचिकित्सा ॥

॥ अथ श्लेष्मगुल्मचिकित्सा ॥
स्नेहोपनाहस्वेदैस्तीक्ष्णस्त्रंसनवस्तुभि: । योगैश्च वातगुल्मोक्तै: श्लेष्मगुल्ममुपाचरेत्‍ ॥१॥
अथ तिलादिस्वेद: ॥ तिलैरण्डातसीबीजसर्षपै: परिलिप्य च । श्लेष्मगुल्मभयस्पात्रै: सुखोष्णै: स्वेदयेद्भिषक्‍ ॥१॥
अथ यवान्यादि ॥ यवानीं चूर्णितां तक्रे बिडेन लवणीकृताम्‍ । श्लेष्मगुल्मे पिबेद्वातमूत्रवर्चोऽनुलोमनम्‍ ॥१॥
अथ क्षीरषट्‍पलं घृतम्‍ ॥ पिप्पलीपिप्पलीमूलचव्यचित्रनागरै: । पलिकै: सयवक्षारैर्घृतप्रस्थं विपाचयेत्‍ ॥१॥
क्षीरप्रस्थेन तत्सर्पिर्हन्ति गुल्मं कफात्मकम्‍ । ग्रहणीपाण्डुरोगघ्नं प्लीहाकासज्वरापहम्‍ ॥२॥
अथ मिश्रकस्नेह: ॥ त्रिवृता त्रिफला दन्ती द्शमूलं पलोन्मितम्‍ । जले चतुर्गुणे पक्त्वा चतुर्भागावशेषिते ॥१॥
सर्पिरैण्डतैलं च क्षीरं चैकत्र साधयेत्‍ । संसिद्धो मिश्रकस्नेह: सक्षौद्र: कफगुल्मनुत्‍ ॥२॥
इति मिश्रक: स्नेह: ॥ अथ पथ्यम्‍ ॥ कुलत्याञ् जीर्णशालींश्च षष्टीकान्यवजाड्गलान्‍ । मद्यं तैलं घृतं तक्रं कफगुल्मे प्रयोजयेत्‍ ॥१॥
इति कफगुल्मचिकित्सा ॥

॥ अथ त्रिदोषगुल्मचिकित्सा ॥
वरूणादिकषायस्तु गुल्मं दोषत्रयोत्थितम्‍ । हन्ति हृत्यार्श्वशूलघ्नं सोपद्रवमसंशयम्‍ ॥१॥
अथ शार्ड्गधराद्वरुणादिक्वाथ: ॥ वरूणो बकपुष्पश्च बिल्वापामार्गचित्रका: । अग्निमन्थद्वयं शिग्रुद्वय च बृहतीद्वयम्‍ ॥१॥
सैरेकत्रयं मूवी मेषशृड्गी किरातक: । अजशृड्गी च बिम्बी च करजञ्जश्च शतावरी ॥२॥
वरुणादिकगणक्वाथ: कफमेदोहर: स्मृत: । हन्ति गुल्मं शिर:शूलं तथाभ्यन्तरविद्रधीन्‍ ॥३॥
इति त्रिदोषगुल्मचिकित्सा ॥

॥ अथ रक्तगुल्मप्रतीकार: ॥
पित्तवद्रक्तगुल्मिन्या नार्या: कार्यो यथाविधि । प्रस्निग्धस्विन्नकोष्ठाया योज्यं स्नेहविरेचनम्‍ ॥१॥
अथ शताह्वादिकल्क: ॥ शताह्वाचिरिबिल्वत्वगदारुभार्गीकणोद्भव: । कल्क: पीतो जयेद्‍ गुल्मं तिलक्वाथेन रक्तजम्‍ ॥१॥
अथ तिलक्वाथ: ॥ तिलक्वाथो गुडघृतव्योषभार्गीरजोऽन्वित: । यानं रक्तभवे गुल्मे नष्टे पुष्पे च योषित: ॥१॥
अथ सुश्रुतात्‍ तिलमूलादिचूर्णम्‍ ॥ तिलमूलं च शिग्रुं च ब्रह्मदण्डीयमूलकम्‍ । मधुयष्टीत्रिकटुकैर्युतं चूर्णमुपासयेत्‍ ॥ पुष्परोधे वातगुल्मे स्त्रीणां सद्य: सुखावहम्‍ ॥१॥
अथ भार्ग्यादिचूर्णम्‍ ॥ भार्गी कृष्णा करञ्जत्वग्‍ ग्रन्थिकामरदारुजम्‍ । चूर्णं तिलानां क्वाथेन रक्तगुल्मरुजापहम्‍ ॥१॥
