संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ घृतानि ॥

॥ अथ घृतानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


अथ पञ्चतिक्तकं घृतम्‍ । ज्वरा: कषायैर्वमनैर्लड्घनैर्लघुभोजनै: । रुक्षस्य ये न श्याम्यन्ति तेषां सर्पिर्भिषग्जितम्‍ ॥१॥
सर्पिर्दद्यात्कफे मन्दे वातपित्तोत्तरे ज्वरे । पक्वेषु दोषेष्वमृतं तद्विषोपमन्यथा ॥२॥
वृषनिम्भामृताव्याघ्रीपटोलानां शृतेन च । कल्केन पक्वं सर्पिस्तु निहन्याद्विषमज्वरान्‍ । पाण्डुं कुष्टं विसर्पं च कृमीनर्शांसि नाशयेत्‍ ॥३॥ इति पञ्चतिक्तकं घृतम्‍ ॥
अथामृताद्यं घृतम्‍ । अमृतात्रिफलापटोलयासै: सपयस्कं विधिवद्‍घृतं विपक्कम्‍ । विषयज्वरनाशनप्रधानं क्षयगुल्मारुचिकामलापहारि ॥१॥
इत्यमृताद्यं घृतम्‍ ॥ षटपलं घृतम्‍ । पिप्पलीपिप्पलीमूलं चव्यचित्रकनागरै: । ससैन्धवैश्च पलिकैर्घृतप्रस्थं विपाचयेत्‍ ॥१॥
क्षीरं चतुर्गुणं दद्यात्तद्‍घृतं प्लीहनाशनम्‍ । विषमज्वरमन्दाग्निहरं रुचिकरं परम्‍ ॥२॥
इति षट्‍पलं घृतम्‍ ॥ अथ महाषट्‍पलं घृतम्‍ । पूतीकाग्रिकपञ्चकोलरुचकै: साजाजियुग्मोद्भिदै: सक्षारै: सबिडै: सहिड्गुहपुषासिन्धूद्भवै: कल्कितै: । मुक्तेनार्द्रवसम्भवेन च रसेनैतन्महाषट्‍पलं सर्पि: पक्वमरोचाग्रिसदनप्लीहज्वरश्वासजित्‍ ॥१॥
इति महाषट्‍पलं घृतम्‍ ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP