TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मुष्कान्त्रवृद्धिवर्ध्मरोगनिदानम् ॥

॥ अथ मुष्कान्त्रवृद्धिवर्ध्मरोगनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ मुष्कान्त्रवृद्धिवर्ध्मरोगनिदानम् ॥
॥ अथ मुष्कान्त्रवृद्धिवर्ध्मरोगनिदानम्‍ ॥
तस्य संप्राप्तिमाह ॥ क्रुद्धोऽनूर्ध्वगतिर्वायु: शोथशूलकरश्चरन्‍ । मुष्कौ वड्गक्षणत: प्राप्य फलकोशाभिवाहिनी: ॥ प्रपीड्य धमनीर्वृद्धिं करोति फलकोशयो: ॥१॥
वृद्धे: संख्यामाह ॥ दोषास्त्रमेदोमूत्रान्त्रै: सवृद्धि: सप्तधा गद: । मूत्रान्स्त्रजावप्यनिलाद्धेतुभेदस्तु केवल: ॥१॥
वातजमाह ॥ वातपूर्णदृतिस्पर्शो रुक्षो वातादहेतरुक्‍ ॥१॥
पित्तजमाह ॥ पक्वोदुम्बरसड्काश: पित्ताद्दाहोष्मपाकवान्‍ ॥१॥
श्लेष्मजमाह ॥ कफाच्छीतो गुरु: स्निग्ध: कण्डूमान्कठिनोऽल्परुक्‍ ॥१॥
रक्तजमाह ॥ कृष्णस्फोटावृत: पित्तवृद्धिलिड्गश्च रक्तज: ॥१॥
मेदोजमाह ॥ कफवन्मेदसावृद्धिर्मृदुस्तालफलोपम: ॥१॥ मूत्रजमाह ॥ मूत्रधारणशीलस्य मूत्रज: स तु गच्छत: । अम्भोभि: पूर्णदृतिवत्क्षोभं याति सरुड्‍ मृदु: ॥१॥
मूत्रकृच्छ्रमधस्तात्स्याच्चालयन्‍ फलकोशयो: ॥१॥
अन्त्रजमाह ॥ वातकोपिभिराहारै: शीततोयावगाहनै: । धारणेरणभाराध्वविषमाड्गप्रवर्तनै: ॥१॥
क्षोभणै: कुपितोऽन्यैश्च क्षुद्रान्त्रावयवं यदि । पवनो द्विगुणीकृत्य स्वनिवेशादधो नयेत्‍ ॥ कुर्याद्वड्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ॥२॥
उपेक्ष्यमाणतयाण्डवृद्धिमाह ॥ उपेक्ष्यमाणस्य च मुष्कवृद्धिमाध्मानरुकस्तम्भवतीं स कुर्यात्‍ । प्रपीडितोऽन्त: स्वनवान्‍ प्रयाति प्राध्मापयन्नेति पुनश्च मुक्त: ॥१॥
असाध्यमाह ॥ यस्यान्त्रावयवै: श्लेष्मा मुष्कयोर्याति संचयात्‍ । अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृति: ॥ रुक्षकृष्णारुणसितस्तन्तुजालसमावृत: ॥१॥
इत्यन्त्रवृद्धिनिदानम्‍ ॥ अथ वर्ध्मनिदानम्‍ ॥ अत्यभिष्यन्दिगुर्वन्नसेवनान्निचयं गत: । करोति ग्रन्थिवच्छोथं दोषो वड्क्षणसन्धिषु ॥ ज्वरशूलाड्गसादाढ्यं तं वर्ध्ममिति निर्दिशेत्‍ ॥१॥
इति वर्ध्मनिदानम्‍ । इति मुष्कान्त्रवृद्धिवर्ध्मनिदानम्‍ ॥

॥ अथ तच्चिकित्सामाह ॥
अथ वातवृद्धिचिकित्सा ॥ सक्षीरं वा पिबेत्तैलं मासम्रण्डसंभवम्‍ । गुग्गुलूरुबुतैलं वा गोमूत्रेण पिबेन्नर: ॥ वातवृद्धिं निहन्त्याशु चिरकालानुबन्धिनीम्‍ ॥१॥
अथ पित्तवृद्धिचिकित्सा ॥ चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम्‍ क्षीरपिष्टै: प्रदेह: स्यात्पित्तवृद्धिरुजापह: ॥१॥