अथ दन्त्यादिगुटिका ॥ दन्तीहिड्गुयवक्षारालाबुबीजकणागुडा: । स्त्रुहीक्षीरेण गुटिका सर्वेषां कर्षमात्रिका ॥ भक्षिता रक्तगुल्मघ्नी रुधिरस्त्रावकारिणी ॥१॥
अथार्कपुष्पयोग: ॥ पक्वं तैलेऽर्कजं पुष्पं रुधिरस्त्रावकरि च ॥१॥
अथ पलाशक्षारघृतम्‍ ॥ पलाशक्षारतोयेन सर्पि: सिद्धं पिबेद्वधू: । यस्मिन्नवसरे क्षारतोयसाध्यघृतादिषु ॥१॥
फेनोद्गमस्य निर्वृत्तिर्नष्टदुग्धसमाकृति: । स एव तस्य पाकस्य कालो नेतरलक्षण: ॥२॥
इति पलाशक्षारघृतम्‍ ॥ अथ वृन्दान्मुण्यादि ॥ मुण्डीरोचनिकाचूर्णं शर्करामाक्षिकान्वितम्‍ । विदधीतास्त्रगुल्मिन्यां मलसंरेचनाय च ॥१॥
उष्णैर्वां भेदयेद्भिन्ने विधिर्वासृग्दरे हित: । अतिप्रवृत्तमस्त्रं तु भिन्ने गुल्मे निवारयेत्‍ ॥२॥
इति रक्तगुल्मप्रतीकार: ॥

॥ अथ सामान्यविधि: ॥
अथ चित्रकादिक्वाथ: ॥ चित्रकग्रन्थिकैरण्डशुण्ठीक्वाथ: परं हित: । शूलानाहविबन्धेषु सहिड्गुबिडसैन्धव: ॥१॥
अथ हिड्गवादिचूर्णम्‍ ॥ हिड्गुग्रन्थिकधान्यजीरकवचाचव्याग्निपाठासटीवृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम्‍ । पथ्यापुष्करवेतसाम्लहपुषाजाज्यस्तदेभि: कृतं चूर्णं भावितमेतदार्द्रकरसै: स्याब्दीजपूरस्य च ॥१॥
आध्मानग्रहणीविकारगुदजान्‍ गुल्मानुदावर्तकान्‍ प्रत्याध्मानगदं तथाश्मरियुतं तूनीद्वयारोचकान्‍ । ऊरुस्तम्भमतिभ्रमं च मनसो बाधिर्यमष्ठीलकां प्रत्यष्ठीलिकिकामथापहरते प्राक्पीतमुष्णाम्बुना ॥२॥
हृत्कुक्षिवड्क्षणकटीजठरान्तरेषु बस्तिस्तनांसफलकेषु च पार्श्वयोश्च । शूलानि नाशयति वातबलासजानि हिड्गुवादि मान्द्यमिदमश्विनसंहितायाम्‍ ॥३॥
अथ वृन्दाद्धिड्गुनवकम्‍ ॥ हिड्गुपुष्करमूलानि तुम्बरूणि हरीतकी । श्यामा बिडं सैन्धवं च यवक्षारं महौषधम्‍ ॥१॥
यवक्वाथोदकेनैतद्‍ घृतभृष्टं तु पाचयेत्‍ । तेनास्य भिद्यते गुल्म: सशूल: सपरिग्रह: ॥२॥
अथ भास्करलवणाद्यं चूर्णम्‍ ॥ सामुद्रलवणं ग्राह्यमष्टकर्षमितं बुधै: । एवं सौवर्चलं ग्राह्यं बिडसैन्धवधान्यकम्‍ ॥१॥
पिप्पलीपिप्पलीमूलं कर्षं जीरकपत्रकम्‍ । नागकेशरतालीसमम्लवेतसकं तथा ॥२॥
द्विकर्षमात्राण्येतानि प्रत्येकं कारयेब्दुध: । मरीचं जीरकं विश्वमिकैकं कर्षमात्रकम्‍ ॥३॥
दाडिमस्य चतुष्कर्षं त्वगेलाचार्धकर्षिका । एतच्चूर्णीकृतं सर्वं लवणं भास्कराभिधम्‍ ॥४॥
शाणप्रमाणं देयं तु मस्तुतक्रसुरासवै: । वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षतम्‍ ॥५॥
अर्शांसि ग्रहणीं कुष्ठं विबन्धं च भगन्दरम्‍ । शोथं शूलं श्वासकासमामदोषं च हृद्रुजम्‍ ॥६॥
मन्दाग्निं नाशयत्येतद्दीपनं पाचनं परम्‍  । सर्वलोकहितार्थांय भास्करेणोदितं पुरा ॥७॥
इति शार्ड्गधरात्‍ ॥ अथ क्षारद्वयादि ॥ क्षारद्वयानलव्योषनीलीलवणपञ्चकम्‍ । चूर्णितं सर्पिषा पेयं सर्वगुल्मोदरापहम्‍ ॥१॥
अथाग्निमुखरस: ॥ हिड्गुभागो भवेदेको वचा च द्विगुणा भवेत्‍ । पिप्पली त्रिगुणा ज्ञेया शृड्गबेरं चतुर्गुणम्‍ ॥१॥
यवानिका पञ्चगुणा षड्‍गुणा च हरीतकी । चित्रकं सप्तगुणितं कुष्ठं चाष्टगुणं भवेत्‍ ॥२॥
एतद्वातहरं चूर्णम्‍ पीतमात्रं प्रसन्नया । पिबेद्दध्रा मस्तुना वा सुरया कोष्णवारिणा ॥३॥
उदावर्तमजीर्णं च प्लीहानमुदरं तथा । अड्गानि यस्य शीर्यन्ते विषं वा येन भक्षितम्‍ ॥ अर्होहरो दीपनश्च शूलघ्नो नाम्ना न क्वचित्प्रतिहन्यते ॥६॥
अथ काड्कायनगुटिका ॥ यवानी जीरकं धान्यं मरिचं गिरिकर्णिका । अजमोदोकुञ्ची च चतु:शाणा: पृथक्‍ पृथक्‍ ॥१॥
हिड्गुषट्‍शाणकं कार्यं शाणो लवणपञ्चकात्‍ । त्रिवृच्चाष्टमितै: शाणै: प्रत्येकं कल्पयेत्सुधी: ॥२॥
दन्ती शठी पौष्करं च विडड्गं दाडिमं शिवा । चित्रोऽम्लवेतस: शुण्ठी शाणै: षोडशभि: पृथक्‍ ॥३॥
बीजपूररसेनैषां गुटिकां कारयेद्‍बुध: । घृतेन  पयसा चाम्लै रसैरुष्णोदकेन वा ॥४॥
पिबेत्काड्कायनप्रोक्ता गुटिका गुल्मनाशिनी । मद्येन वातिकं गुल्मं गोक्षीरेण च पैत्तिकम्‍ ॥५॥
मूत्रेण कफगुल्मं च दशमूलैस्त्रिदोषजम्‍ । उष्ट्रीदुग्धेन नारीणां रक्तगुल्मं निवारयेत्‍ ॥ हृद्रोगं ग्रहणीशूलं कृमीनर्शांसि नाशयेत्‍ ॥६॥
इति शार्ड्गधरात्‍ ॥ अथ चिञ्चाक्षारादिशड्खवटी ॥ चिञ्चाक्षारं स्नुहीक्षारमर्कक्षारं पलं पलम्‍ । द्विपलं शड्खजं भस्म रामठं च पलार्धकम्‍ ॥१॥
लवणानि च सर्वाणि पलमात्राणि योजयेत्‍ । क्षारद्वयं पलार्धं च सर्वमेकत्र योजयेत्‍ ॥२॥
जम्बीरकरसैर्मर्द्यमनलस्य दिनत्रयम्‍ । भृड्गराजस्य निर्गुण्ड्या मुण्डयाश्चैव पृथग्‍ द्रवै: ॥३॥
आर्द्रकस्य रसेनैव प्रत्येकं दिनमार्दितम्‍ । बदरीबीजमात्रांस्तु वटकान्कारयेद्भिषक्‍ ॥४॥
एकैकं भक्षयेत्प्रात: । पञ्चगुल्मान्‍ व्यपोहति । सर्वं शूलं निहन्त्याशु अजीर्णं च विषूचिकाम्‍ ॥५॥
मन्दाग्निं नाशयेच्छ्रीघ्रं पथ्यं तैलाम्लवर्जितम्‍ । चिञ्चाशड्खवटी नाम ग्रहणीरोगहृत्परा ॥६॥
अथ वज्रक्षार: ॥ सामुद्रं सैन्धवं काचं यवक्षारं सुवर्चलम्‍ । टड्कणं स्वर्जिकाक्षारं तुल्यं चूर्णं प्रकल्पयेत्‍ ॥१॥
अर्कक्षीरै: स्नुहीक्षीरै: शोषयेदातये त्र्यहम्‍ । अर्कपत्रं लिपेत्तेन रुद्ध्वा भाण्डे पुटे पचेत्‍ ॥२॥
तं क्षारं चूर्णयित्वाथ त्र्यूषणं त्रिफलारज: । क्षारार्धं योजयेत्सम्यगेकीकृत्य विचूर्णयेत्‍ ॥३॥
जीरकं रजनीवह्निनवकस्य समं तत: । वज्रक्षारमिमं शुद्धं स्वयं प्रोक्तं पिनाकिना ॥४॥
सर्वोदरेषु गुल्मेषु शूले शोफे च योजयेत्‍ । अग्निमान्द्ये त्वजीर्णे च भक्षेन्निष्कद्वयं तथा ॥५॥
वाताधिके जलै: कोष्णै: घृतै: पित्ताधिके हित: । कफे गोमूत्रसंयुक्त आरनालैस्त्रिदोषनुत्‍ ॥६॥
अथ योगसागराच्छड्खद्राव: ॥ प्रस्थं जम्बीरनीरं बदरपरिमितं काकतुण्डस्य मूलं कर्षार्धं स्वर्जिकायास्त्रिपटुपलयुतं नव्यसारं पलार्धम्‍ । तत्सर्वं सूर्यतापे मुनिदिनयुगुलं काचकुप्यां निधाय हन्याद्‍ गुल्मं सुतीव्रं जठरमलरुजं शड्खकद्रावसंज्ञ: ॥१॥
इति शड्खद्राव: ॥ अथान्य: शड्खद्राव: ॥ फटकीपलमेकं च सैन्धवं पलमेव च । द्विपलं च यवक्षारं द्विपलं नवसागरम्‍ ॥१॥
चतुष्पलं सुराक्षारं पलार्धं कासिस्त्रं तथा । डमरुयस्त्रयोगेन चुल्ल्यां वै बदरीन्धनै: ॥२॥
साधयेल्लाघवात्तूर्णं शड्खद्रावरसं परम्‍ । गुल्मादिसर्वरोगेषु देय: सर्वसुखप्रद: ॥३॥
अन्यश्च ॥ सैन्धवं च यवाक्षारं नव्यसारं तथैव च । प्रत्येकं द्विपलं ग्राह्यं सुराक्षारं चतुष्पलम्‍ ॥१॥
फटकीपलमेकं च पलार्धं कासिसं तथा । सर्वमेकत्र संयोज्यडमरुन्त्रमध्यगे ॥२॥
चुल्ल्यां प्ररोहयेत्तत्तु ज्वालयेत्‍ खदिरेन्धनै: । द्रावितं तत्समादाय तेजोरुपं जलप्रभम्‍ ॥३॥
द्रावयेदखिलान्धातून्वराटांश्च न संशय: । शड्खद्रावरसो नाम गुल्मोदरहर: पर: ॥४॥
इति शड्खद्राव: ॥ अथ क्रव्यादरस: ॥ द्विपलं गन्धकं शुद्धं द्रावयित्वा विनिक्षिपेत्‍ । पारदं पलमानेन मृतशुल्बायसी पुन: ॥१॥
कर्षमानेन संमिश्र्य पञ्चाड्गुलदले क्षिपेत्‍ । ततो विचूर्ण्यं यत्नेन निक्षिप्यायसपात्रके ॥२॥
चुल्ल्यां निवेश्य यत्नेन चालयेन्मृदुवह्निना । पात्रं पात्रं हि जम्बीररसं तत्र प्रचारयेत्‍ ॥३॥
