संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ साराणि ॥

॥ अथ साराणि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सारं भोजनसारं सारं सारङ्गलोचनाधरतः ।
पिब खलु वारं वारं नो चेन्मुधा भवति संसारः ॥१॥
अम्लिकायाः पलं पक्कं प्रस्थे नीरे विनिक्षिपेत्‌ ।
अर्द्धावशिष्टे पूते च मरीचार्धपलं तथा ॥२॥
सैन्धवं जरणं हिङ्गु यथायोग्यं प्रकल्पयेत्‌ ।
श्लक्ष्णपिष्टकृतं सर्वं तस्मिंस्तोये विनिक्षिपेत्‌ ॥३॥
कालशाकेन संयोज्य चार्द्रा कुस्तुम्बरीं भिषक्‌ ।
पुनः पाकं विधायाथ यथाकालं च सेवयेत्‌ ॥४॥
अम्लिकाफलसम्भूतं सारं वातविनाशनम्‌ ।
पित्तश्लेष्मकरं किंचित्सुरुच्यं वह्निबोधकम्‌ ॥५॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP