TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ कुष्ठनिदानम् ॥

॥ अथ कुष्ठनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ कुष्ठनिदानम् ॥
॥ अथ कुष्ठनिदानम्‍ ॥
विरोधीन्यन्नपानानि द्रवस्निग्धगुरुणि च । भजतामागतांश्छर्दिवेगांश्चान्यान्प्रतिघ्नताम्‍ ॥१॥
व्यायाममग्निसन्तापमतिभुक्त्वा निषेविणाम्‍ । शीतोष्णलड्घनाहारान्‍ क्रमं त्यक्त्वा निषेविणाम्‍ ॥२॥
घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम्‍ । अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्‍ ॥३॥
नवान्नदधिमत्स्याम्ललवणातिनिषेविणाम्‍ । माषमूलकपिष्टान्नतिलक्षारगुडाशिनाम्‍ ॥४॥
व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा । विप्रान्गुरुन्धर्षयतां पापं वा कर्म कुर्वताम्‍ ॥५॥
पाप्मभि: कर्मभि: सद्य: प्राक्तनैश्चेरिता मला: । वातादयस्त्रयो दोषास्त्वग्रक्तं मांसमम्बु च ॥६॥
दूषयन्ति सकुष्ठानां सप्तको द्रव्यसड्ग्रह: । त्वच: कुर्वन्ति वैवर्ण्य़ं दुष्टा: कुष्ठमुशन्ति तत्‍ ॥७॥
अत: कुष्ठानि जायन्ते सप्त चैकादशैव तु । कुष्ठानि सप्तधा दोषै: पृथग्द्वन्द्वै: समागतै: ॥८॥
सर्वेष्वपि त्रिदोषत्वं व्यपदेशोऽधिकत्वत: । अतिश्लक्ष्ण: खरस्पर्श: स्वेदास्वेदौ विवर्णता ॥९॥
दाह: कण्डूस्त्वचि स्वापस्तोद: कोष्ठोन्नति: श्रम: । व्रणानामाधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थिति: ॥१०॥
रुढानामतिरुक्षत्वं निमित्तेऽकल्पे कोपनम्‍ । रोमहर्षोऽसृज: कार्ष्ण्यं कुष्ठलक्षणमग्रजम्‍ ॥११॥
तत्र कपालकुष्ठमाह ॥ कृष्णारुणं कपालाभं यद्रूक्षं परुषं तनु । कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्‍ ॥१॥
अथोदुम्बरमाह ॥ रुग्दाहरागकण्डूभि: परीतं रोमपिञ्जरम्‍ । उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत्‍ ॥१॥
अथ मण्डलकुष्ठमाह ॥ श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्‍ । कृच्छ्रमन्योन्यसंयुक्तं कुष्ठंमण्डलमुच्यते ॥१॥
अथर्ष्यजिह्वमाह ॥
कर्कशं रक्तपर्यंन्तंमत: श्यावं सवेदनम्‍ । यदृष्यजिह्वासंस्थानमृष्यजिह्वं सदुच्यते ॥१॥
अथ पुण्डरीकमाह ॥ सुश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम‍ । रक्तान्तर्दाहकण्ड्वाढ्यं चितं पद्ममिवांशुभि: ॥ सोत्सेधं च सरागं च पुण्डरीकं प्रवक्षते ॥१॥
अथ सिघ्मकुष्ठमाह ॥ सितं ताम्रं तनु च यद्रजो घृष्टं विमुजञ्चति ॥ प्रायश्चोरसि तत्सिध्ममलाबुकुसुमोपमम्‍ ॥१॥
सदाहमस्पर्शसहं सपाकं तीव्रवेदनम्‍ ॥१॥
यत्काकणन्तिकावर्णं सपाकं तीव्रवेदनम्‍ । त्रिदोषलिड्गं तत्कुष्ठं काकणं चैव सिध्यति ॥२॥
इति सप्त महाकुष्ठानि ॥ अथैकादश क्षुद्रकुष्ठानि ॥ तत्र चर्मकुष्ठमाह ॥ अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्‍ । तदेककुष्ठं चर्माख्यं बहुलं हस्तिचर्मवत्‍ ॥१॥
अथ किटिभमाह ॥ श्यावं किणखरस्पर्शं परुषं किटिभं मतम्‍ ॥१॥
अथ वैपादिकमाह ॥ वैपादिकं पाणीपादस्फुटनं तीव्रवेदनम्‍ ॥१॥
अथालसकमाह ॥ कण्डुमद्भि: सरागैश्च गण्डैरलसकं वदेत्‍ ॥१।
अथ कण्डुमण्डलमाह ॥ सकुण्डुरागपिटिकं दद्रुमण्डलमुद्गतम्‍ ॥१॥
अथ चर्मदलमाह ॥ रक्तं सशूलं कण्डूमत्‍ सस्फोटं हलयत्यपि । तच्चर्मदलमाख्यतमस्पर्शसहमुच्यते ॥१॥
अथ पामामाह ॥ सूक्ष्मा बहव्य: पीटिका: स्त्राववत्य: पामेत्युक्ता: कण्डुमत्य: सदाहा: । सैव स्फोटैस्तीव्रदाहैरुपेता ज्ञेया पाण्यो: कच्छुरुग्रा स्फिजोश्च ॥१॥
अथ विस्फोटमाह ॥ स्फोटा: श्यावारुणाभासा विस्फोटा: स्युस्तनुत्वच: ॥१॥
अथ रकसमाह ॥ कण्डूचिता या पिटिका शरीरे संस्त्राव्यमाना रकसोच्यते च ॥१॥
अथ शतारुमाह ॥ रक्तं श्यावं सदाहार्ति शतारु:स्याद्वहुव्रणम्‍ ॥१॥