पञ्चकोलसमुद्भूतै: कषायै: साम्लवेतसै: । भावना: खलु दातव्या: पञ्चाशत्प्रतितास्तथा ॥४॥
भृष्टट्ड्कणचूर्णेन तुल्येन सह मेलयेत्‍ । तदर्धं पञ्चलवणै: सर्वसाम्यमरीचकै: ॥५॥
सप्तधा भावयेत्पश्चाच्चणकक्षारवारिणा । तत: संशोष्य संपेष्य कूपिकाभ्यन्तरे क्षिपेत्‍ ॥६॥
अत्यन्तगुरुभोज्यानि गुरुमांसान्यनेकश: । भक्षेच्चाकण्ठपर्यन्तं ततो देयो रसोत्तम: ॥७॥
चतुर्वल्लमितो देयस्तक्रै: सलवणैरपि । भुक्तं जीर्यति तत्क्षिप्रं जायते दीपनं परम्‍ ॥८॥
रस: क्रव्यादनामायं प्रोक्तो दृढं प्रत्ययकारक: ॥९॥
कुर्याद्दीपनमुद्धतं पवनजं देहे परं शोषणं तुन्दस्थौल्यनिबर्हणो गरहरो दुष्टव्रणार्तिप्रणुत्‍ । कासश्वासविनाशनो ग्रहणिकाविध्वंसन: स्त्रंसनो गुल्मप्लीहजलोदरोपशमन: क्रव्यादनामा रस: ॥१०॥
विश्वहिड्गुबिडै: सार्धं क्रव्यादो भक्षितो रस: । गुल्मानशेषान्प्लीहानं विद्रधीनपि नाशयेत्‍ ॥११॥
इति क्रव्याद: ॥ अथ गदनिग्रहाच्चविकासव: ॥ चविकायास्तुलार्धं तु तदर्धं चित्रकस्य च । बाष्पिका पुष्करं मूलं षड्‍ग्रन्था हपुषा शटी ॥१॥
पटोलमूलत्रिफलायवानीकुटजत्वच: । विशाला धान्यकं रास्त्रा दन्ती दशपलोन्मिता ॥२॥
कृमिघ्नमुस्तमञ्जिष्ठादेवदारुकटुत्रिकम्‍ । भागान्पञ्चपलानेतानष्टद्रोणेऽम्भस: पचेत्‍ ॥३॥
द्रोणशेषे रसे पूते देयं गुडशतत्रयम्‍ धातक्या विंशतिपलं चातुर्जातं पलाष्टकम्‍ ॥४॥
लवड्गव्योषकड्कोलं पलिकानि प्रकल्पयेत्‍ । निदध्यान्मासमेकं तु घृतभाण्डे सुसंस्कृते ॥५॥
चतुष्पलां पिबेन्मात्रां प्रात: पित्तं नियच्छति । सर्वगुल्मविकारांश्च प्रमेहांश्चैव विंशतिम्‍ ॥६॥
प्रतिश्यायं क्षयं कासमष्ठीलां वातशोणितम्‍ । उदराण्यन्त्रवृद्धिं च चविकाख्यो महासव: ॥७॥
इति चविकासव: ॥ अथ कुमार्यासव: ॥ कुमार्याश्च रसद्रोणे गुडं पलशतं तथा । तुलाड्घ्रिसड्‍ख्यां विजयां क्वाथयेत्तज्जलार्मणे ॥१॥
चतुर्थाशावशेषे तु पूते तस्मिन्निधापयेत्‍ । मधुनश्चाढकं दत्वा धातक्या द्विपलाष्टकम्‍ ॥२॥
स्निग्धभाण्डे विनिक्षिप्य कल्कं चैव प्रदापयेत्‍ । जातीफलं लवड्गं च कक्कोलं च कबाबकम्‍ ॥३॥
जटिलाचव्यचित्रं च जातीपत्री सकर्कटम्‍ । अक्षं पुष्करमूलं च प्रत्येकं च पलं पलम्‍ ॥४॥
मृतं शुल्बं तथा लोहं शुक्तिमात्रं प्रदापयेत्‍ । भूम्यां वा धान्यराशौ वा स्थापयेद्दिनविंशतिम्‍ ॥५॥
