TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथोरुस्तम्भ्रनिदानमाह ॥

॥ अथोरुस्तम्भ्रनिदानमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथोरुस्तम्भ्रनिदानमाह ॥
॥ अथोरुस्तम्भ्रनिदानमाह ॥
शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितै: । जीर्णाजीर्णैस्तथायाससंक्षोभस्वप्नजागरै: ॥१॥
सश्लेष्ममेद:पवनमाममत्यर्थसंचितम्‍ । अभिभूयेतरं दोषमूरु चेत्प्रतिपद्यते ॥२॥
सक्थ्यस्थीनि प्रपूर्यान्त: श्लेष्मणा स्तिमितेन च । तदा कफान्वितेनोरु स्तब्धौ शीतावचेतनौ ॥३॥
परकीयाविव गुरु स्यातामतिभृशव्यथौ । ध्मानाड्गमर्दस्तैमित्यतन्द्राछर्दरुचिज्वरै: ॥४॥
संयुक्त: पादसदनकृच्छ्रोद्धरणसुप्तिभि: । तमूरुस्तम्भमित्याहुराढ्यवातमथापरे ॥५॥
प्राग्रूपं तस्य निद्रातिध्यानं स्तिमितता ज्वर: । रोमहर्षोऽरुचिच्छर्दिर्जड्घोर्वो: सदनं सुप्ति: कृच्छ्रादुद्धरणं तथा ॥७॥
जड्घोरुग्लानिरत्यर्थ शश्चच्चादाहवेदना: । पदं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ॥८॥
संस्थाने पीडने गत्यां चलने चाप्यनीश्वर:  । अन्यस्येव हि सम्भग्नावूरु पादौ च मन्यते ॥९॥
ऊर्वोर्व्यथा च पारुष्यं तन्द्रा स्तैमित्यमड्गरुक्‍ । पादस्योद्धरणं कृचछ्रात्तमूरुस्तम्भमादिशेत्‍ ॥१०॥
यदा दाहार्तितोदार्तो वेपन: पुरुषो भवेत्‍ । ऊरुस्तम्भस्तदा हन्यात्साधयेदन्यथा नवम्‍ ॥११॥
इत्यूरुस्तम्भनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
स्नेहासृकस्त्राववमनबस्तिकर्म च रेचनम्‍ । वर्जयेदाढ्यवातेषु तैश्च तस्य विरोधत: ॥१॥
तस्मादत्र सदा कार्यं स्वेदलड्घनरुक्षणम । आममेव कफाधिक्यान्मारुतं परिरक्षता ॥२॥
यत्स्यात्कफप्रशमनं न च मारुतकोपनम्‍ । तत्सर्वं सर्वदा कार्यंमूरुस्तम्भस्य भेषजम्‍ ॥३॥
सर्वौषधक्रम: कार्यस्तत्रादौ कफनाशन: । पञ्चाद्वातविनाशाय कृस्त्रा कार्या क्रिया यथा ॥४॥
रुक्षणाद्वातकोपाच्च निद्रानाशार्तिसूचिका । स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापह: ॥५॥
प्रतारयेत्प्रतिस्त्रोतो नदीं शीतजलाशयम्‍ । सरश्चैवामलं शीतं स्थिरतोयं पुन: पुन: ॥६॥
तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत्‍ । शरीरं बलमग्निं च कार्यैषा रक्षतामयम्‍ ॥७॥