विचर्चिकामाह ॥ सकुण्डु: पिटिका श्यावा बहुस्त्रावा विचर्चिका । पाण्डुरं श्वित्रमित्युक्तं सस्त्रावं कण्डुसंयुतम्‍ ॥ अनग्निदग्धजं साध्यं श्विन्नं वर्ज्यमतोऽन्यथा ॥१॥
कुष्ठानां दोषत्रयस्य नियतलिड्गमाह ॥ खरं श्यावारुणं रुक्षं वातकुष्ठं सवेदनम्‍ । पितात्प्रकुपितं दाहरागस्त्रावान्वितं मतम्‍ ॥१॥
कफात्क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम्‍ द्विलिड्गं द्वन्द्वजं कुष्ठं त्रिलिड्गं सान्निपातिकम्‍ ॥ स्पर्शहानि: सखेदत्वमीषपत्कण्डूश्च जायते ॥२॥
इदानीमुत्तरोत्तरं सप्तधातुगतकुष्ठलक्षणं क्रमेणोच्यते ॥ तत्रादौ रसगतमाह ॥ त्वकस्थे वैवर्ण्यमडगेषु कुष्ठे रौक्ष्यं च जायते । त्वक्स्वापो रोमहर्षश्च स्वेदस्यापि प्रवर्तनम्‍ ॥१॥
रक्तगतमाह ॥ कण्डूर्विपूयकस्श्वैव कुष्ठे शोणितसंश्रिते ॥१॥
मांसगतमाह ॥ बाहुल्यं वक्रशोषश्च कार्कश्यं पिटिकोद्गम: । तोद: स्फोट: स्थिरत्वं च कुष्ठे मांससमाश्रिते ॥१॥
मेदोगतमाह ॥ दौर्गन्ध्यं गात्रदोषश्च पूयोत्थकृमयस्तथा ॥ गात्राणां भेदनं चापि कुष्ठे मेदस्समाश्रिते ॥१॥
कौण्यं गतिक्षयोऽड्गानां संभेद: क्षतसर्पणं । मेद:स्थानगते लिड्गं प्रागुक्तानि तथैव च ॥२॥
अस्थिमज्जाद्वयगतमाह ॥ नासाभड्गोऽक्षिरागश्च क्षतेषु क्रिमिसंभव: । स्वरोपघातश्च भवेदस्थिमज्जासमाश्रिते ॥१॥
शुक्रगतमाह ॥ दम्पत्यो: कुष्ठबाहुल्याद्दुष्टशोणीतशुक्रयो: । यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम्‍ ॥१॥
इति सप्तधातुगतानि कुष्ठानि ॥ अथ साध्यमाह ॥ साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकं च यत्‍ ॥१॥
अथ कृच्छम्‍ ॥ मेदोगं द्वन्द्वजं याप्यम्‍ ॥ असाध्यम्‍ ॥ वर्ज्यं मज्जास्थिसंश्रितम्‍ ॥१॥
पुनरसाध्यलक्षणम्‍ ॥ कृमिकृद्दाहमन्दाग्निसंयुक्तं यत्रिदोषजम्‍ । प्रभिन्नं प्रस्त्रुताड्गं च रक्तनेत्रं हतस्वरम्‍ ॥१॥
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम्‍ ॥ कुष्ठेषु चिकित्सार्थं दोषप्राधान्यमाह ॥ वातेन कुष्ठं कापालं पित्तादौम्बरं कफात्‍ ।
मण्डलाख्यं विचर्ची च ऋष्याख्यं वातपित्तजम्‍ ॥१॥
चर्माख्यकुष्ठं किटिभं सिध्मालसविपादिका: वातश्लेष्मोद्भवा: श्लेष्मपित्ताद्दद्रुशतारुपी ॥२॥
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा । सर्वै: स्यात्काकणं पूर्वं त्रिकं दद्रु: सकाकण: ॥२॥
पुण्डरीकमृष्यजिह्वे महाकुष्ठानि सप्त तु ॥ अथ स्वित्रमाह ॥ कुष्ठैकसंभवं स्वित्रं किलासं दारुणं च यत्‍ ॥ निर्दिष्टमपरिस्त्रावि त्रिधातुद्भवसंश्रयम्‍ ॥१॥
वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवैत्‍ । सदाहं लोमविध्वंसि कफाच्छ्वेतं घनं गुरु ॥२॥
सकुण्डरं क्रमाद्रक्तमांसमेदस्सु चादिशेत्‍ । वर्णेनैवेदमुभयं कृच्छ्रं तच्चोतरोत्तरम्‍ ॥३॥
अथ तस्य साध्यासाध्यत्वमाह ॥ अशुक्ललोमाबहुलमसंसृष्टमथो नवम्‍ । अनग्रिदग्धजं साध्यं श्वित्रं वर्ज्यमत्तोऽन्यथा ॥१॥
गृह्यपाणितलोष्ठेषु जातमप्यचिरन्तरम्‍ । वर्जनीयं विशेषण किलासं सिद्धिमिच्छिता ॥२॥
स्पर्शैकाहारशय्यादिसेवनात्प्रायशो गदा: । सर्वे सञ्चारिणो नेत्रत्वग्विकारा विशेषत: ॥३॥
कुष्ठादिसंसर्गजान्‍ रोगानाह ॥ प्रसंगाद्गात्रसंस्पर्शान्नि:श्वासात्सहभोजनात्‍ । सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात्‍ ॥१॥
कुष्ठं ज्वरश्च शोयश्च नेत्राभिष्यन्द एव च । औपसर्गिकरोगाश्च संक्रामन्ति नरान्तरम्‍ ॥२॥
मरणं यदि कुष्ठेन पुनर्जातस्य तद्भवेत्‍ । नातो निद्यतरो रोगो यथा कुष्ठं प्रकीर्तितम्‍ ॥३॥
इति कुष्ठनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु । पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं विहितम्‍ ॥१॥
