TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथातीसारनिदानम् ॥

॥ अथातीसारनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथातीसारनिदानम् ॥
॥ अथातीसारनिदानम्‍ ॥
क्षीरमत्स्यादि यद्भुतं तद्विरुद्धाशनं मतम्‍ । भुक्तस्योपरि यद्भुक्तं तद्‍ध्यशनमुच्यते ॥१॥
गुर्वतिस्त्रिग्धरुक्षोष्णद्र्वस्थूलातिशीतलै: । विरुद्धाध्यशनाजीर्णैर्विषमैश्चातिभोजनै: ॥२॥
स्नेहादयिरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयै: । शोकदुष्टाम्बुमद्यातिपानै: सात्म्यविषर्ययै: ॥३॥
जलाभिरमणैर्वेगविघार्तं: कृमिदोषत: । नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ॥४॥
संशम्यापां धातुग्रि प्रवृद्धो वर्चोमिश्रो वायुनाध: प्रणुन्नसरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षडविधं तं वदन्ति ॥५॥
एकैकश: सर्वशश्चापि दोषै: शोकिनान्य: षष्ठ आमेन चोक्त: । केचिज्वाहुर्नैकरुपप्रकारं नेत्येवं तं काशिराजस्त्वेवोचत्‍ ॥६॥
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधा: । विट्‍सड्गमाध्मानमथाविपाको भविष्यतस्तस्य पुर:सराणि ॥७॥
अरूणं फेनिलं रुक्षमल्पमल्पं मुहुर्महु: । शकृदामं सरुक‍शब्दं मारुतेनातिसार्यते ॥८॥
पित्तात्पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकोपत्रम्‍ । शुल्कं सान्द्रं श्लेष्मणा श्लेष्मजुष्टं विस्त्रं शीतं हृष्टरोमा मनुष्य: ॥९॥
वराहस्नेहमांसाम्बुसदृशं सर्वरुपिणम्‍ । कृच्छ्र्साध्यमतीसारं विद्याद्दोषत्रयोद्भवम्‍ ॥१०॥
तैस्तैर्भावै: शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तो: । कोष्ठं गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात्काकणन्तीप्रकाशम्‍ ॥११॥
निर्गच्छेद्वै विड्विमिश्रं ह्यविड्वा निर्गन्धं वा गन्धवद्वातिसार: शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यै: कष्ट एव प्रदिष्ट: ॥१२॥
अन्नाजीर्णात्‍ प्रद्रुता:  क्षोभयन्त: कोष्ठं दोषा धातुसंघान्‍ मलांश्च । नानावर्णं प्रायश: सारयन्ति शूलोपेतं कष्टमेनं वदन्ति ॥१३॥
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति । पुरीषं भूषदुर्गन्धि पिच्छिलं चामसंज्ञितम्‍ ॥१४॥
आमाशयस्थ:  कायाग्नेर्दौर्बल्यादविपाचित: । अपक्वाहारधातुर्यं स आम इति संज्ञित: ॥१५॥
उष्मणो‍ल्पबलत्वेन धातुमाद्यमपाचितम्‍ । दुष्टमामाशयगतं रसमामं प्रवक्षते ॥१६॥
एतान्येव तु लिड्गानि विपरीतानि यस्य वै । लाघवं च विशेषण तस्य पक्वं विनिर्दिशेत्‍ ॥१७॥
नात्युपद्रवतायुक्तं नातिदुष्टेषु धातुषु । बाले वृद्धेऽप्यसाध्योऽयं रुपैरेतैरुपद्रवै: ॥१८॥
अपि यूनामसाध्य: स्यादतिदुष्टेषु धातुषु ॥१९॥
लशुनकुणपगन्धं पूतिगन्धं घनं वा पलजलसमानं पक्वजम्बूफलाभम्‍ । घृतमधुपयाआभं तैलशैवालनीलं सुघनदधिसवर्णं वर्जयेच्चातिसारम्‍ ॥२०॥
शोफं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम्‍ । छर्दि मूर्च्छा च हिक्कां च दृष्ट्वातीसारिणं त्यजेत्‍ ॥२१॥