पञ्चवल्कलकल्केन सघृतेन प्रलेपनम्‍ । पानं वापि कषायस्य पित्तवृद्धौ प्रशस्यते ॥२॥
अथ कफवृद्धिचिकित्सा ॥ कफवृद्धौ मूत्रपिष्टैरुष्णवीर्यै: प्रलेपनम्‍ । पातव्यो मूत्रसंयुक्त: कषाय: पीतदारुण: ॥१॥
त्रिकटुत्रिफालाक्वाथं सक्षारलवणं पिबेत्‍ । कफवातात्मकोपघ्नं विरेकात्कफवृद्धिजित्‍ ॥२॥
अथ रक्तवृद्धिचिकित्सा ॥ अविदाहि च भैषज्यं कर्तव्यं रक्तपैत्तिके । सर्व पित्तहरं कार्यं रक्तजे रक्तमोक्षणम्‍ ॥१॥
मुहुर्मुहुर्जलौकाभि: शोणितं रक्तजे हरेत्‍ । शीतमालेपनं सर्वं पाको रक्ष्य: प्रयत्नत: ॥२॥
त्रिवृतं प्रपिबेत्क्षौद्रशर्करासहितं मुहु: । पित्तग्रन्थिक्रमं कुर्यादामे पक्वे च रक्तजे ॥३॥
अथ मेदोवृद्धिचिकित्सा ॥ स्विन्नं मेद: समुत्थानं लेपयेत्सुरसादिना । शिरो विरेचयेद्‍ द्रव्यै: सुखोष्णैर्मूत्रसंयुतै: ॥१॥
अथ षडूषणगुग्गुलु: ॥ षडूषणं क्षौद्रसमं गुग्गुलं गव्यसर्पिषा । प्रयुक्तं कुट्ट्य भुञ्जीत यथाग्नि दिवसानने ॥ कटुतिक्तकषायाशी मेदोवृत्तिप्रणाशनम्‍ ॥१॥
इति मेदोवृद्धि: ॥ अथ मूत्रजेऽन्त्रवृद्धौ च ॥ संस्वेद्य मूत्रप्रभवं वस्त्रखण्डेन वेष्टयेत्‍ । सीवन्या पार्श्वतोऽधस्ताविधेद्‍व्रीहिमुखेन वै ॥१॥
मुष्ककोशमगच्छन्त्यामन्त्रवृद्धौ विचक्षण: । वातवृद्धिक्रमं कुर्याद्दाहस्त्राग्निना हित: ॥२॥
शड्खोपरि च कर्णान्ते त्यक्त्वा सेवनिमादरात्‍ । व्यत्यासाद्वा शिरां विधेदन्त्रवृद्धिनिवृत्तये ॥३॥
तैलमेरण्डजं पीतं बलासिद्धं पयोऽन्वितम्‍  । आध्मानशूलोपचितमन्त्रवृद्धिं जयेन्नर: ॥४॥
रास्त्रायष्टयमृतैरण्डबलागोक्षुरसाधित: । क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुबुतैलेन मिश्रित: ॥५॥
पिप्पली जीरकं कुष्ठं बदरं शुष्कगोमयम्‍ । काञ्जीकेन प्रलेपो‍ऽयमन्त्रवृद्धिविनाशन: ॥६॥
देवदारुमिशीवासाटाकलीमूलसैन्धवै: । क्षौद्रयुक्तैश्च तैर्लेपो वृद्धिमन्त्रभवां जयेत्‍ ॥७॥
अथाण्डवृद्धिचिकित्सा ॥ तैलं नारायणं योज्यं पानाभ्यञ्जनबस्तिषु । गोमूत्रैरण्डतैलाभ्यां रसगन्धककञ्जलीम्‍ ॥१॥
पीत्वा निहन्ति सहस्स वृद्धिं वृषणसंभवाम्‍ । फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव पाचयेत्‍ ॥ वातश्लेष्मकृतं हन्ति शोथं वृषणसंभवम्‍ ॥२॥
प्लक्षाक्षबीजशुण्ठीनिर्गुण्डीनां मिथ: समैश्चूर्णै: । घृतमधुसहिता पिण्डी न क्षमते मुष्कवृद्धिकथाम्‍ ॥३॥
वचासर्षपकल्केन प्रलेप: शोफनाशन: । दार्वीचूर्णं गवां मूत्रैर्निपीतं मुष्कवृद्धिजित्‍ ॥ आर्द्रकस्य रस: क्षौद्रयुक्तो वृषणवातजित्‍ ॥४॥