प्रभूतं वा जलौकाभि: शृड्गालाबुशिराव्यधै: । सिग्धस्य मोक्षयेद्रक्तं दुष्टं कुष्ठे पुन: पुन: ॥२॥
स्त्रुते रक्ते हृते दोषे स्नेहै: संशमितेऽनिले । रसायनानि प्रागाश्च प्रशस्ता: कुष्ठिनां मता: ॥३॥
अथ वमनम्‍ ॥ यववासापटोलानां निम्बस्य फलिनीत्वच: । कषायो मधुना पीतो वान्तिकृन्मदनान्वित: ॥१॥
इति वमने पञ्चकषाय: ॥ अथ विरेचनम्‍ ॥ प्रतिपक्षं च वमनं कुष्ठे लेपं त्र्यहाच्चरेत्‍ ॥१॥
अथ लेप: ॥ पथ्याकारञ्जसिद्धार्थनिशावल्गुजसैन्धवै: । विडड्गसहितै: पिष्टैर्लेपमात्रेण कुष्ठजित्‍ ॥१॥
एलाकुष्ठविडड्गानि मरिचानि तैलमार्कं पय: कुष्ठहर:प्रदेह: । करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टश्च पर: प्रदेह: ॥३॥
बलिवेल्लाग्निमल्लातदन्तीशम्याकनिम्बकै: । काञ्जिकै: पेषितैर्लेप: श्वेतकुष्ठविनाशकृत्‍ ॥४॥
श्वेतकरवीरमूलं कुटजकरञ्जत्वचो दार्व्या: । सुमन:प्रवालयुक्तो लेप: कुष्ठापह: सिद्ध: ॥५॥
शैलेयकम्पिल्लकयष्टिसाह्वसौराष्ट्रिका सर्जरसोपलानि । शिला च चूर्णो नवनीतयुक्त: कुष्ठे स्त्रवत्यभ्यधिक: विनश्यति ॥७॥
अथ क्वाथा: ॥ गुडूचीत्रिफलादार्वीक्वाथ उष्णैश्च वारिभि: । त्वग्दोषव्रणशोफग्न: पीतो मासं सगुग्गुलु: ॥१॥
खदिरत्रिफलानिम्बपटोलामृतवासकै: । अष्टकोऽयं जयेत्कुष्ठकण्डूविस्फोटकानपि ॥२॥
अथ महाकषाय: ॥ शुण्ठीनिम्बकिराततिक्तककणापाठाहरिद्गाद्वयं त्रायन्तीत्रिफलामृताब्जकटुकावासावचाबाकुची ।
मञ्जिष्ठातिविषादुरालभमहानिम्बाग्रिषड्‍ग्रन्थिकाव्याधिघ्नागजचिर्भिटा सकुटजा भार्गी तमुस्ता यवा ॥१॥
मूर्वा चैव पटोलपत्रसहिता रक्तं तथा चन्दनं श्यामा पर्पटसारिवा कृमिहरा गायत्रिकासंयुता । गोमूत्रेण महाकषायमरूनोद्भूतं पिबेद्य: पुमांस्तस्याष्टादश यान्ति नाशमचिरात्कुष्ठानि दुष्टान्यपि ॥२॥
अथ नवकषाय: ॥ त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी । एष कषायोऽभ्यस्तोनिहन्ति कफपित्तजं कुष्ठम्‍ ॥१॥
इति क्वाथा: ॥ अथ खदिरोदकम्‍ ॥ प्रलेपोद्वर्तनस्नानपानभोजनकर्मसु । शीलितं खादिरं वारि सर्वत्वगदोषनाशनम्‍ ॥१॥
दह्यमानाद्युत:कुम्भे समूलखदिराद्रस: । साज्यधात्रीरस: क्षौद्रो हन्याकुष्ठं रसायनम्‍ ॥२॥
अथ निम्बादिकल्क: ॥ निम्बपत्रशतं पिष्ट्वा निम्बामलकमेव च । विडड्गबाकुचीकल्कं पिबेदाकुष्टनाशनम्‍ ॥१॥
अथ चूर्णानि ॥ तत्रादौ पञ्चनिम्बचूर्णम्‍ ॥ पिचुमन्दफलं पुष्पं त्वक्पत्रं मूलमेव च ॥ पञ्चैतानि च सूक्ष्माणी समचूर्णानि कारयेत्‍ ॥१॥
अष्टभागावशेषेण खदिरासनवारिणा । भावयित्वा तु संयोज्य द्रव्याण्येतानि दापयेत्‍ ॥२॥
चित्रकोऽथ विडड्गानि व्याधिघातकशर्करा: । भल्लातकहरीतक्यौ शुण्ठ्यामलकगोक्षुरा: ॥३॥
चक्रमर्दकबाकूचीइप्पलीमरिचं निशा । लोहचूर्णसमायुक्तं समभागं प्रमाणत: ॥४॥
भावयेद्‍भृड्गराजेन पुन: शुष्काणि कारयेत्‍ । निम्बार्धचूर्णमेतेषामेकीकृत्य निधापयेत्‍ ॥५॥
बिडालपदमात्रं तु सर्पिषा पयसापि वा । प्रात: प्रातर्निषेवेत खदिरासनवारिणा ॥६॥
परिहारो न चात्रास्ति पञ्चनिम्बेऽवतिष्ठति । मासमात्रप्रयोगेण कुष्ठं हन्ति रसायनम्‍ ॥७॥
त्वग्दोषनीलिकाव्यड्गं तथैव तिलकालकान्‍ ॥ अष्टादशविधं कुष्ठं सप्त चैव महाक्षयात्‍ । सर्वव्याधिविनिर्मुक्तो जीवेद्वर्षशतं मुखी ॥८॥
अथोद्‍धूलने सर्पपादिचूर्णम्‍ ॥ सर्षाकरञ्जरजनीदारुनिशादारुञ्जिष्ठा: । त्रिफलाशटीपटीरश्वेतामूर्वाप्रियड्गुका: ॥१॥
त्रिकटुश्वापि त्रिगन्धकेसरलाक्षाश्चषां कृतं रज: श्लक्ष्णम्‍ । उद्‍धूलनेन रक्तजपित्तजवातोत्थितं वापि ॥ निस्तोदभेदपिटिकं कुष्ठं स्फुटनं विनाशयति ॥२॥
अथ विडड्गादिचूर्णम्‍ ॥ विडड्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम्‍ । हन्ति कुष्ठं कृमीन्मेहान्नाडीदुष्टमगन्दरात्‍ ॥१॥
इति चूर्णानि ॥ अथ गुटिका: तत्रादौ सर्वाड्गसुन्दरी गुटिका ॥ भल्लातसहस्त्रैकं त्रिफलावारिणि क्षिपेत्‍ । द्रोणमात्रे पचेत्तावद्यावत्पादवशेषितम्‍ ॥१॥
शर्कराया दश पलान्येकं बाकुचिकापलम्‍ तथैवात्रैव देयानि पलानि दश गुगुलो: ॥२॥
खदिरारिष्टमञ्जिष्ठाबीजकं चेन्द्रवारूणी । चित्रकं द्वे हरिर्द्रे च देवदारु हरीतकी ॥३॥
भार्गी वचेति सर्वेषां प्रत्येकं च पलार्धकम्‍ । प्रक्षिप्य गुटिका कार्या नाम्ना सर्वाड्गसुंदरी ॥४॥
प्रत्यहं भक्षयेत्कुष्ठी त्वेतां बदरमात्रया । सर्वाण्येवोग्रकुष्ठानि शीघ्रमेव व्यपोहति ॥५॥
अथ त्रिफलागुटिका ॥ त्रिफलारुष्करलोहै: स्त्रावल्गुजभृड्गलाड्गलीव्योषै: । सगुडैर्वराहकन्दै: पलिकैरेकत्रं संमिश्रै: ॥१॥
गुटिकां प्रकल्प्य खादेदेकैकामक्षसंमितां प्रात: । कुष्ठं दद्रुकिलासं जित्वा वर्षेण सर्वथा पलितम्‍ ॥ जीवति वर्षशतं वै दीप्तहुताशो युवेव सोत्साह: ॥२॥
अथैकविंशतिको गुग्गुल: ॥ चित्रकत्रिफलाव्योषमजाजीकारवीवचा: । सैन्धवातिविषा कुष्ठं चव्यैलायावशूकजम्‍ ॥१॥
विडड्गान्यजमोहा च मुस्तान्यमरदारु च । यावन्त्येतानि सर्वाणि तावन्मात्रस्तु गुग्गुलु: ॥२॥
संकुट्य सर्पिषा सार्धं गुटिकां कारयेद्भिषक्‍ । प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम्‍ ॥३॥
हन्त्यष्टादश कुष्ठानि कृमिदुष्टव्रणानपि । ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान्‍ ॥४॥
गृधसीमथ भग्नं च गुल्मं चापि नियच्छति । व्याधीन्कोष्ठगतांश्चान्याञ्जयेद्विष्णुरिवामुरान्‍ ॥५॥
अथ त्रिफलामोदक: ॥ त्रैफलस्य तु चूर्णस्य पलानि दश पञ्च च । सप्त चिअव विडड्गानां लोहचूर्णं पलद्वयम्‍ ॥१॥
शतं भल्लातकानां च पलानि दश बाकुची । शिलाजतु पलार्धं तु द्वे पले गुग्गुलोस्तथा ॥२॥
पलं पुष्करमूलस्य पलार्धं त्रिवृतस्य च । सचित्रकं समरिचं पिप्पलीविश्वभेषजम्‍ ॥३॥
त्वकपत्रं कुड्कुमं मुस्ता कार्षिकानुपकल्पयेत्‍ । यावन्त्येतानि चूर्णानि तावत्खण्डं प्रदापयेत्‍ ॥४॥
पलिकान्‍ मोदकान्कृत्वा प्रातरुत्थाय नित्यश: । एकैकं भक्षयेत्प्राज्ञो यथेष्टं चात्र भोजनम्‍ ॥५॥
कुष्ठान्यष्टादशापीह प्लीहगुल्मभगन्दरान्‍ । अशीतिं वातजान्‍ रोगांश्चत्वरिंशच्च पैत्तिकान्‍ ॥६॥
विंशतिं श्लैष्मिकांश्चापि संसृष्टान्सान्निपातिकान्‍ । शालक्यगतरोगांश्च शिरोऽक्षिभ्रूगतांस्तथा ॥७॥
कण्ठतालुगतांश्चापि जिह्वायामुपजिह्वकम्‍ । ऊर्ध्वजत्रुगते रोगे भुक्तस्योपरि दापयेत्‍ ॥८॥
शारीरे दापयेत्पूर्वमौदरे मध्यभोजने । निर्दिष्टरोगाञ् शमयेत्‍ क्रियमाणं रसायनम्‍ ॥९॥
अथावलेहा: ॥ तत्रादौ भल्लातकावलेह: ॥ निम्बगोपारुणाकट्वीत्रायन्तीत्रिफलाघनम्‍ । पपर्टावल्गुजानन्तावचाखदिरचन्दनम्‍ ॥१॥
पाठा शुण्ठी शटी भार्गी वासा भूनिम्बवत्सकम्‍ । श्यामेन्द्रवारूणीमूर्वाविडड्गातिविषानलम्‍ ॥२॥
हस्तिकर्णामृन्ताब्दाह्वं पतोलं रजनीद्वयम्‍ । कृष्णारग्वधसप्ताह्वशिरिषं चोच्चटाफलम्‍ ॥३॥
मञ्जिष्टालाड्गली रास्त्रा नक्तमाल: पुनर्नवा । दन्ती बीजकसारश्च भृड्गराजकुरण्टकम्‍ ॥४॥
एतान्‍ द्विपलिकान्भागाञ् जलद्रोणे विपाचयेत्‍ । अष्टभावावशिष्टं च कषायमवतारयेत्‍ ॥५॥
भल्लातकसहस्त्राणि क्षिपेच्छित्वार्मणेऽम्भसि । चतुर्भागावशिष्टं तु कषायमवतारयेत्‍ ॥६॥
तौ कषायौ समादाय वस्त्रपूतौ तु कारयेत्‍ । एकीकृत्य कषायौ तौ पुनरग्रावधिश्रयेत्‍ ॥७॥
गुडस्यैकतुलां दत्वा लेहवत्स्त्राधयेद्भिषक्‍ । भल्लातकसहस्त्रस्य तत्र बीजानि दापयेत्‍ ॥८॥
त्रिकटु त्रिफला मुस्तं विडड्गं चित्रकं तथा । चन्दनं सैन्धवं कुष्ठं दीप्यकं च पलं पलम्‍ ॥९॥
चातुर्जातं च सजञ्‍रुर्ण्य घृतभाण्डे निधापयेत्‍ । सौगन्धिकस्य दातव्यं चूर्णं पलचतुष्टयम्‍ ॥१०॥
महाभल्लातको ह्येष महादेवेन निर्मित: । प्राणिनां तु हितार्थाय नाशयेच्छीघ्रमेव च ॥११॥
श्वित्रमौदुम्बरं दद्रुमृष्यजिह्वं सकालकम्‍ । पुण्डरीकं च चर्माख्यं विस्फोटं रक्तमण्डलम्‍ ॥१२॥
कृच्छ्रं कापालिकं कुष्ठं पामां चापि विपादिकाम्‍ । वातरक्तमुदावर्तं पाण्डुरोगं वमीन्कृमीन्‍ ॥१३॥
अर्शांइ षट्‍प्रकाराणि श्वासं कासं भगन्दरम्‍ । अनुपानेन दातव्यं छिन्नातोयेन तं भिषक्‍ ॥१४॥
भोजनेन सदा योज्यमुष्णं चाम्लं विशेषत: । अन्यान्यपि च कुष्ठानि नाशयेन्नात्र संशय: ॥१५॥
इति महाभल्लातकावलेह: ॥ अथ शशाड्कलेखादिलेह: ॥ शशाड्कलेखा सविडड्गसारा सपिप्पलीका सहुताशमूला । सायोमला सामलकासतैला सर्वाणि कुष्ठानि निहन्ति लीढ्वा ॥१॥
अथ धात्र्यवलेह: ॥ धात्र्यक्षपथ्यासविडड्गवह्निभल्लातकावल्गुजलोहभृड्गा: । भागभिवृद्धैस्तिलतैलमिश्रै: सर्वाणि कुष्ठानि निहन्ति लेह: ॥१॥
अथ घृतानि ॥ तत्रादौ तिक्तषटपलं घृतम्‍ ॥ निम्बं पटोलदार्व्यौ दुरालभां तिक्तरोहिणीं त्रिफलाम्‍ । कुर्यादर्धपलांशान्पर्पटकं त्रायमाणां च ॥१॥
सलिलाढकसिद्धानां रसेऽभृष्टभागस्थिते पूते । चन्दनकिराततिक्तकमागधिका त्रायमाणं च ॥२॥
मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान्‍ भागान्‍ । नवसर्पिषश्च षटपलमेतत्सिद्धं घृतं पेयम्‍ ॥३॥
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयन्हन्ति । पामाविसर्पपिटिकाकण्डूगण्डव्रणान्सिद्धम्‍ ॥४॥
अथ पञ्चतिक्तं घृतम्‍ ॥ निम्बं पटोलं व्याघ्रीं च गुडूचीं वासकं तथा । कुर्याद्दशपलान्भागानैकैकस्य सुकुट्टितान्‍ ॥१॥
जलद्रोणे विपक्तव्यं यावत्पादावशेषितम्‍ । घृतप्रस्थं पचेत्तेन त्रिफलागर्भसंयुतम्‍ ॥२॥
पञ्चतिक्तमिति ख्यातं सर्पि: कुष्ठविनाशनम्‍ । अशीतिं वातजान्‍ रोगांश्चत्वारिंशच्च पैत्तिकान्‍ ॥३॥
विंशतिं श्लैष्मिकांश्वैव पानादेवापकर्षति । दुष्टव्रणकृमीनर्श:पञ्चकासांश्च नाशयेत्‍ ॥४॥
अथ महातिक्तकं घृतम्‍ ॥ सप्तच्छदं प्रतिविषां शम्याकं तिक्तरोहिणीं पाठाम्‍ । मुस्तामुशीरं त्रिफलां पटोलं पिचुमन्दपर्पटकम्‍ ॥१॥
धन्वयवासकचन्दनमुपकुल्यापद्मकरजन्यौ च । षड्‍ग्रन्थां सविशालां शतावर्या सारिवे चोभे ॥२॥
वत्सकबीजं वासां मूर्वाममृतां किराततिक्तं च । कल्कान्कुर्यान्मतिमान्‍ यष्ट्याह्वं त्रायमाणं च ॥३॥
कल्कस्य चतुर्थभागो जलमष्टगुणं रसोऽमृतफलानाम्‍ । द्विगुणो घृतात्प्रदेयस्तत्सर्पि: प्राशयेत्सिद्धम्‍ ॥४॥
कुष्ठानि रक्तपित्तं प्रबलान्यर्शांसि रक्तवाहीनि । वीसर्पमम्लपित्तं वातासृक्‍ पाण्डुरोगं च ॥५॥
विस्फोटकान्स पामानुन्मादं कामलां ज्वरं कण्डुम्‍ । हृद्रोगगुल्मपिटिकां भगन्दरं गण्डमालां च ॥६॥
हन्यादेतत्सद्य: पीतं काले यथाबलं सप्रि: । योगशतैरप्यजितान्महाविकारान्महातिक्तम्‍ ॥७॥
अथ महाखदिरघृतम्‍ ॥ खदिरस्य तुला: पञ्च शिंशपासनयोस्तुले । तुलार्धं सर्व एवैते करञ्जारिष्टवेतसा: ॥१॥
पर्पट: कुटजश्वैव वृष: कृमिहरस्तथा । हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्‍ ॥२॥
सप्तपर्णश्च संक्षुण्णो दशद्रोणे तु वारिणि । अष्टभागावशेषं तु कषायमवतारयेत्‍ ॥३॥
धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्‍ । महातिक्तकल्कैस्तु यथोक्तै: पलसंमित: ॥४॥
निहन्ति सर्वकुष्ठानि पानाभ्यड्गनिषेवणात्‍  महाखदिरमित्येतत्परं कुष्ठविकारनुत्‍ ॥५॥
अथ तैलानि ॥ अथ चित्रकादितैलम्‍ ॥ शुभ्रस्य करवीरस्य रसो वेल्लं च चित्रकम्‍ । त्रिभिश्च पाचितं तैलमभ्यड्गात्‍ कुष्ठजातिनुत्‍ ॥१॥
अथ वज्रतैलम्‍ ॥ सप्तवर्णकरञ्जार्कमालतीकरवीरजा: । मूलं स्नुहीशिरीषाभ्यां चित्रकास्फोटयोरपि ॥१॥
