TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथातोऽरोचकनिदानं व्याख्यास्याम: ॥

॥ अथातोऽरोचकनिदानं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथातोऽरोचकनिदानं व्याख्यास्याम: ॥
॥ अथातोऽरोचकनिदानं व्याख्यास्याम: ॥
पृथगदोषै: समस्तैर्वा तथाप्यागन्तवो हि ये । भवन्त्यरोचका: पञ्च तेषां लक्षणमुच्यते ॥१॥

॥ अथ वातिकमाह ॥
वातादिभि: शोकभयातिलोभक्रोधैर्मनोघ्नाशनरुपगन्धै: । अरोचका: स्यु: परित्दृष्टदन्तकषायवक्त्रश्च मतोऽनिलेन ॥१॥

॥ अथ पित्तजमाह ॥
कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्याल्लवणं च वक्त्रम्‍ ॥१॥

॥ अथ कफजमाह ॥
माधुर्यपैच्छिल्यगुरुत्वशैत्यस्निग्धत्वदौर्गन्ध्ययुतं कफेन ॥१॥

॥ अथ शोकजन्यमाह ॥
अरोचके शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात्‍ ॥१॥

॥ अथ त्रिदोषजमाह ॥
स्वाभाविकं चास्यमथारुचिश्च त्रिदोषजेऽनेकरसं भवेत्तु ॥१॥

॥ अथ विकृतिमाह ॥
हृच्छूलपीडनयुतं पवनेन पित्तात्तृड्दाहशोषबहुलं सकफप्रसेकम्‍ । श्लेष्मात्मकं बहुरुजं बहुभिश्च विद्याद्वैगुण्यमोहजडताभिरथापरं च ॥१॥
प्रतिक्षिप्तमुखे चान्नं जन्तुर्नास्वादते मुहु: । अरोचक: स विज्ञेयो भक्तद्वेषमत: शृणु ॥२॥
चिंतयित्वा तु मनसा दृष्ट्वा श्रुत्वा तु भोजनम्‍ । द्वेषमायाति यो जन्तुर्भक्तद्वेष: स उच्यते ॥३॥
इत्यरोचकनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
बस्ति: समीरणे पित्ते विरेको वमनं कफे । सर्वजे सर्वकामार्थं हर्षणं स्यादरोचके ॥१॥
अरुचौ कवलग्राहो धूम: सुमुखधावन: । मनोज्ञमन्नपानं वा हर्षणाश्वासनानि च ॥२॥
सात्म्यान्स्वदेशरचितान्विविधांश्च भक्ष्यान्पानानि मूलफलखाण्डवरोगलेहान्‍ । सेवेद्रसांश्च विविधान्विविधै: प्रयोगैर्भुञ्जीत चापि लघुरुक्षमन:सुखानि ॥३॥

॥ अथ मुखधावनम्‍ ॥
अजाजी मरिचं कुष्ठं बिडं सौवर्चलं तथा । मधुकं शर्करा तैलं वातिके मुखधावनम्‍ ॥ करञ्जदन्तकाष्ठं च विधेयमरुचौ सदा ॥१॥
त्रित्र्यूषणानि त्रिफलारजनीद्वयं च चूर्णीकृतानि यवशूकबिमिश्रितानि । क्षौद्रान्वितानि वितरेन्मुखधावनार्थमन्यानि तिक्तकटुकानि च भेषजानि ॥२॥

॥ अथ गण्डूष: ॥
किञ्चिल्लवणसंयुक्तमारनालं विपाचयेत्‍ । तेन गण्डूषमात्रेण आस्यवैरस्यशान्तये ॥१॥

॥ अथ पानकक्वलग्रहौ ॥
अम्लिकामुद्रतोयं च त्वगेलामरिचान्वितम्‍ । अभक्तच्छन्दरोगेषु शस्तं कवलधारणे ॥१॥
इत्यम्लिकापानकम्‍ । भागैकं निम्बुजं तोयं षड्‍भागं शर्करोदकम्‍ । लवड्गमरिचोन्मित्रं पानकं पानकोत्तमम‍ ॥१॥
निम्बूरसभवं पानमत्यम्लं वातनाशनम्‍ । वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम्‍ ॥२॥
इति निम्बूपानकम्‍ । कुष्ठ्सौवर्चलाजाजीशर्करामरिचं बिडम्‍ । धान्यैलापद्मकोशीरपिप्पलीचन्दनोत्पलम्‍ ॥१॥
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम्‍ । आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुत: ॥२॥
सतैलमाक्षिकाश्चैते चत्वार: कवलग्रहा: । चतुरोऽरोचकान्हन्युर्वाताद्येकजसर्वजान्‍ ॥३॥
इति कुष्ठाद्याश्चत्वार: कवलग्रहा: । विड्ड्गचूर्णं कर्षैकं क्षौद्रं कर्षचतुर्मितम्‍ । असाध्यमपि संहन्यादरुचिं वक्त्रधारणात्‍ ॥१॥