पित्तकृन्ति यदात्यर्थं द्र्व्याण्यश्नाति पैत्तिके । तदोपजायते तीव्रो रक्तातीसार उल्बण: ॥ दोषलिड्गेन मतिमान्संसर्गं तत्र लक्षयेत्‍ ॥२२॥
वायु: प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य । प्रवाहतोऽल्पं बहुशो मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञा: ॥२३॥
प्रवाहिका वातकृता: सशूला: पित्तात्सदाहा: सकफा: कफाच्च । सशोणिता: शोणितसम्भवाश्चता: स्नेहरुक्षप्रभवा मतास्तु ॥ तासामतीसारवदादिशेच्च लिड्गं क्रमं चामविपक्वतां च ॥२४॥
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति । दीप्ताग्नेर्लघुकोष्ठस्य च्छिन्नस्तस्योदरामय: ॥२५॥
ज्वरातिसारयोरुक्तं निदानं च पृथक्‍ पृथक्‍ । तस्माज्ज्वरातिसारस्य तेन नात्रोदितं पुन: ॥२६॥
स्तम्भो वेपथुराध्मानमुष्णगात्रविपर्यय: । गतायुषामतीसारे व्यञ्जनान्युपलक्षयेत्‍ ॥२७॥
तृट्‍कासशोषज्वरदाहमूर्च्छाहिक्कान्नविद्वेषणवान्तिशूलै: । युक्तोऽतिसारी स्मरतु प्रसह्य गोविन्द गोपाल गदाधरेति ॥२८॥
इत्यतीसारनिदानम्‍ ॥
==============================
॥ अथैतच्चिकित्सितं व्याख्यास्याम: ॥
हितं लड्घनमेवादौ पूर्वत्तेन मानव: । षडड्गं वाथवा यूषं पिप्पल्यादिं प्रयोजयेत्‍ ॥१॥
मुद्गयुषं रसं तक्रं धान्यजीरकसंयुतम्‍ । षड्ड्गं यूषमित्याहु: सैन्धवेन समन्वितम्‍ ॥२॥
अग्निसंदीपनं प्रोक्तं ग्रहणीदोषनाशनम्‍ । अरोचकं ज्वरे चैव श्रेष्ठमेव प्रवाहिके ॥३॥
बिल्वं च धान्यं च सजीरकं च पाठां च शुण्ठीं तिलसंयुतां च । पिष्ट्वा षड्ग: स हितो नराणां यूषो ह्यतीसारहर: प्रदिष्ठ: ॥४॥
इति षडड्गयूष: । तृष्णापनयनी लघ्वी दीपनी बस्तिशोधिनी । चिते चैवातिसारे च यवागू: सर्वदा हिता ॥५॥
इत्यतीसारपूर्वरुपचिकित्सा ॥
============================
॥ अथामातिसारचिकित्सा ॥
आमपक्वक्रमं हित्वा नातिसारे क्रिया हिता । अत: सर्वातिसारेषु ज्ञेयं पक्वामलक्षणम्‍ ॥१॥
आमे विलड्घनं शस्तमादौ पाचनमेव च । कार्यं वानशनस्यान्तेसद्रवं लघु भोजनम्‍ ॥२॥
लड्घनमेकं मुक्त्वा नान्यदस्तीह भेषजं बलिनाम्‍ । समुदीर्णदोषचयं शमयति तत्पाचयत्येव ॥३॥
ह्रीबेरशृड्गबेराभ्यां मुस्तपर्पटकेन वा । मुस्तोदीच्यशृतं तोयं देयं चापि पिपासवे ॥४॥
न तु संग्रहणं दद्यात्पूर्वमामातिसारिणाम्‍ । दोषो ह्यादौ वर्धमानो जनयत्यामयान्‍ बहुन्‍ ॥५॥
शोफपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान्‍ । दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा ॥६॥
डिम्भक: स्थविरो वापि वातपित्तात्मकश्च य: । क्षीणधातुर्ज्वरार्तश्चह बहुदोषो‍ऽतिविस्त्रुत: ॥७॥
आमोऽपि स्तम्भनीय: स्यात्पाचनान्मरणं भवेत्‍ । अतिसारे ज्वरे चैव रक्तपित्ते दृगामये ॥८॥
आदौ न प्रतिकुर्वीत व्याधिवेगो हि दुस्तर: । स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते ॥९॥
अभयापिप्पलीकल्कै: सुखोष्णैस्तं विरेचयेत्‍ । दीप्ताग्निर्बहुदोषो यो विबन्धमतिसार्यते ॥१०॥
विड्गत्रिफलाकृष्णाकधायैस्तं विरेचयेत्‍ । क्षुत्क्षामस्य विरिक्ते तु पेयां युञ्ज्याद्विचक्षण: ॥११॥
भेषजैर्मारुतघ्रैश्च दीपनीयैश्च कल्पिताम्‍ । योऽतिबद्धं प्रभृतं च पुरीषमतिसार्यते ॥१२॥
तस्यादौ वमनं योज्यं पश्चाल्लड्घनमुच्यते । देवदारुवचामुस्तं नागरातिविषाभयम्‍ ॥ सर्वाजीर्णप्रशमनं पेयमेतै शृतं पय: ॥१३॥
त्र्यूषणातिविषाहिड्गुवचासौवर्चलाभया: । पीत्वोष्णेनाम्भसा जह्यादामातीसारमुद्भतम्‍ ॥१४॥
पाठाहिड्ग्वजमोदोग्रापञ्च्कोलाब्दजं रज: । उष्णाम्बुपीतं सरुजं जयत्यामं ससैन्धवम्‍ ॥१५॥
चित्रकं पिप्पलीमूलं वचा कटुकरोहिणी । पाठावत्सकबीजानि हरितक्यो महौषधम्‍ ॥१६॥
एतामसमुत्थानमतिसारं सवेदनम्‍ । कफात्मकं सपित्तं च सवातं हन्ति वै ध्रुवम्‍ ॥१७॥
विश्वाभयाघनवचातिविषासुराह्वक्वाथोऽथ विश्वजलदातिविषाशृतो वा । आमातिसारशमन: कथित: कषाय: शुण्ठीघनाप्रतिविषामृतवल्लिजो वा ॥१८॥
धान्यवालकब्दिल्वाब्दनागरै: साधितं जलम्‍ । आमशूलहरं ग्राहि दीपनं पाचनं परम्‍ ॥१९॥
पित्ते धान्यचतुष्कं तु शुण्ठीत्यागाद्वदन्ति हि । चूर्णं किञ्चिद्‍घृताभ्यक्तं शुण्ठ्या एरण्डजैर्दलै: । वेष्ठितं पुटपाकेन विपचेन्मन्दवह्निना ॥२०॥
तत उद्‍धृत्य तच्चूर्णं ग्राह्यं प्रात: सितासमम्‍ । तेन याति शमं पीडा आमातीसारसम्भवा ॥२१॥
कुक्षिशूलामशूलग्नं विबन्धाध्मातिसारजित्‍ । सेवितं सगुढं बिल्वं बिल्वतुल्यपयोधरे ॥२२॥
शुण्ठी जीरं सैन्धवं हिड्गु जातीबीजं तद्वत्साहकारं प्रशस्तम्‍ । ज्ञेयं सद्भि: साखरूडं सबिल्वं मार्कण्ड्यार्यैर्योजितं सूक्ष्मचूर्णम्‍ ॥२३॥
दग्धा च वटिकां कुर्यात्तेनैव सह लेहयेत्‍ । आमातीसारमान्द्यं च अरुचिं हन्ति च क्षणात्‍ ॥२४॥
सत्वाशुण्ठ्योषणं भृड्गीसमांशं सूक्ष्मं चूर्णयेत्‍ । यथासात्म्यं सेवनीयं शीततोयानुपानत: ॥२५॥
सशूलमामदोषं च नाशमायाति सत्वरम्‍ । दध्योदनं पथ्यमत्र उवितं रोगशान्तये ॥२६॥
जयाखण्डं साखरुडं जीरकं दधिमिश्रितम्‍ । आमातिसाररक्तं च हन्ति वेगेन कौतुकम्‍ ॥२७॥
शुण्ठीसातिविषाहिड्गुमुस्तातु टजचित्रकै: । चूर्णमुष्णाम्बुना पीतमामातीसारनाशनम्‍ ॥२८॥
हरीतकी प्रतिविषा सिन्धुसौवर्चलं वचा । हिड्गु चेति कृतं चूर्णं पिबेदुष्णेन वारिणा ॥२९॥
आमातीसारशमनं ग्राहि चाग्निप्रदीपनम्‍ । पयस्युत्क्वाथ्य मस्तानां विंशतिं त्रिगुणाम्भसि ॥३०॥
क्षीरावशेषं तत्पीतं हन्त्यामं शूलमेव च । धान्यनागरज: क्वाथ: पाचनो दीपनस्तथा ॥३१॥
एरण्डमूलयुक्तश्च जयेदामानिलव्यथाम्‍ । यवानी नागरोशीर धनिकातिविषाघनै: ॥३२॥
बालबिल्वाद्वपर्णीभिर्दिपनं पाचनं भवेत्‍ । कलिड्गाति विषाहिड्गुपथ्यासौवर्चलं वचा ॥३३॥
शूलस्तम्भविबन्धघ्नं देयं दीपपाचनम्‍ । निरामरुपं शूलार्तं लड्घनाद्यैश्च कर्षितम्‍ ॥३४॥
क्षारनागरचाड्गेरीकोलदध्याम्लसाधितम्‍ । सर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये ॥३५॥
इत्यामातिसारचिकित्सा ॥
=============================
॥ अथ पक्वातिसारचिकित्सा ॥