तमुद्‍धृत्य पिबेन्मात्रां यथा चाग्निबलाबलम्‍ । पञ्चकासं तथा श्वासं क्षयरोगं च दारूणम्‍ ॥६॥
उदराणि तथाष्टौ च षडशर्वांसि च नाशयेत्‍ । वातव्याधिमपस्मारमन्यान्‍ रोगान्सुदारुणान्‍ ॥७॥
जाठरं कुरुते दीप्तं कोष्ठशूलं च नाशयेत्‍ । गुल्माष्टकं नष्टपुष्पं नाशयेदेकपक्षत: ॥ कुमारिकासवो ह्येष बृहस्त्पतिविनिर्मित: ॥८॥
इति कुमार्यास्व: ॥ अथ हिड्गुवादि घृतम्‍ ॥ हिड्गुपुष्करमूलानि तुम्बरूणि हरीतकी । श्यामा बिडं सैन्धवं च यवक्षारं महौषधम्‍ ॥१॥
यवक्काथोदकेनैतद्‍घृतप्रस्थं विपाचयेत्‍ । तेनास्य भिद्यते गुल्म: सशूल: सपरिग्रह: ॥२॥
अथ दधिकादि घृतम्‍ ॥ बिडपूररसोपेतै: सर्पिर्दधि चतुर्गुणम्‍ । साधितं दधिकं नाम्ना गुल्महृत्प्लीहनुत्परम्‍ ॥२॥
अथ वृन्दात्‍ त्रायमाणादि ॥ जले दशगुणे साध्यं त्रायमाणं चतुष्पलम्‍ । पञ्चभागान्वितै: कल्कै: संयोज्यं चैव कार्षिकै: ॥१॥
रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा । द्राक्षा तामलकी वीरा जीवन्ती चन्दनोत्पलम्‍ ॥२॥
रसस्यामलकानां च क्षीरस्य च घृतस्य च । पलानि पृथगष्टाष्टौ सम्यग्‍ दत्वा विपाचयेत्‍ ॥३॥
पित्तगुल्मं रक्तगुल्मं विसर्पं पित्तजं ज्वरम्‍ । हृद्रोगं कामलां कुष्ठं हन्यादेतद्‍ घृतोत्तमम्‍ ॥४॥
अथ सामुद्रादिवर्ति: ॥ घातवर्चोनिरोधेषु सामुद्रार्द्रकसर्षपै: । कृत्वा पायौ विधातव्या वर्तयो मरिचान्वितै: ॥१॥

॥ अथ रसा: ॥
अथादौ नाराचो रस: ॥ शुद्धसूतं समं गन्धं जेपालं त्रिफलासमम्‍ । त्रिकटुं पेषयेत्क्षौद्रमिश्रं गुल्मं लिहन्हरेत्‍ ॥ उष्णोदकं पिबेच्चानु नाराचोऽयं रसोत्तम: ॥१॥
इति नाराचो रस: ॥ अथ वडवानलरस: ॥ शुद्धसूतं समं गन्धं मृतं ताम्राभ्रटड्कणम्‍ । सामुद्रं च यवक्षारं स्वर्जिसैन्धवनागरम्‍ ॥१॥
अपामार्गस्य च क्षारं पालाशं वत्सनाभकम्‍ । प्रत्येकं सूततुल्यं स्याच्चणकाम्लेन मर्दयेत्‍ ॥२॥
हस्तिकन्याद्रवैश्चाहो आर्द्रयुक्तं पुटेल्लघु । माषैकं भक्षयेन्नित्यं रसो‍यं वडवानल: ॥ सर्वं गुल्मं निहन्त्याशु ग्रहणीं च विशेषत: ॥३॥
इति वडवानलरस: ॥ अथ गुल्मकुठारो रस: ॥ नागवड्गाभ्रकं कान्तं समं ताम्रं समांशकम्‍ । जम्बीरस्वरसैर्घृष्टा वटी गुञ्जाप्रमाणिका ॥१॥
मधुनार्द्रकनीरेण क्षारयुग्मेन सेविता । अजीर्णमाम्लं गन्धं च हृत्पार्श्वोदरशूलके ॥ नाम्ना गुल्मकुठारोऽयं सर्वगुल्मान्व्यपोहति ॥२॥
