TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रसा: ॥

॥ अथ रसा: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ रसा: ॥
॥ अथ रसा: ॥
सूतकं गन्धकं लोहं विषं चित्रकपत्रकम्‍ । वरारी रेणुका मुस्ता एला ग्रन्थिककेशरम्‍ ॥१॥
फलत्रय़ं त्रिकटुकं शुल्बभस्म तथैव च । एतानि समभागानि सूक्ष्मचूर्नानि कारयेत्‍ ॥२॥
ग्रहण्यां पाण्डुरोगे च दातव्यं मधुना सह । अतिसारे क्षये कासे प्रमेहे विषमज्वरे । नानानुपानैर्दातव्यश्चतुर्मूर्ती रसोत्तम: ॥३॥

अथ सुवर्णरसपर्पटी ।

शुद्धसूतं पलमितं तुर्यांशस्वर्णसंयुतम्‍ । मर्दयेन्निम्बुनीरेण यावदेकत्वमाप्नुयात्‍ ॥१॥
प्रक्षाल्योष्णाम्बुना पश्चात्पलमात्रे सुगन्धके । द्रुते लोहमये पात्रे बादरानलयोगत: ॥२॥
प्रक्षिप्य चालयेल्लोह्यां मन्दं लोहशलाकया । तत: पाकं विदित्वा तु रम्भापत्रे शनै: क्षिपेत्‍ ॥३॥
गोमयस्थे तदुपरि रम्भापात्रेण यन्त्रयेत्‍ । शीतं तच्चूर्णितं गुञ्जाक्रमवृद्धं निषेवयेत्‍ ॥४॥
माषमात्रं भवेद्यावत्ततो मात्रां न वर्धयेत्‍ । सक्षौद्रेणोषणेनैव लेहयेद्भिषगुत्तम: ॥५॥
ग्रहणीं हन्ति शोषं च सुवर्णरसपर्पटी । सद्योबलकरी शुक्रवर्धनी वन्हिदीपनी ॥ क्षयकासश्वासमेह्शूलातीसारपाण्डुनुत्‍ ॥६॥
इति सुवर्णरसपर्पटी ॥

अथ ग्रहणीकपाट: ॥
तारमौक्तिकहेमानि सारश्चैकैकभागिकम्‍ । द्विभागो गन्धक: सूतस्त्रिभागो मर्दयेदिमान्‍ ॥१॥
कपित्थस्वरसैर्गाढं मृगशृड्गे तत: क्षिपेत्‍ । पुटेन्मध्ये पुटेनैव तत उद्‍धृत्य मर्दयेत्‍ ॥२॥
बलारसै: सप्तवेलपामार्गरसैस्त्रिधा । लोध्रप्रतिविषामुस्तधातकीन्द्रयवामृता ॥३॥
प्रत्येकमेततस्वरसैर्भावना स्यात्‍ त्रिधा त्रिधा । माषमात्रं रसो देयो मधुना मरिचैस्तथा ॥४॥
हन्यात्सर्वानतीसारान्‍ ग्रहणीं सर्वजामपि । कपाटो ग्रहणीरोगे रसोऽयं वह्निदीपन: ॥५॥
अन्यच्च ।
रसेन्द्रगन्धातिविषाभयाभ्रं क्षारत्रयं मोचरसो वचा च । जया च जम्बीररसेन पिष्टं पिण्डीकृतं स्याद्‍ग्रहणीकपाट: ॥१॥
अन्यच्च रसराजलक्ष्म्या: । शुद्धै: कर्कवराटकैर्गणनया भल्लातकांस्तत्समाञ्छ्रोतान्बब्लुकण्टकैर्लघुपुटैस्तस्याड्घ्रिभागं रसम्‍ । लेलीतेन समं विचूर्ण्य जयया सप्तानुभाव्यं शिव: प्रोक्तोऽयं ग्रहणीकपाटकरसस्त्रैवल्लक्स्त्वौषधै: ॥१॥
इति ग्रहणीकपाट: ॥

अथ ग्रहणीगजकेसरी रस: ॥
गन्धं पारदमभ्रकं च दरदं लोहं च जातीफलं बिल्वं मोचरसं विषं प्रतिविषां व्योषं तथा धातकीम्‍ । भृष्टामप्यभयां कपित्थजलदौ दीप्यानलौ दाडिमं टड्काद्भस्मकलिड्कात्कनकजं बीजं च पक्षेक्षणम्‍ ॥१॥
एतत्तुर्यमफेनमेतदखिलं संमर्द्य संचूर्णयेद्धत्तूरच्छदजै रसैश्च मतिमान्कुर्यान्मरीचाकृतिम्‍ । दत्ता सा ग्रहणीगदं सरुधिरं सामं सशूलं चिरातीसारं विनिहन्ति जूर्तिसहितां तीव्रां विषूचीमपि ॥२॥
दु:साध्यामपि बिम्बसीं परिहरेदुक्तानुपानैरयं नाम्ना तु ग्रहणीमतड्गजमदध्वंसीभकण्ठीरव: ॥३॥
इति ग्रहणीगजकेसरी रस: ॥ अथ रसपर्पटी ॥ शुद्धपारदगन्धाभ्यां कृता पर्पटिका नृणाम्‍ । निहन्ती ग्रहणी क्षौद्रयुक्ता पथ्यभुजां भृशम्‍ ॥१॥ इति रसपर्पटी ॥ अथ पञ्चामृतपर्पटीरस: ॥ लोहाभ्रार्करसं समं द्विगुणितं गन्धं पचेत्कोलिकाकाष्ठाग्नौ मृदुले निधाय सकलं लोहस्य पात्रे भिषक्‍ ।
सर्वं गोमयमण्डले विनिहिते रम्भादले निन्यसेत्तस्योर्ध्वं कदलीदलं द्रुततरं वैद्येश्वरो निन्यसेत्‍ ॥१॥
स्यात्पञ्चामृतपर्पटी ग्रहणिकायक्ष्मातिसारज्वरस्त्रीरुकपाण्डुगराम्लपित्तगुदजक्षुन्मान्द्यविध्वंसिनी ॥२॥
ग्रहण्यामनुपानं हि हिड्गुसैन्धवजीरकम्‍ । जीरकम्‍ पाण्डुगरयोरितरेषु स्वयुक्तित: ॥३॥
इति पञ्चामृतपर्पटीरस: ॥