अथ सामान्यविधि: ॥ अथ मांस्यादि घृतम्‍ ॥ मांसी कुष्ठं पत्रकैला रास्त्रा शृड्गी च चित्रकम्‍ । कृमिघ्नमश्वगन्धाच शैलेयं कटुरोहिणी ॥१॥
सैन्धवं तगरं चैव कुटजातिविषै: समै: । एतैश्च कार्षिकै: कल्कैर्घृतप्रस्थं विपाचयेत्‍ ॥२॥
वृषमुण्डीतकैरण्डनिम्बपत्रभवं रसम्‍ । कण्टकार्याश्चापि दुग्धं प्रस्थं प्रस्थं विनिक्षिपेत्‍ ॥३॥
सिद्धमेतद्‍ घृतं पीतमन्त्रवृद्धिं व्यपोहति । वातवृद्धिं पित्तवृद्धिं मेदोवृद्धिमथापि वा । मूत्रवृद्धिं च हन्त्येत्सर्पिराशु न संशय: ॥४॥
इति मांस्यादिघृतम्‍ ॥ अथ पुनर्नवादि तैलम्‍ ॥ पुनर्नवामृता दारु सक्षारं लवणत्रयम्‍ । कुष्ठं सटी वचा मुस्तं रास्त्रा कट्‍फलपुष्करम्‍ ॥१॥
यवानी हपुषा शिग्रु शताह्वाचाजमेदिका । विड्ड्गातिविषायष्टीपञ्चकोलकसंयुतै: ॥२॥
एतै: कल्क: समैरक्षैस्तैलप्रस्थं विपाचयेत्‍ । गोमूत्रं द्विगुणं देयं काञ्जिकं च तथैव च वृषणाश्रितम्‍ ॥ कफवातोद्भवं शूलमन्त्रवृद्धिविनाशनम्‍ ॥४॥
इत्यन्त्रवृद्धिचिकित्सा ॥ अथ वर्ध्मचिकित्सामाह ॥ मूलं बिल्वाकपित्थयोररलुकस्याग्नेर्बहत्योर्द्वयो: श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम्‍ । कृष्णाग्रन्थिकवेल्लपञ्चलवणं क्षाराजमोदान्वितम्‍ पीतं काञ्जिककोष्णतोयमथितैश्चूर्णीकृतं वर्ध्मजित्‍ ॥१॥
इति बिल्वादिचूर्णम्‍ ॥ भृष्टश्चैरण्डतैलेन कल्क: पथ्यासमुद्भव: । कृष्णासैन्धवसंयुक्तो वर्ध्मरोगहर: पर: ॥१॥
श्वदंष्ट्रासिन्धुविश्वाब्ददारुक्रिमिहराश्मभित्‍ । लोध्रचूर्णं घृतेनाद्याद्वातवर्ध्महरं परम्‍ ॥ २॥
सैन्धवं मदनं कुष्ठं शताह्या निचुलं वचा । ह्यीबेरं मधुकं भार्गी देवदारु सनागरम्‍ ॥३॥
कट्‍फलं पौष्करं मेदा चविका चित्रकं सटी । विड्ड्गातिविषे श्यामा हरेणुर्नीलिनी स्थिरा ॥४॥
बिल्वाजमोदा रास्त्रा च दन्ती कृष्णा च तै: समै: । साध्यमेरण्डजं तैलं तैलं वा कफवातनुत्‍ ॥५॥
वर्ध्मोदावर्तगुल्मार्श:प्लीहमेहाढ्यमारुतान्‍ । आनाहमश्मरीं चैव हन्यात्तदनुवासनात्‍ ॥६॥
इति सैन्धवाद्यं तैलम्‍ ॥ अजाजीहपुषाकुष्ठं गोमयं बदरान्वितम्‍ । काञ्जिकेन तु संपिष्टं कुर्याद्वर्ध्मप्रलेपनम्‍ ॥१॥
सद्यो मृतस्य काकस्य मलेन परिलेपनम्‍ । वर्ध्मरोग: प्रयात्याशु रविणा तिमिरं यथा ॥ पक्केऽत्र दारणं कृत्वा प्रकर्तव्या व्रणक्रिया ॥२॥
इति वर्ध्मचिकित्सा ॥ अथ कुरण्डचिकित्सा ॥ य: पित्तदोषेण कुरण्डरोगो भवेच्छिशोर्दक्षिणमुष्कभागे । तस्योर्ध्वभागं श्रवणस्य विध्येद्वामस्य वामप्रभवे परस्य ॥१॥