अथ काश्यपात्‍ मदेभसिंहसूतो रस: ॥ रसगन्धवराटताम्रशड्खं विषवड्गाभ्रककान्ततीक्ष्णमुण्डम्‍ । अहिहिड्गुलटड्कणं समांशं सकलं तत्रिगुणं पुराणकिट्ट्म्‍ ॥१॥
पशुमूत्रविशोधितं सुभृष्ट्वा त्रिफलाभृड्गरजार्द्रकोत्थनीरै: । सुविशोष्य वरामृताविलासास्वरसैरष्टगुणै: पुनर्नवोत्थै: ॥२॥
पृथगग्निकृतं घनं विपाच्य गुटिका गुञ्जयुता निजानुपानै: । ज्वरपाण्डुतृषास्त्रपैत्त्यगुल्मक्षयकासस्वरमग्निसाद मूर्च्छा: ॥३॥
पवनादिषु दुस्तराष्ट रोगान्‍ सकलं पित्तहरं मदावृतं च । बहुना किमसौ यथार्थनामा सकलव्याधिहरो मदेभसिंह: ॥४॥
अथ प्रवालपञ्चामृतरस: ॥ प्रवालमुक्ताफलशड्खशुक्तिकपर्दिकानां च समांशभागम्‍ । प्रवालमात्रं द्विगुणं प्रयोज्यं सर्वै: समांशं रविदुग्धमेव ॥१॥
एकीकृतं तत्खलु भाण्डमध्ये क्षिप्त्वा मुखे बन्धनमत्र योज्यम्‍  । पुटं विदध्यादतिशीतले च उद्‍धृत्य तद्भस्य क्षिपेतकरण्डे ॥२॥
नित्यं द्विवारं प्रतिपाकयुक्तं वल्लप्रमाणं हि नरेण सेव्यम्‍ । आनाहगुल्मोदरप्लीहकासश्वासाग्निमान्द्यान्‍ कफमारुतोत्थान्‍ ॥३॥
अजीर्णमुद्गारहृदायघ्नं ग्रहण्यतीसारदिकारनाशनम्‍ ॥४॥
मेहामयं मूत्ररोगं मूत्रकृच्छ्रं तथाश्मरीम्‍ । नाशयेन्त्रात्र सन्देह: सत्यं गुरुवचो यथा ॥५॥
पथ्याश्रितं भोजनमादरेण समाचरेन्निर्मलचित्तवृत्या । प्रवालपञ्चामृतनामधेयो योगोत्तम: सर्वगदापहारी ॥६॥
इति रसा: ॥
॥ अथ पथ्यापथ्यम्‍ ॥
संवत्सरसमुप्तन्ना: कलमा रक्तशालय: । खण्डं कुलत्थयूषश्च धन्वमांसरस: सुरा: ॥१॥
गवामजायाश्च पयो मृद्वेका च परुषकम्‍ । तक्रमेरण्डतैलं च लशुनं बालमूलकम्‍ ॥२॥
पत्तूरो वास्तुकं शिग्रु मातुलुड्गं हरीतकी । वातानुलोमनं चैव पथ्यं गुल्मे नृणां भवेत्‍ ॥३॥
माषादय: शिम्बिधान्ये शूकधान्ये यवादय: । वल्लूरं मूलकं मच्छं मधुराणि फलानि च ॥४॥
अधोवायुशकृन्मूत्रश्रमश्वासाश्रुधारणम्‍ । वमनं जलपानं च गुल्मरोगी परिस्यजेत्‍ ॥५॥
इति पथ्यापथ्यम्‍ ॥ इति गुल्मरोगचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T19:15:39.4830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

braker arm

  • वियोजी भुज, भंग भुज 
  • (cam actuated arm in distributor) 
RANDOM WORD

Did you know?

Why the marriages are prohibited within same Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.