अथ कनकसुन्दररस: ॥
मरीचबलिहिड्गुलैर्गरलपिप्पलीटड्कणै: सुवर्णभवबीजकै: समलवैर्दिनार्धावधि । जयारसविमर्दितै: कनकसुन्दर: सुन्दरि स्मृतौ ग्रहणिकाज्वरातिसृतिवह्निमान्द्यापह: ॥१॥
इति कनकसुन्दररस: ॥

अथ शड्खवटी ।
चिञ्चाक्षारपलं पटुवज्रपलं निम्बूरसे कल्कितं तस्मिञशड्खपालं प्रतप्तमसकृन्निर्वाप्य शीर्णावधि । हिड्गुव्योषपलं रसामृतबलीन्निक्षिप्य निष्कांशकान्‍ बद्ध्वा शड्खवटी क्षयग्रहणिकारुक्पक्तिशूलादिषु ॥१॥
इति शड्खवटी ॥ अथाग्निसूनुरस: । भागो दग्धकपर्दकस्य च तथा शड्खस्य भागद्वयम्‍ भागो गन्धकसूतर्योमिलितयो: पिष्ट्वा मरीचादपि । भागस्य त्रितयं नियोज्य सकलं निम्बूरसे चूर्णितं नाम्ना वह्निसुतो रसोऽयमचिरान्माद्यं जयेद्दारुणम्‍ ॥१॥
घृतेन खण्डात्सह भक्षितेन क्षीणान्नरान्हस्तिस्मान्करोति । समागधीचूर्णघृतेन लीढ्वा नर: प्रमुञ्चेद्‍ ग्रहणीविकाराद्‍ ॥२॥
शोषज्वरारोचकशूलगुल्मान्पाण्डुदरार्शोग्रहणीविकारान्‍ । तक्रानुपानो जयति प्रमेहान्युक्त्या प्रयुक्तोऽग्निसुतो रसेन्द्र: ॥३॥
इत्यग्निसूनुरस: ॥

अथागस्तिसूतराजो रस: ॥
रसबलिसमभागं तुल्यहिड्गलयुक्तं द्विगुणकनकबीजं नागफेनेन तुल्यम्‍ । सकलविहितचूर्णं भावयेद्‍भृड्गनीरैर्ग्रहणिजलधिशोषे सूतराजो ह्यगस्ति:  ॥१॥
त्रिकटुकमधुयुक्त: सर्ववान्तिं च शूलं कफपवनविकारं वह्निमान्द्यं च निद्राम्‍ ॥१॥
घृतमरिचयुतोऽयं गुञ्जमात्र: प्रवाहीं हरति षडतिसाराञ्जीरजातीफलेन ॥२॥
इत्यगस्तिसूतराजो रस: ॥

अथ क्षारत्नाम्ररस: ॥
शड्खक्षारार्कभूतिं च वराटं लोहभस्मकम्‍ । अयोमलं यवक्षारं टड्कणक्षारमेव च ॥१॥
त्रिकुटं  सैन्धवं तुल्यं भृड्गतोयेन मर्दयेत्‍ । आटरुषरसैर्मर्द्यमार्द्रकस्वरसेन च ॥२॥
चणमात्रां वटीं कृत्वा रसोऽयं क्षारताम्रक:  । श्वासे कासे प्रतिश्याये पुराणज्वरपीडिते ॥३॥
मन्दाग्नौ ग्रहणीदोषे त्वनुपानं यथोचितम्‍ । सेवयेत्सप्तरात्रेण नाशयेन्नात्र संशय: ॥४॥
चिरकालानुबन्धे च सेवयेन्मण्डलावधि । तत्तव्द्याधिहरं पथ्यं नियमेन समाचरेत्‍ ॥५॥
इति क्षारताम्ररस: ॥
इति रसा: ॥

॥ अथ पथ्यम्‍ ॥
मुद्गषष्ठिकशाली च आढकी माक्षिकं तथा । छाग्या: पयो दधि घृतं नवनीतं कपित्थकम्‍ ॥१॥
नि:सारं दधि गोर्बिल्वं रम्भाया: कुसुमं फलम्‍ । दाडिमं लाजकृन्मण्ड: शृड्गाटं क्षुद्रमत्स्यक: ॥२॥
एणतित्तिरलावानां शशानां क्रव्यमेव च । ग्रहण्यामातुरे पथ्यं कथितं मुनिभिर्हितम्‍ ॥३॥
पिच्छिलानि कठोराणि गुरुण्यन्नानि यानि च । आमकृन्ति न सेव्यानि ग्रहणीरोगिभि: क्वचित्‍ ॥४॥
इति ग्रहणीचिकित्सा ॥



Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-19T20:36:25.3700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गजदांत दाखविणें

  • हत्तीचे बाहेर दिसणारे दात व खावयाचे दात निरनिराळे असतात. यावरून बाहेर एक, आंत एक असे बोलणें.-इसं. जोध. राज. ३८. 
RANDOM WORD

Did you know?

पापा पासून मुक्त होण्यासाठी काय उपाय करावेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site