॥ अथ गुटिका ॥
कारव्यजाजीमरिचं द्राक्षा वृक्षाम्लदाडितम्‍ । सौवर्चलं गुड: क्षौद्रमेषां कार्यां वटी शुभा ॥ बदरास्थिमिता सास्ये धार्यारोचकनाशिनी ॥१॥
इति कारव्यादिगुटिका । सिताव्योषकपित्थानां चूर्णं क्षौद्रकृतां वटीम्‍ । सर्वारोचकशान्त्यर्थं धारयेद्वदनाम्बुजे ॥१॥

॥ अथ चूर्णानि ॥
यवानीतित्तिडीकं च नागरं चाम्लवतेसम्‍ । दाडिमं बदरं साम्लं कार्षिकाण्युपकल्पयेत्‍ ॥१॥
धान्यसौवर्चलाजाजीवराड्गं चार्धकर्षिकम्‍ । पिप्पलीनां शतं चैकं द्वे शते मरिचस्य  ॥२॥
सर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्‍ । यवानीखाण्डवाख्यं तु चूर्णमेतदरोचकम्‍ ॥३॥
हन्त्येव प्रातरेतत्तु स्थापितं च मुखे मुहु: । जिह्वाविशोधनं हृद्यं दीपनं भक्तरोचकम्‍ ॥४॥
हृत्पीडापार्श्वशूलघ्नं विबन्धानाहनाशनम्‍ । कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्‍ ॥५॥
इति यवानीखाण्डवचूर्णम्‍ ॥

॥ अथ खाण्डवचूर्णम्‍ ॥
तुल्यं तालीसचव्योषणलवणगजद्विष्कणाग्रन्थ्यजाजीवृक्षाम्लाग्नित्वचं त्रिर्घनबदरधनैलाजमोदाम्लविश्वम्‍ । सार्धश्वेताड्घ्रिसारोऽतिसृतिकृमिवमौ खाण्डवचूर्णम्‍ बोपदेवशतात्‍ ॥
॥ अथामलक्यादिचूर्णम्‍ ॥
आमलं चित्रकं पथ्या पिप्पली सैन्धवं तथा । चूर्णितोऽयं गणो ज्ञेयं: सर्वज्वरविनाशन: । भेदी रुचिकर: श्लेष्मजेता दीपनपाचन: ॥१॥
इति शार्ड्गधरात्‍ ॥

॥ अथ कर्पूराद्यं चूर्णम्‍ ॥
कर्पूरचोचकक्कोलजातीफलदला: समा: । लवड्गनागमरिचकृष्णाशुण्ठीविवर्धिता: ॥१॥
चूर्णं सितासमं ग्राह्यं रोचनं क्षयकासजित्‍ । वैस्वर्यश्वासगुल्मार्शश्छार्दिकण्ठामयापहम्‍ ॥ प्रयुक्तं चान्नपानेषु भिषजा रोगिणां हितम्‍ ॥२॥
इति शार्ड्गधरात्‍ ॥

॥ अथावलेह: ॥
शार्ड्गधरात्‍ । आर्द्रकमातुलुड्गावलेह: । आर्द्रकस्वरसं प्रस्थं तदर्धांशं गुडं क्षिपेत्‍ । कुडवं बीजपुराम्लं गालयित्वा विचक्षण: ॥१॥
सर्वं मन्दाग्निना पक्त्वा तत्रेमानि विनिक्षेपत्‍ । त्रिजातकं त्रिकुटकं त्रिफलायासमेव च ॥२॥
चित्रकं ग्रन्थिकं धान्यं जीरकद्वयमेव च । कर्षांशं श्लक्ष्णचूर्णं तु मेलयित्वा तु भक्षयेत्‍ ॥३॥
अरोचकक्षयहरमग्निदीप्तिकरं परम्‍ । कामलापाण्डुशोफग्नं श्वासकासहरं परम्‍ ॥ आध्मानो हरगुल्मानि प्लीहशूले च नाशयेत्‍ ॥४॥

॥ अथ खण्डार्द्रयोग: ॥
योगसागरात्‍ । आर्द्रकस्य सितायाश्च द्विगुणाष्टपलानि च । निष्कद्वादशकं तीक्ष्णमष्टनिष्का च भागधी ॥१॥
अष्टनिष्कं च तन्मूलं पञ्चनिष्कं च नागरम्‍ । जातीफलेलादहनं वंशाद्या: पञ्चनिष्कका: ॥२॥
सर्वाण्येतानि शुष्काणी चूर्णं कृत्वा पृथक्पृथक्‍ । आर्द्रकं खण्डश: कृत्वा गोवृत्तेऽष्टपले पचेत्‍ ॥३॥
शर्करापूर्वचूर्ण च चार्द्रकं सह मेलयेत्‍ । मण्डलं सेवयेन्नित्यं महापित्तविनाशनम्‍ ॥४॥
आम्लपित्तं निहन्त्याशु सर्वपित्तविकारजित्‍ । सर्वारुचि वातरोगं मन्दाग्निं च नियच्छति ॥५॥
इति खण्डार्द्रकयोग: ॥

॥ अथार्द्रकयोग: ॥
मदनपालात्‍ । धौतं खण्डितमार्द्रकं च सलिलै: क्षिप्तं सृतप्ते घृते सिन्धूत्थं मरिचं मुजीरयुगुलं चूर्णीकृतं प्रक्षिपेत्‍ । चूर्णं भृष्टयवोद्भवं च वितुषं हिड्ग्वाज्यधूमे दहेदित्थं दोषविहीनमार्द्रकवरं सुस्वादु सञ्जायते ॥१॥

॥ अथ मातुलुड्गादियोग: ॥
मातुलुड्गफलकेसरोद्‍ध्रृत: सिन्धूजन्ममरिचान्वितो मुखे । हन्ति वातकफरोगमास्यगं शोषमास्यजडतामरोचकम्‍ ॥१॥

॥ अथ मातुलुड्गकेसरगुणा: ॥
केसरं मातुलुड्गस्य सैन्धवं मधुनापि वा । आस्यवैरस्यशमनं भक्षयेत्कर्षसम्मितम्‍ ॥१॥
शमयति केसरमरुचिं सलवनघृतमाशु मातुलुड्गस्य । दाडिमचर्वणमथवा चरको रुचिकारि सूचयामास ॥२॥
इति चिकित्सासारात्‍ ॥

॥ अथ शर्करादियोग: ॥
शर्करा दाडिमं चाथ द्राक्षा खर्जूरमेव च ॥१॥
अथार्द्रकदाडिमयोगद्वयम्‍ । निह्वाकण्ठविशोधनं तदनु च स्याच्छृबेरान्वितं सिन्धूत्थं हितमत्र चाथ मधुना शस्तो रसो दाडिम: । अग्न्युब्दोधकराण्यजीर्णशमनान्याहुस्तथा भेषजान्यत्रारोचकत्दृत्प्रयोगमसकृत्तत्तत्प्रदेयानि च ॥१॥ इति लघुयोगत: ॥

॥ अथ सारसड्ग्रहाज्जीरकाद्यं घृतम्‍ ॥
पिष्ट्वाजाजीं सधान्याकं घृतप्रस्थं विपाचयेत्‍ । कफपित्तारुचिहरं मन्दानलवमी जयेत्‍ ॥१॥ इति जीरकाद्यं घृतम्‍ ॥

॥ अथ रसा: ॥
॥ अथ सूतादिगुटिका ॥
सूतगन्धाभ्रमगन्धाम्लिकामरिचसैन्धवै: । गुटिकारोचकहरी जिह्वावदनशुद्धिकृत्‍ ॥१॥
योगतरड्गिण्या: ॥ मदनिग्रहाल्लघुचुक्रसन्धानम्‍ । गुडक्षौद्रारनालानि समस्तानि यथोत्तरम्‍ । शंसन्ति द्विगुणान्भागान्सम्यक‍ चुक्रस्य सिद्धये ॥१॥
यन्मस्त्वादि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिकम्‍ । धान्यरशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥२॥

॥ अथ पथ्यापथ्यम्‍ ॥
गोधूममुद्गादारूणशालिषष्टिका मांसं वराहाजशशैणसम्भवम्‍ । चेगोझषाण्डं मधुरालिकं लिश: प्रोष्ठी खलेश: कवरी च रोहित: ॥१॥
कर्कारुवेत्राग्रनवीनमूलकं वार्ताकसौभाञ्जनमोचदाडिमम‍ । भव्यं पटोलं रुचकं पयो घृतं बालानि तालानि रसोनसूरणम्‍ ॥२॥
द्राक्षारसालं नलदाम्बु काञ्जिकं कोलं रसालां दधि तक्रमार्द्रकम्‍ । स्वाद्वम्लतिक्तानि च देहमार्जनं वर्गोऽयमुक्तोऽरुचिरोगिणां हित: ॥३॥
तृष्णोद्गारक्षुधानेत्रवारिवेगविधारणम्‍ । अत्दृद्यान्नमड्गमोक्षं क्रोधं लोभं भयं शुचम्‍ ॥ दुर्गन्धानूपसेवां च न कुर्यादरुची नर: ॥४॥ इति पथ्यापथ्यम्‍ । इत्यरोचक चिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-20T18:44:45.7970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sspring

  • पु. स्प्रिंग 
  • पु. स्कंद 
RANDOM WORD

Did you know?

विनायकी आणि संकष्टी चतुर्थीबद्दल शास्त्रार्थ सांगावा.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.