॥ अथ क्वाथचूर्णकल्कादि ॥
अथ पुनर्नवादिक्वाथ: ॥ पुनर्नवानागरदारुपथ्याभल्लातकच्छिन्नरुहाकषाय: । दशाड्घ्रिमिश्र: परिपेय ऊरुस्तम्भेऽथवा मूत्रपुर: प्रयोग: ॥१॥
अथ ग्रन्थेकादिक्वाथ: ॥ ग्रन्थिकारुष्ककृष्णानां क्वाथं क्षौद्रान्वितं पिबेत्‍ । चव्याभयाग्निदारुणां कल्कं वा मधुसंयुतम्‍ ॥१॥
अथ पिप्पल्यादिक्वाथ: ॥ पिप्पलीं वर्धमानां वा माक्षिकेण गुडेन वा ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव च ॥१॥
अथ त्रिफलादि चूर्णम्‍ ॥ त्रिफलाचव्यकटुकाग्रन्थिकं मधुना लिहेत्‍ । ऊरुस्तम्भविनाशाय पुरं मूत्रेण वा पिबेत्‍ ॥१॥
अथ शिलाजत्वादियोग: ॥ शिलाजतुं गुग्गुलं वा पिप्पलीमथ नागरम्‍ । ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलीरसेन वा ॥१॥
अथ पिप्पल्यादिकल्क: ॥ पिप्पली पिप्पलीमूलं भल्लातकफलानि च । कल्कं मधुयुतं पीत्वा ऊरुस्तम्भात्प्रमुच्यते ॥१॥
अथ त्रिफलादियोग: ॥ लिह्याद्वा त्रिफलाचूर्णं क्षौद्रेण कटुकायुतम्‍ । सुखाम्बुना पिबेद्वापि चूर्णं षट‍चरणं नर: ॥१॥
अथ कुष्ठादि तैलम्‍ ॥ कुष्ठं श्रीवेष्टकोदीच्यं सरलं दारु केशरम्‍ । अजगन्धाश्वगन्धा च तैलं तै: सार्षपं पचेत्‍ ॥ सक्षौद्रं मात्रया तस्मादूरुस्तम्भार्दित: पिबेत्‍ ॥१॥
अथ कट्‍वरतैलम्‍ ॥ बलाभ्यां पिप्पलीमूलनागरादष्टकट्‍वर: । तैलप्रस्थ: समो दग्धा गृधस्यूरुग्रहापह: ॥१॥
अष्टकट्वरतैलेन तैलं सार्षपमुच्यते । पिप्पलीनागरायाश्च प्रत्येकं द्विपलं स्मृतम्‍ ॥२॥
वृन्दात्‍ ॥

॥ अथ स्वेदनलेपनसेचनानि ॥
सक्षारमूत्रस्वेदांश्च रुक्षान्यस्वेदनानि च । कुर्याद्दिहेच्च मूत्राद्यै: करञ्जफलसर्षपै: ॥१॥
मूलैर्वाप्यश्वगन्धाया मूलैरर्कस्य वा भिषक्‍ । पिचुमन्दस्य वा मूलैरथ वा देवदारूणा ॥२॥
क्षौद्रसर्षपवल्मीकमृत्तीकासंयुतैर्भिषक्‍ । गाढमृत्साधितं कुर्यादूरुस्तम्भे प्रलेपनम्‍ ॥३॥
दन्तीद्रवन्तीसुरसासर्षपैश्चातिबुद्धिमान्‍ । तर्करीसुरसाशिग्रुबिल्ववत्सकनिम्बजै: ॥ पत्रमूलफलैस्तोयै: शृतमुष्णाम्बुसेचनम्‍ ॥४॥

॥ अथ गुञ्जागर्भो रस: ॥
निष्कत्रयं शुद्धसूतं निष्कद्वादशगन्धकम्‍ । गुञ्जाबीजं विषं निष्कं निम्बबीजं जया तथा ॥१॥
प्रत्येकं निष्कमात्रं तु माषं जेपालबीजकम्‍ । जातीजम्बीरधत्तूरकाकमाचीद्रवैर्दिनम्‍ ॥२॥
मर्द्यं सर्वं वटीं कुर्याद्‍घृतैर्गुञ्जद्वय लिहेत्‍ । गुञ्जागर्भो रसो नाम हिड्गुसैन्धवसंयुत: ॥ समण्डं दापयेत्पथ्यमूरुस्तम्भप्रशान्तये ॥३॥
इति रससमुच्चयात्‍ ॥

॥ अथ पथ्यापथ्यम्‍ ॥
रुक्ष: सर्वविधि: स्वेद: कोद्रवा रक्तशालय: । यवा: कुलत्था: श्यामाका उद्दालाश्च पुरातना: ॥१॥
सौभाञ्जनं कारवेल्लं पटोलं वास्तुक तथा । सुनिषण्णं काकमाची  वेत्राग्रं तप्तवारि च ॥२॥
जाड्गलैरघृतैर्मांसै: शाकश्चालवणैर्हितै: । एतत्पथ्यं समुद्दिष्टमूरुस्तम्भविकारिणाम्‍ ॥३॥
गुरुशीतद्रवस्निग्धविरुद्धासात्म्यभोजनम्‍ । विरेचनं स्नेहनं च वमनं रक्तमोक्षणम्‍ ॥ बस्तिं च न हितं प्राहुरुरुस्तम्भविकारिणाम्‍ ॥४॥
इत्यूरुस्तम्भचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T19:10:15.3430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

outdoor shooting

  • बाह्य वेधन 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.