सलोध्रं धातकीबिल्वं मुस्ताम्रास्थिकलिड्कम्‍ । पिबेन्माहिषतक्रेण पक्वातीसारनाशनम्‍ ॥१॥
पद्मं समड्गामधुकं बिल्वजं तु शलाटु च । पिबेत्तण्डुलतोयेन सक्षौद्रमगदं परम्‍ ॥२॥
कुटजातिविशाचूर्णं मधुना सह लेहितम्‍ चिरोत्थितमतीसारं पक्वं पित्तास्त्रजं जयेत्‍ ॥३॥
मोचरसमुस्तनागरपाठारलुधातकीकुसुमै: । चूर्णं मथितसमेतं रुणद्धि गड्गाप्रवाहमपि ॥४॥
इति लघुगुड्गाधरचूर्णम्‍ । मुस्तमोचरसलोध्रघातकीपुष्पबिल्वगिरिकौटजै: फलै: । चूर्णितै: सगुडतक्रसेवितैर्निम्रगाजलरयोऽपि रुध्यते ॥५॥
इति वृद्धगड्गाधर्चूर्णम्‍ ।
अड्कोलमूलकल्क: सक्षौद्रस्तण्डुलाम्बुना पीत: । सेतुरिव वारिवेगं झटिति निरुन्ध्यादतीसारम्‍ ॥१॥
अजमोदामोचरसं सशृड्गबेरं सधातकीकुसुमम‍ । करमथितसम्प्रयुक्तं गड्गामपि वाहिनीं रुन्ध्यात्‍ ॥२॥
विश्वजीरकसिन्धूत्थं हिड्गुजातीफलानी च । साम्रास्थिशड्खखण्डंच दग्धाम्लेन प्रपेषयेत्‍ ॥३॥
ईषदड्गारकैर्भृष्टा वटिका कर्षसम्मिता । पक्वापक्वमतीसारं सशूलं ग्रहणीगदम्‍ ॥ चिरोत्थमचिरोत्थं च नाशयेन्नात्र संशय: ॥४॥
वटप्ररोहं सम्पिष्टं श्लक्ष्णं तण्डुलवारिणा । तं पिबेत्तक्रसंयुक्ततीसारप्रशातये ॥५॥
इति पक्वातिसारचिकित्सा ॥  
==================================
॥ अथ वातातिसारचिकित्सा ॥
कपित्थबिल्वचाड्गेरीतक्रदाडिमसाधिता । ग्राहिणी पाचती पेया वाते वा पञ्च्मूलिका ॥१॥
पञ्चमूलबलाविश्वधान्यकोत्पलबिल्वजा । वातातिसारिणे देया सक्तुनान्यतमेन वा ॥२॥
वचा प्रतिविषा मुस्ता वीजानि कुटजस्य च । श्रेष्ठो वातातिसारे च योगोऽयं वैद्यपूजित: ॥३॥
पूतिकं मागधी शुण्ठी बला धान्यं हरीतकी । पक्वाम्बुना पिबेत्सामवातातीसारशान्तये ॥४॥
इति वातातिसारचिकित्सा ॥
==============================
॥ अथ पित्तातिसारचिकित्सा ॥
आमान्वयमतीसारं पैत्तिकं लड्घनैर्जयेत्‍ । लड्घितस्य यथा सात्म्यं यवागूमण्डतर्पणै: ॥१॥
शृतचन्दनमुस्ताभ्यां पटोलोदीच्यनागरै: । पेयामाम्लामतक्रां वा पाचनीं ग्राहिणीं पिबेत्‍ ॥२॥
धान्योदीच्यशृतं तोयं तृष्णादाहातिसारवान्‍ । ताभ्यामेव सपाठाभ्यां सिद्धमाहारमाचरेत्‍ ॥३॥
बिल्वशक्रयवाम्भोदवालकातिविषाकृत: । कषायो हन्त्यतीसारं सामं पित्तसमुद्भम ॥४॥
रसाञ्जनं प्रतिविषं कुटजस्य फलत्वधौ। धातकी शृड्गबेरं च पाययेत्तण्डुलाम्बुना ॥५॥
मक्षिकेण युतं हन्यात्पित्तातीसारमुल्बणम्‍ । मन्दं संदीपयेदग्निं शूलं चाशु निवर्तयेत्‍ ॥६॥
मधुकं कटफलं लोध्रं दाडिमस्य फलत्वचम्‍ । पित्तातिसारे मध्वक्तं पाययेत्तण्डुलाम्बुना ॥७॥
समड्गा धातकीपुष्पं बिल्वं सौवर्चलं बिडम्‍ । सक्षौद्रं दाडिमं चैव पीतं तण्डुलवारिणा ॥८॥
चूर्णं पित्तातिसारघ्रं शूलं चाशु च निर्हरेत्‍ । सक्षौद्रातिविषां पिष्ट्वा वत्सकस्य फलं त्वचम्‍ ॥९॥
तण्डुलोदकसंयुक्तं पेयं पित्तातिसारनुत्‍ । कट्‍फलातिविषाम्भोदवत्सकं नागरान्वितम्‍ ॥१०॥
शृतं पित्तातिसारघ्नं पातव्यं मधुसंयुतम्‍ । पलं वत्सकसंसिद्धं चतुर्गुणजले घृतम्‍ । पित्तातिसारे भिषजा देयं दीपनपाचनम्‍ ॥११॥
इति धान्याकघृतम्‍ । इति पित्तातिसारचिकित्सा ॥
========================================
॥ अथ रक्तातिसारचिकित्सा ॥
जम्ब्वाम्रामलकीनां च पल्लवैश्च रसो जयेत्‍ ॥ मध्वाज्यक्षीरसंयुक्तो रक्त्तातीसारनाशन: ॥१॥
गुडेन खादयेद्बिल्वं रक्तातीसारनाशनम्‍ । आमशूलविबन्धघ्नं तुक्षिरोगविनाशनम्‍ ॥२॥
कुटजातिविषामुस्तं वालकं लोध्रचन्दनम्‍ । धातकीदाडिमं पाठा क्वाथं क्षौद्रयुतं पिबेत्‍ ॥३॥
दाहे रक्ते सशूले च आमरोगे च दुस्तरे । कुटजाष्ठमिदं ख्यातं सर्वातीसारनाशनम्‍ ॥४॥
इति कुटजाष्टकक्वाथ: ॥
सवत्सक: सातिविष: सबिल्व: सोदीच्यमुस्तश्च कृत: कषाय: । सामे सशूले च सशोणिते च चिरप्रवृत्तेऽपि हितोऽतिसारे ॥१॥
लघुचेतकिजीरके समे मृदुभृष्टे च सुचूर्णितेऽर्पिते । सह तण्डुलवारिणा मतेऽतिसृतिघ्ने इति सिद्ध्योग एष: ॥२॥
अयि कन्दुकनिन्दकस्तनि प्रमदारुपमदापहारिणि । रुधिरातिसृतौ कषायक: समधुर्दाडिमवत्सकत्वच: ॥३॥
चन्दनं विमलतण्डुलाम्बुना संयुतं मधुयुतं सितायुतम्‍ तृडविखण्डनमसूग्विखण्डनं खण्डनं पचुरदाहमेहयो: ॥४॥
ह्यीबेरातिविषामुस्तं बिल्वधान्यकवत्सकम्‍ । समड्गाधातकीलोध्रं विश्वं दीपपाचनम्‍ ॥५॥
हन्त्यरोचकपिच्छामं विबन्धं चातिवेदनम्‍ । सशोणितमतीसारं सज्वरं वाथ विज्वरम्‍ ॥६॥
बिल्वं छागपय: सिद्धं सितामोचरसान्वितम्‍ । कलिड्गचूर्णसंयुक्तं रक्तातीसारनाशनम्‍ ॥७॥
रसाञ्जनं सातिविषं कुटजस्य फलत्वचम्‍ । धातकी शृड्गबेरं च पिबेत्तण्डुलवारिणा ॥८॥
क्षौद्रेण युक्तं तद्देयं रक्तातीसारमुल्बणम्‍ । जलमुष्ठगुणं दत्वा पलं कण्डिततण्डुलान्‍ ॥ धावयित्वा ततो देयं तण्डुलोदककर्मणि ॥९॥
सहरीतकीप्रतिविषारुचकं सवचं सहिड्गु सकलिड्गुयुतम्‍  । इति तत्कलिड्गयुतषट्‍कमिदं रुधिरातिसारगुदशूलहरम्‍ ॥१०॥
इति चिकित्साकलिकात: ॥ अथ पिच्छबस्ति: ॥ अल्पापं बहुशो रक्तं सशूलमुपवेश्यते । यदा वायुर्विबद्धश्च पिच्छबस्तिस्तदा हित: ॥१॥
शाल्मलेरार्द्रपुष्पाणि पुटपाकीकृतानि च । संकुट्योलूखले सम्यग्‍  गृह्यियात्पयसि शृते ॥२॥
गृहीत्वा च पलं तस्य त्रिफलं घृततैलयो: । युक्तं मधुककलेन माक्षिकत्रिपलेन च ॥३॥
तैलाक्तवपुषो दद्याब्दस्तौ प्रत्यागते रसे । भोजयेत्पयसा वापि पित्तातीसारपीडितम्‍ ॥४॥
उक्तं च वाग्भटे । पल्लवासवचंञ्जरीकृत्य शिंशुपाकविदारयो: । पचेद्यवांश्च स क्वाथो घृतक्षीरसमन्वित: ॥१॥
पिच्छबस्ति: प्रयोक्तव्य़: क्षतक्षीणबलावह: । पिच्छासृतौ गुदभ्रंशे प्रवाहणरुजासु च ॥२॥
इति पिच्छबस्ति: । अथ गुदभ्रंश: । गुदो बहुभिरुत्थानैर्यस्य पित्तेन पच्यते । सिञ्चयेत्तं सुशीतेन पटोलमधुकाम्बुना ॥१॥
रक्तातिसारिणामाजं पय: सक्षौद्रशर्करम्‍ । गुदप्रक्षालने सेके प्रशस्ते पानभोजने ॥२॥
स्वेदोऽथ मूषिकामांसैस्तद्वसाम्रक्षणं तथा । गुदनि:सरणे शस्तं चाड्गेरीघृतमुत्तमम्‍ ॥३॥
शम्बूकमांसं सुस्विन्नं सतैललवणान्वितम्‍ । ईषद्‍घृतेन चाभ्यक्तं स्वेदयेत्तेन यत्नत: ॥ गुदभ्रंशमशेषेण नाशयेत्क्षिप्रमेव च ॥४॥