करञ्जबीजं त्रिफलां त्रिकटुं रजनीद्वयम्‍ । सिद्धार्थकं विडड्गं च प्रपुन्नाटं च संहरेत्‍ ॥२॥
मूत्रपिष्टै: पचेत्तैलमेभि: कुष्ठविनाशनम्‍ । अभ्यड्गाद्वज्रकं नाम नारीदुष्टव्रणापहम्‍ ॥३॥
अथ मञ्जिष्ठाद्यं तैलम्‍ ॥ मञ्जिष्ठारुग्‍निशाचक्रमर्दारग्वधपल्लवै: ॥ तृणकस्वरसे सिद्धं तैलं कुष्ठहरं परम्‍ ॥१॥
इति तैलानि ॥ अथासवा: ॥ तत्रादौ खादिरासव: ॥ खादिरस्य तुलार्धं तु तत्तुल्यं देवदार्वपि । वराया विंशतिर्दार्व्या: पलानां पञ्चविंशति: ॥१॥
बाकुच्या द्वादश पलान्यष्टद्रोणेऽम्भस: पचेत्‍ । द्रोणशेषे कषाये तु पूतशेषे विनिक्षिपेत्‍ ॥२॥
धातक्या विंशतिपलं माक्षिकस्य शतद्वयम्‍ । शर्करायास्तुलाभेकां चूर्णानीमानि दापयेत्‍ ॥३॥
कक्कोलकं लवड्गं च एलाजातीफलत्वचम्‍ । केशरं मरिचं पत्रं पलिकान्युपकल्पयेत्‍ ॥४॥
पिप्पलीनां तु कुडवं स्थापयेद्‍ घृतभाजने । मासादूर्ध्वं पिबेन्मात्रामनपेक्ष्य बलाबलम्‍ ॥५॥
सर्वकुष्ठहरो ह्येष पाण्डुहृद्रोगकासनुत्‍ । कृमिग्रन्थ्यर्बुदग्रन्थिगुल्मप्लीहोदरान्तकृत्‍ । एष वै खदिरारिष्ट: कृष्णात्रेयेण पूजित: ॥६॥
अथ कनकारिष्ट: ॥ खदिरकषायं द्रोणं सर्पि:कुम्भे निधापयेन्मध्ये । पलिकामात्रान्‍ क्षेप्यान्‍ कृत्वा तु तानेव सूक्ष्मचूर्णं तु ॥१॥
त्रिफला त्रिकटुकरजनी कनकत्वग्‍ बाकुची गुडूची च । सविड्ड्गमत्र मधुपलशतद्वयं प्रक्षिपेत्सर्वरम्‍ ॥२॥
धातक्याश्च पलान्यष्टौ क्वाथेऽस्मिन्प्रदेयानि । प्रात: प्रातस्तु पिबेन्नाशयति चिरोत्थितं कुष्ठम्‍ ॥३॥
मासेन सर्वरोगान्विनिहन्ति च सर्वशोफमेहांश्च । निर्जितकासश्वासो गुदकीलभगन्दरैर्विमुक्त: । कनकारिष्टं प्रपिबन्भवति पुमान्कनककान्तिश्च ॥४॥
इत्यासवा: ॥ अथ दद्रुचिकित्सा ॥ कासमर्दकमूलानि सौवीरेण तु पेषयेत्‍ । दद्रुकिटिभकुष्ठानि जयेदेतत्प्रलेपनात्‍ ॥१॥
बीजानि वा मूलकसर्षपाणां लाक्षारजन्यौ प्रपुनाटबीजम्‍ । श्रीवेष्टकं व्योषविडड्कुष्ठं पिष्ट्वा च मूत्रेण विलेपनं स्यात्‍ ॥ दद्रूणि सिध्मं किटिभानि पामां कपालकुष्ठं विशमं च हन्यु: ॥२॥
आरग्वधस्य पत्राणि आरनालेन पेषयेत्‍ ॥ दद्रुकिटिभकुष्ठानि हन्ति सिध्ममसंशय: ॥३॥
प्रपुन्नाटस्य बीजानि धात्री सर्जरस: स्नुही । सौवीरपिष्टं दद्रूणामेतदुद्वर्तनं परम्‍ ॥४॥
दूर्वाभयासैन्धवचक्रमर्दकुठेरिकाकाञ्जिकतक्रपिष्ठा: । त्रिभि: प्रलेपैरपि बद्धमूलं दृढं च कण्डू च विनाशयन्ति ॥५॥
विडड्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपै: । धान्याम्लपिष्टैर्लेपो‍ऽयं दद्रुकुष्ठनिषूदन: ॥६॥
अथ लघुमरिचाद्यं तैलम्‍ ॥ मरिचालशिलाब्दार्कपयो‍ऽश्वारिजटात्रिवृत्‍ । शकृद्रसविशालारुग्निशायद्गारुचन्दनै: ॥१॥
कटुतैलं पचेत्प्रस्थं व्द्यक्षे विषपलान्विते । सगोमूत्रं तदभ्यड्गाद्‍ दडुश्वित्रविनाशकृत्‍ ॥२॥
अथ दरदादिलेप: ॥ दरदगन्धकपारदपिप्पलीविषड्गनिशाग्निमरीचकम्‍  । अभयशुण्ठिघनाब्धिकबाकुचीकटुनृपद्रुममेडगजान्वितम्‍ ॥१॥
सममिदं खलु निम्बरसैर्युतं हरति दद्रुजकण्डुविसर्पकान्‍ । हरति लूतभगन्दरमण्डलं तनुविलिप्तमहो क्षणतो नृणाम्‍ ॥२॥
इति दरदादिलेप: ॥ इति दद्रुचिकित्सा ॥ अथ चर्माख्यचिकित्सा ॥ सूतगन्धकयो: पिष्ट्वा कज्जलिकां विधाय च । मृक्षकेन विमर्द्याथ करित्वग्लेपने हितम्‍ ॥१॥
कबाबगौरीगदतुत्थजीरवल्लीभवं कर्षमिदं पृथक्‍ च । शिलाबलीतौ रविकर्षसख्यौ सार्धो विभाग: किल पारदस्य ॥२॥
कर्षैश्च विंशत्प्रमितैर्घृतस्य सर्वं विमर्द्यं किल ताम्रपात्रे । ततोऽड्गलेपात्‍ त्रिदिनं च तीव्रां हरेच्च रोगी गजकर्णपामाम्‍ ॥३॥
गुञ्जाचित्रकसड्खभस्मरजनीदूर्वाभयालाड्गलीस्नुक्‍सिन्धूत्थकुमारिकाजलधरार्कक्षीरधूमेशजै: । वल्गूएडगजाविडड्गमरिचक्षौद्रेश्च खारीयुतै: कार्यं वै गजचर्म दद्रुरकसाकण्डुघ्नमुद्वर्तनम्‍ ॥४॥
आरग्वधदलै: पिष्टैर्लेप: काञ्जिकयुक्‍ कृत: । करित्वग्‍दद्रुकुष्ठानि हन्ति पामां विचर्चिकाम्‍ ॥५॥
इति चर्माख्यचिकित्सा ॥ अथ किटिभचिकित्सा ॥ चक्राड्कबीजं त्वक्‍क्षीरभावितं मूत्रसंय़ुतम्‍ । रविवेतसकन्दं च लेपनं किटिभापहम्‍ ॥१॥
पिप्पलीपूतिकायस्याकुष्ठगोपित्तचित्रकै: । लेपं सम्यक्‍ प्रशंसन्ति किटिभघ्नं चिकित्सका: ॥२॥
गोमूत्रवारिसपिष्टै: शिलाकासीसतुत्थकै: । लेप: किटिभवीसर्पकुष्ठनाशाय पूजित: ॥३॥
अथ सिध्मचिकित्सा ॥ धात्रीफलं सर्जरसो यावशूकस्त्विदं त्रयम्‍ । सौवीरपेषितं सर्वं सिध्मशूलविदारणम्‍ ॥१॥
शिखरीरसेन सुपिष्टं मूलकबीजं प्रलेपत: सिध्मम‍ । क्षारेण कदल्या वा रजनीमिश्रेण नाशयति ॥२॥
कुष्ठं मूलकबीजं प्रियड्गव: सर्षपा दुरालम्भा । एतत्केसरपिष्टं निहन्ति चिरकालजं सिध्मम्‍ ॥३॥
गन्धपाषाणमिश्रेण यवक्षारेण लेपितम्‍ । सिध्मं नाशमुपैत्याशु कटुतैलयुतेन च ॥४॥
कासमर्दकबीजानि मूलकानां निम्बपत्राणि सितसर्षपान्‍ । गृहधूमं च संपिष्य जलेनाड्गं प्रलेपयेत्‍ ॥६॥
उद्वर्त्य नवनीतेन क्षालयेदुष्णवारिणा । त्र्यहादनेन सिध्मानां किटिभानां च दद्रुनां च विशेषत: ॥९॥
कार्पासिकापत्रविमिश्रकाकजड्घाकृतो मूलकबीजयुक्त: । तक्रेण लेप: क्षितिपुत्रवारे सिध्मानि सद्यो नयति प्रणाशम्‍ ॥१०॥
गोमुत्रेणाथ तक्रेण जीर्णसौवीरकेण वा । पिष्टमूलकबीजानां लेपनात्सिध्मनाशनम्‍ ॥११॥
इति सिध्मचिकित्सा ॥ अथ विपादिकाचिकित्सा ॥ धत्तूरबीजककल्केन माणकक्षारवारिणा । कटुतैलं विपक्वं तु द्रुतं हन्याद्विपादिकाम्‍ ॥ मुण्डीरसेन संसिद्धं घृतं हन्ति विपादिकाम्‍ ॥१॥
इति विपादिकाचिकित्सा ॥ अथ क्रमेण पामाकण्डूकच्छूसिसर्पणविस्फोटचर्मदलविचर्चिकाचिकित्सां व्याख्यास्याम: ॥
सिन्दूरजीरद्वयरात्रियुग्ममन:शिलावल्लिजगन्धकानाम्‍ । रसान्वितानां घृतयोजितानां पामा व्रजेद्दूरतरं त्रिलेपात्‍ ॥१॥
सैन्धवं चक्रमर्दं च सर्षपं पिप्पलीं तथा । सेचयेदारनालेन पामाकण्डुविनाशनम्‍ ॥२॥
अथ जीरकतैलम्‍ ॥ जीरकस्य पलं पिष्ट्वा सिन्दूरार्धपलं तथा । कटुतैलं पचेदाभ्यां सद्य: पामाहरं परम्‍ ॥ वृद्धवैद्योपदेशेन पाच्यं तैलं
पलाष्टकम्‍ ॥१॥
अथ बृहत्‍ सिन्दूराद्यं तैलम्‍ ॥ सिन्दूरं चन्दनं मांसीविडड्गं रजनीद्वयम्‍ । प्रियड्गुपद्मकं कुष्ठं मञ्जिष्ठा खदिरं वचा ॥१॥
जात्यर्कत्रिवृता निम्बकरञ्जं विषमेव च । कृष्णा चित्रकलोध्रं च प्रपुन्नाटं च संहरेत्‍ ॥२॥
श्लक्ष्णं पिष्टानि सर्वाणि योजयेत्तैलमात्रया । अभ्यड्गेन प्रयोज्यं तद्वर्णकृत्कुष्ठनाशनम्‍ ॥३॥
पामां विचर्चिकां कच्छुं विसर्पं विषमेव च । रक्तपित्तोत्थितान्हन्ति रोगानेवंविधान्‍ बृहन्‍ सिन्दूराद्यमिदं तैलमश्विभ्यां निर्मितं पुरा ॥४॥
अथ बृहन्मरीचाद्यं तैलम्‍ ॥ मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्रस: । देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम्‍ ॥१॥
विशाला करवीरं च हरितालं मन:शिला । चित्रको लाड्गली चव्यं विड्ड्गं चक्रमर्दकम्‍ ॥२॥
शिरीषकुटजौ निम्ब: सप्तवर्णोऽमृतास्नुही । शम्याको नक्तमालोऽब्द: खदिर: पिप्पली वचा ॥३॥
जोतिष्मती च पलिका विषस्य द्विपलं भवेत्‍ । आढकं कटुतैलस्य गोमूत्रं च चतुर्गुणम्‍ ॥४॥
मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना पचेत्‍ । पक्त्वा तैलं वरं ह्येतन्मृक्षयेत्कोटिकाव्रणान्‍ ॥५॥
पामाविचर्चिकाकण्डुदद्रुविस्फोटानि च । वलय: पलितं छाया नीला व्यड्गं तथैव च ॥ अभ्यड्गेन प्रणश्यन्ति सौकुमार्यं च जायते ॥६॥
अथ माहेश्वरघृतम्‍ ॥ कृत्वा कज्जलिकां रवौ कुनटिका द्वे जीरके द्वे निशे गोदन्तोषणनाग एडगजिका वा कुञ्चिका सर्पिषा । लोहे लोहविमर्दितं दृढतरं माहेश्वराख्यं घृतं कण्डूकुष्ठविचर्चिकादिशमनं पामाहरं लेपनात्‍ ॥१॥
मांस्त्री चन्दनशम्याककरञ्जारिष्टसर्षपम्‍ । यष्टीकुटजदार्वीभिर्हन्ति कण्डूमयं गण: * ॥२॥
अवल्गुजं कासमर्दं चक्रमर्दं निशायुतम्‍ । मणिमन्थेन तुल्यांशं मस्तुकाञ्जिकपेषितम्‍ ॥ कण्डु कच्छुं जयत्युग्रां सिद्धं एष प्रयोगराट्‍ ॥३॥
कोमलसिंहास्यदलं सनिशं सुरभिजलसंपिष्टम्‍ । दिवसत्रयेण नियतं शमयति कच्छूं विलेपनत: ॥४॥
हरिद्राकल्कसंयुक्तं गोमूत्रस्य पलद्वयम्‍ । पिबेन्नर: कामचारी कच्छुपामाविनाशनम्‍ ॥५॥
गन्धपाषाणचूर्णं तु कटुतैलेन योजितम्‍ । लेपनादथ पानाद्वा कच्छूपामाविनाशनम्‍ ॥६॥
अथ सिन्दूराद्यं तैलम्‍ ॥ सिन्दूरगुग्गुलरसाञ्जनसिक्थतुत्थै: कल्कीकृतै: कटुकतैलमिदं सुपक्कम्‍ । कच्छूंस्त्रवतपिटिकिकामथ वापि शुष्कामभ्यञ्जनेन सकृद्‍द्धरति प्रसह्य ॥१॥
अथार्कतैलम्‍ । अर्कपत्ररसे पक्वं रजनीकल्कसंयुतम्‍ । कटुतैलं हरेत्तूर्णं पामाकच्छूविचर्चिका: ॥१॥
राजिकागुडयुक्तेन सैन्धवेन प्रलेपितम्‍ । विजलं चर्मणा बद्धं नाशं चर्मदलं व्रजेत्‍ ॥२॥
अथ रसा: ॥ तत्रादौ विजयेश्वरो रस: ॥ शुद्धतालं मृतं सूतं तुल्यं ताभ्यां चतुर्गुणम्‍ । भर्जित्वा विजया योज्या सर्वतुल्यं गुडं क्षिपेत्‍ ॥१॥
श्वेतकुष्ठहरं निष्कं रसोऽयं विजयेश्वर: । दार्वीखदिरनिम्बानां क्वाथं तदनु पाययेत्‍ ॥२॥
इत्यष्टादशकुष्ठचि० अथ श्वित्रिणो हृतदोषस्य हृतरक्तस्य वा सकृत्‍ । खदिराम्बुयवान्नानां तृप्तस्य मलयूरस: ॥ सगुड: शस्यते पाने यवागूमण्डभोजिन: ॥१॥
खदिरामलककषायं बाकुचिबीजान्वितम्पिबेन्नित्यम्‍ । शड्खेन्दुकुन्दधवलं श्वित्रं हन्तीद तच्चित्रम्‍ ॥२॥
शिलापामार्गभसितलेपाच्छ्वित्रं विनाशयेत्‍ । किं पुनर्यदि युज्येत धनञ्जयजटात्वचा ॥३॥
त्रिफलानीलिनीपत्रं लोहचूर्णं रसाजञ्जनम्‍ । श्वेतगुञ्जादन्तिदन्तभस्मतुत्थं च मार्कवम्‍ ॥४॥
मेषीदुग्धेन सम्पिष्य स्थापयेल्लोहभाजने । दिनमेकं ततो लिम्पेन्‍मुहु:श्वित्रेष्वनुक्रमात्‍ ॥ श्वित्राण्यनेन लेपेन निजवर्णं त्यजन्ति वै ॥५॥
सायोरज: कृष्णतिलाञ्जनानि सावल्गुजान्यामलकानि जगध्वा । पिष्टानि भृड्गस्य सकृद्रसेन हन्यात्किलासं परिघृष्टलेपात्‍ ॥६॥
अथ विषतैलम्‍ ॥२॥
नक्तमालो हरिद्रे द्वे अर्क तगरमेव च । करवीरवचाकुष्ठमास्फोतारक्तचन्दनम्‍ ॥१॥
मालती सप्तवर्णं मञ्जिष्ठा सिन्धुवारिका । एषामर्धपलान्भागान्‍ विषस्य द्विपलं भवेत्‍ ॥२॥
चतुर्गुणे गवां मूत्रे तैलप्रस्थं विपाचयेत्‍ । श्वित्रविस्फोटकिटिभकीटलूताविचर्चिका: ॥३॥
कण्डूकच्छुविकारश्च ये व्रणाविषदूषिता: । विषतैलमिदं नामसर्वव्रण विशोधनम्‍ ॥४॥
अथ ज्योतिष्मतीतैलम्‍ ॥ मयूरकक्षारजले सप्तकृत्व: परिशृतम्‍ । सिद्धं ज्योतिष्मतीतैलमभ्यड्गाच्छित्रनाशनम्‍ ॥१॥
अथ शशिलेखावटी ॥ शुद्धसूतं समं गन्धं तुल्यं च मृतताम्रकम्‍ । मर्दितं बाकुचीक्वाथैर्दिनैमकं वटकीकृतम्‍ ॥१॥
निष्कमात्रां सदा खादेच्छ्वित्रघ्नीं शशिलेखिकाम्‍ । बाकुचीतैलकर्षैकं सक्षौद्रमनुपाययेत्‍ ॥२॥
अथ पथ्यापथ्यम्‍ । अन्नपानं हितं कुष्ठे न त्वम्ललवणोषणम्‍ । दधिदुग्धगुडांश्वापि तिलमाषांस्त्यजेन्नर: ॥१॥
इति कुष्ठश्वित्राणी इति चिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:06:45.8930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आगिओ

  • पु. ( गु . ) जोंधळ्याच्या पिकांत उगवणारें एक रोपटें . यामुळें जोंधळ्याचें ताट सुकतें ; आगी पहा . [ का . अगे = कोंब ; अंकुर ; रोप . ] 
RANDOM WORD

Did you know?

चंद्र व सूर्य यांच्या ग्रहणी जन्म झाल्यास त्याचे काय परिणाम होतात? शांती, विधी काही आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site