अथैरण्डतैलादियोग: ॥ एरण्डतैलसंमिश्रं कासीसं सैन्धवं पिबेत्‍ । वस्त्रेण वृषणं बद्धं कुरण्डज्वरनाशनम्‍ ॥१॥
अथेन्द्रवारूण्यादि ॥ इन्द्रवारुणिकामूलं तैलं पुष्करजं तथा । संमर्द्य च सगोदुग्धं पिबेज्जन्तु: कुरण्डजे ॥१॥
अथ सैन्धवादिलेप: ॥ संचूर्णितं सैन्धवमाज्ययुक्तं संमर्द्यं तोयस्थितमेव सोष्णम्‍ । मुहुर्मुहुर्य: कुरुते प्रलेपं विलीयते तस्य कुरण्डरोग: ॥१॥
इति सैन्धवादिलेप: ॥ गवां घृतेन संयुक्तं क्षिपेत्सैन्धवचूर्णकम्‍ । पिबेत्सप्तदिनं यावत्तावल्लेप: कुरण्डजे ॥१॥
तण्डुलवारिविमिश्रं घृतपुरसंज्ञं यदुच्यते लोके । तन्मूलपिष्टलेपं  कुरण्डगलगण्डयो: कुर्यात्‍ ॥२॥
ईश्वरीमूलमेरण्डमूलं मूषकचर्म च । प्रलेप: स्यात्कुरण्डानां रोगविच्छेदकारक: ॥३॥
सुपेषितं ब्राह्मणयष्टिकाया: मूलं समं तण्डुलधावनेन । निहन्ति लेपाद्‍ गलगण्डमालां कुरण्डमुख्यानखिलान्‍ विकारान्‍ ॥४॥
वातारितैलमृदितं सुरवारूणीजं मूलं नर: पिबति यो मसृणं विचूर्ण्य । गव्ये निधाय पयसि त्रिदिनावसाने तस्य प्रनश्यति कुरण्डकृतो विकार: ॥५॥
गोमूत्रसिद्धां रुबुतैलभृष्टां हरीतकीं सैन्धवचूर्णयुक्ताम्‍ । खादेन्नर: कोष्णजलानुपानान्निहन्ति कूरण्डमतीव वृद्धम्‍ ॥६॥
शम्बूकोदरनिहितं गव्यं सप्ताहमातपेसर्पि: । स्थितमपहरति कुरण्डं सैन्धवचूर्णान्वितं लेपात्‍ ॥७॥
इति कुरण्डचिकित्सा ॥ अथ पथ्यापथ्यम्‍ ॥ संशोधनं वस्तिरसृगविमोक्ष: स्वेद: प्रलेपोऽरुणशलायश्च । एरण्डतैलं सुरभीजलं च धन्वामिषं शिग्रुफलं पटोलम्‍ ॥१॥
पुनर्नवागोक्षुरकाग्निमन्थं ताम्बूलपथ्यारसनारसोनम्‍ । वान्त्यड्गनागृञ्जनकं मधूनि कौम्भं घृतं तप्तजलं च तक्रम्‍ ॥२॥
अर्धेन्दुवद्वड्क्षणयोश्च दाहो व्यत्यासतो बा हुशिराव्यधश्च । यथामयं शस्त्रविधिश्च वर्ग: स्याद्वर्ध्मवृद्ध्यामयिनां सुखाय ॥३॥
आनूपमांसानि दधीनि माषा: पिष्टानि दुष्टान्नमुपोदिका च । गुरुणि शुक्रोत्थितवेगरोधा: स्युर्वर्ध्मवृद्ध्यामयिनाममित्रा: ॥४॥
अथ वृन्दात्‍ । वेगाहतिं पृष्ठयानं व्यायामं मैथुनं तथा । अत्याशनमथाध्वानमुपवासं परित्यजेत्‍ ॥१॥
इति मुष्कान्त्रवृद्धिवर्घ्मकुरण्डचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T19:54:43.9700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

impulse period

  • विस्पंद काल 
RANDOM WORD

Did you know?

What is the difference between Smarta & Bhagwata Ekadashi?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site