इति रक्तातिसारचिकित्सा ॥
============================
॥ अथ श्लेष्मातिसारचिकित्सा ॥
श्लेष्मातिसारे प्रथमं हितं लड्घनपाचनम्‍ । योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गण: ॥१॥
पूतिकव्योषबिल्वाग्निपाठादाडिमहिड्गुभि: । भोजयेत्संस्कृतैर्यूषै: श्लेष्मातीसारपीडितम्‍ ॥२॥
गोकण्टकगुहाव्याघ्रीकषायं सुशृतं पिबेत्‍ । आमश्लेष्मातिसारघ्नं दीपनं पाचनं परम्‍ ॥३॥
पथ्या सौवर्चलं हिड्गु सैन्धवातिविषा वचा । आमातिसारं सकफं पीतमुष्णाम्बुना जयेत्‍ ॥४॥
इति श्लेष्मातिसार चिकित्सा ॥
======================================
॥ अथ सन्निपातातिसारचिकित्सा ॥
समड्गातिविषा मुस्ता विश्वहीबेरधातकी । कुटजत्वग्‍द्लैर्बिल्वै: क्वाथ: सर्वातिसारनुत्‍ ॥१॥
अभया नागरं मुस्तं गुडेन सह योजितम्‍ । चतु:समेयं गुटिका त्रिदोषघ्नी प्रकीर्तिता ॥२॥
आमातिसारमानाहं सविबन्धं विषूचिकाम्‍ । कृमीनरोचकं हन्याद्दीपयत्याशु चानलम्‍ ॥३॥
इत्यभयादिगुटिका ॥ आवेदनं सुसंपक्वं दीप्ताग्रे: सुचिरोत्थितम्‍ । नानावर्णमतीसारं पुटपाकैरुपाचरेत्‍ ॥१॥
स्निग्धं घनं कुटजवल्कमजन्तुजग्धमादाय तत्क्षणमतीव च पेषयित्वा । जम्बूपलाशपुटतण्डुलतोयसिक्तं बद्धं कुशेन च बहिर्घनपड्कलिप्तम्‍ सुस्विन्नपिष्टमुपपीड्यरसं गृहीत्वा क्षौद्रेण युक्तमतिसारवते प्रदद्यात्‍ । कृष्णात्रिपुत्रमतपूजित एष योग: सर्वातिसारहरणे स्वयमेव राजा ॥३॥ इति सन्निपातातिसारचिकित्सा ॥
====================================
॥ अथ श्लेष्मपित्तातिसारचिकित्सा ॥
समड्गाधातकीबिल्वमाम्रास्थ्यम्भोजकेसरम्‍ । बिल्वं मोचरसं लोध्रं कुटजस्य फलत्वचम्‍ ॥१॥
पिबेत्तण्डुलतोयेन कषायं कल्कमेव च । श्लेष्मपित्तातिसारघ्नं रक्तं वाथ नियच्छति ॥२॥
इति श्लेष्मपित्तातिसारचिकित्सा ॥
=================================
॥ अथ वातश्लेष्मातिसारचिकित्सा ॥
रसै: स्वादुकटुप्रायैरुभौ वातकफौ नृणाम्‍ । क्रुरुतस्तावतीसारं क्रुद्धौ वह्यिं निहत्य च ॥१॥
द्रवं सफेनं पुरिषं तन्वामं मदगन्धिकम्‍ । सशब्दवेदनावन्तं तत्र संपरिपच्यते ॥२॥
नित्यं गुडगुडायन्तं तन्द्रामूर्छाभ्रमक्लमै: । प्रसक्तं सक्थिकट्यूरुजानुपृष्ठास्थिशूलिन: ॥३॥
धान्यपञ्चकसंसिद्धो धान्यविश्वकृतोऽथवा । आहारोभिषजा योज्यो वातश्लेष्मातिसारिणे ॥४॥
वातातिसारे यच्चोक्तं पाचनं ग्राहि भेषजम्‍ । तदत्रापि प्रयुञ्जीत संचिन्त्य कफमारुतौ ॥५॥
इति वातश्लेष्मातिसार चिकित्सा ॥
=====================
॥ अथ पित्तश्लेष्मातिसारचिकित्सा ॥
कटफलं मधुकं लोध्रं त्वग्दाडिमफलस्य च । वातपित्तातिसारघ्नं पिबेत्तण्डुलवारिणा ॥१॥
मुस्तं सातिविषा दार्वी वचा शुण्ठी च तत्समम‍ । कषायं क्षौद्रसंयुक्तं श्लेष्मवातातिसारिणे ॥२॥
पीतदारु वचा लोध्रं कलिड्गफलनागरम्‍ । दाडिमाम्बुयुतं दद्यात्पित्तश्लेष्मातिसारिणे ॥३॥
इति पित्तश्लेष्मातिसारचिकित्सा ॥
============================
॥ अथ छर्द्यतीसारचिकित्सा ॥
बिल्वचूतास्थिनिर्यूह: पीत: सक्षौद्रशर्कर: । निहन्याच्छर्द्यतीसारं वैश्वानरं इवाहुतिम्‍ ॥१॥
पटोलयवधान्याकक्वाथ: पीत: सुशीतल: । शर्करामधुसंयुक्तश्छर्द्यतीसारनाशन: ॥२॥
प्रियड्ग्ञ्जनमुस्ताख्यं पापयेत्तु यथाबलम्‍ । तृष्णातीसारच्छर्दिग्नं सक्षौद्रं तण्डुलाम्बुना ॥३॥
जम्ब्वाम्रपल्लवोशीरवटशृड्गावरोहकै: । रस: क्वाथोऽथवा चूर्णं क्षौद्रेण सह योजितम्‍ ॥४॥
छर्दिज्वरमतीसारं मूर्च्छा तृष्णां च दुर्जयाम्‍ । नियच्छत्यचिराद्रक्तस्त्रुतिं चानेकहेतुभि: ॥५॥
इति छर्द्यतीसारचिकित्सा ॥
===========================
॥ अथ शोफातिसारचिकित्सा ॥
सदेवदारु: सविष: सपाठ: सजन्तुशत्रु: सघन: सतीक्ष्ण: । सवत्सक: क्वाथ उदाहृतोऽसौ शोफातिसाराम्बुधिकुम्भजन्मा ॥१॥
किराताब्दामृताविश्वचन्दनोदिच्यवत्सकै: । शोफातिसारशमनं विशेषाज्ज्वरनाशनम्‍ ॥२॥
इति शोफातिसार चिकित्सा ॥
=====================================
॥ अथ भयशोकातिसारचिकित्सा ॥
भयशोकावतीसारौ भयशोकसमुद्भवौ । तयोर्वातहरी कार्या हर्षणाश्वासनक्रिया ॥१॥
पृश्रिपर्णीबलाबिल्वधान्यकोत्पलनागरै: । विड्ड्गातिविषामुस्ता दारुपाठा कलिड्कम्‍ । मरीचेन समायुक्तं शोकातीसारनाशनम्‍ ॥२॥
इति भयशोकजातिसारचिकित्सा ॥
===================================
॥ अथ प्रवाहिका ॥
कल्क: स्याब्दालबिल्वानां तिलकल्कश्च तत्सम: । दग्ध: सारो‍ऽम्लस्नेहाढ्य: षट्‍च हन्यात्‍ प्रवाहिका: ॥१॥
मुद्गयूषरसं तक्रं धान्यजीरकसंयुतम्‍ । षडूषणमिति पोक्तं सैन्धवेन समन्वितम्‍ ॥२॥
अग्निसंदीपनं पोक्तं ग्रहणीदोषनाशनम्‍ । अरोचके ज्वरे चैव श्रेष्ठमेतत्प्रवाहिके ॥३॥
बालबिल्वं गुडं तैलं पिप्पली विश्वभेषजम्‍ लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके ॥४॥
पयसा पिप्पलीकल्क: पीतो वा मरिचोद्भव: । त्र्यहान्निर्वाहिकां हन्याच्चिरकालानुबन्धिनीम्‍ ॥५॥
तैलं सर्पिर्दधि क्षौद्रं विषा विश्वं सफाणितम्‍ । सर्वमालोड्य पातव्यं सद्यो निर्वाहिकां हरेत्‍ ॥६॥
त्र्यषूणं त्रिफला चैव चित्रको गजपिप्पली । बिल्वकर्कटिकाहिंस्त्राविड्ड्गं सनिदिग्धिकम्‍ ॥७॥
घृतप्रस्थं पचेदेभिर्गवां मूत्रे चतुर्गुणे । तत्प्रयोगं पिबेत्काले हन्यात्तेन प्रवाहिकाम्‍ ॥८॥
इति प्रवाहिका ॥
=============================
॥ अथ पुरीषक्षय: ॥
दीप्ताग्न्यपुरीषो य: सार्यते फेनिलं शकृत्‍ । स पिबेत्‍ फाणितं शुण्ठीदधितैलपयोन्वितम्‍ ॥१॥
दग्धा ससारेण समाक्षिकेण भुञ्जीत नि:सारकपीडितस्तु । सुतक्रशुण्ठीक्वथितेन वापि क्षीरेण शीतेन मधुप्लुतेन ॥२॥
बलाविश्वशृतं क्षीरं गुडतैलानुयोजितम्‍ । दीप्ताग्नीं पाययेत्प्रात: सुखदं वर्चस: क्षये ॥३॥
शशमांसं रुचिकरं सखण्डं सघृतं दधि । विपाच्य खादेत्सेवेच्च मृद्वन्नं शकृत: क्षये ॥४॥
इति पुरीषक्षय: ।
विबद्धवातो विट्‍शूलपरीत: सप्रवाहिक: । सरक्तपिच्छश्च पय: पिबेत्तृष्णासमन्वित: ॥१॥
यथामृतं तथा क्षीरमतिसारेषु पूजितम्‍ । सरक्तोत्थेषु तत्पेयपांभागेषु संस्कृतम्‍ ॥२॥
=================================
॥ अथ ज्वरातिसार: ॥
ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्‍पृथक्‍ । न तन्मिलितयो: कार्यमन्योन्यं वर्धयेद्यत: ॥१॥
अतस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितै: ॥२॥
लड्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु । उत्पलषष्टिकसिद्धं लाजकमण्डादिकं पेयम्‍ ॥३॥
पृश्रिपर्णीवलाबिल्वनागरोत्पलधान्यकै: । ज्वरातिसारी पेयां वा पिबेत्साम्लां शृतां नर: ॥४॥
धातकीक्वाथसंसिद्धा विश्वभेषजकल्किता । दाडिमाम्लयुता पेया ज्वरातीसारशूलिनाम्‍ ॥५॥
पाठेन्द्रयवभूनिम्बमुस्तपर्पटका: शृता: । जयन्त्याममतीसारं ज्वरं च समहौषधा: ॥६॥
नागरातिविषामुस्तभूनिम्बामृतवत्सकै: । सर्वज्वरहर: क्वाथ: सर्वातीसारनाशन: ॥७॥
धान्यकातिविषामुस्तागुडूचीबिल्वनागरै: । दत्त: कषाय: शमयेदतिसारं चिरोत्थितम्‍ ॥८॥
अरोचकामशूलास्त्रज्वरघ्न: पाचन: स्मृत: । कलिड्गातिविषाशुण्ठीकिराताम्बुयवासकम्‍ ॥९॥
ज्वरातीसारसंतापं नाशयेदविकल्पत: । गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दवालकै: ॥१०॥
पाठाकुटजभूनिम्भचन्दनोशीरपर्पटै: । पिबेत्कषायं सक्षौद्रं ज्वरातीसारशान्तये ॥११॥
हृल्लासारोचकच्छार्दिपिपासादाहनाशनम्‍ । वत्सकस्य फलं दारु रोहिणी गजपिप्पली ॥१२॥
श्वदंष्ट्रा पिप्पली धान्यबिल्वपाठा यवानिका । द्वावप्युक्ताविमौ योगौ श्लोकार्धेनावभाषितौ ॥१३॥
ज्वरातीसारशमनौ विशेषाद्दाहनाशनौ । व्योषं वत्सकबीजानि निम्बभूनिम्बमार्कवम्‍ ॥१४॥
चित्रकं रोहिणी पाठा दार्वी ह्यतिविषासमम्‍ । श्लक्ष्णचूर्णीकृतानेतांस्ततुल्यां वत्सकत्वम्‍ ॥१५॥
सर्वमेकत्र संयोज्य पिबेत्तण्डुलवारिणा । सक्षौद्रं वा लिहेदेवं पाचनं ग्राहि भेषजम्‍ ॥१६॥
तॄष्णारुचिप्रशमनं ज्वरातीसारनाशनम्‍ । कामलां ग्रहणीरोगं गुल्मं प्लीहानमेव च ॥१७॥
प्रमेहं पाण्डुरोगं च श्वयथुं च विनाशयेत्‍ । उशीरं वालकं मुस्तं धान्यकं बिल्वमेव च ॥१८॥
समड्गा धातकी लोध्रं विश्वं दीपनपाचनम्‍ । हन्त्यरो चकपिच्छामं विबन्धं सातिवेदनम्‍ ॥१९॥
सशोणितमतीसारं सज्वरं वाथ विज्वरम्‍ । बिल्ववालकभूनिम्बगुडूचीधान्यनागरै: ॥ कुटजाब्दामृताक्वाथो ज्वरातीसारशूलनुत्‍ ॥२०॥
पञ्चाड्घ्रिवृक्यब्दबलेन्द्रबीजत्वक‍सेव्यतिक्तामृतविश्वबिल्वै: । ज्वरातिसारान्सवमीन्‍ सकासान्सश्वासशूलाञ्शमयेत्कषाय: ॥२१॥
अरल्वतिविषा मुस्ता शुण्ठी बिल्वं सदाडिमम‍ । सर्वज्वरहर: क्वाथ: सर्वातीसारनाशन: ॥२२॥
इति ज्वरातिसारचिकित्सा ॥
॥ अथ सर्वातीसारे ॥
यथा शृतं भवेद्वारि तथाऽतीसारनाशनम्‍ । अतिसारं निहन्त्येव शतभागशृतं जलम्‍ ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-17T21:21:10.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Proceeds of taxation and other receipts

  • कर आकारणी व इतर जमा रकमांचे उत्पन्न 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.