TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ दाहनिदानम् ॥

॥ अथ दाहनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ दाहनिदानम् ॥
॥ अथ दाहनिदानम्‍ ॥
तीक्ष्णमुष्णं पिबन्मद्यं दाहं प्राप्नोति मानव: । दाह: सप्तविध: प्रोक्तो वैद्यशास्त्रप्रकल्पित: ॥१॥
अथ मद्यज माह । त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छित: । दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम्‍ ॥१॥
अथ रक्तजमाह ।
कृत्सनदेहानुगं रक्तमुद्रिक्तं दहति ध्रुवम्‍ । संशुष्यते चोष्यते वा ताम्राभस्ताम्रलोचन: ॥१॥
अथ तिक्तजमाह ॥
लोहगन्धाड्गवदनो वह्निनेवावकीर्यते ॥१॥ अथ पित्तजमाह ॥
पित्तज्वरसम: पित्त्तात्स चास्यापि विधि: स्मृत: ॥१॥ अथ तृष्णानिरोधजमाह । तृष्णानिरोधादब्धातौ क्षीणे तेज: समुद्धतम्‍ ।
सबाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतस: ॥ संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य वेपते ॥१॥
अथ कोष्ठजमाह । असृजा पूर्णकोष्ठस्य दाहोऽड्गेस्यात्सुदुस्तर: ॥१॥
अथ धातुक्षयजमाह । धातुक्षयोत्थो यो दाहस्तेन मूर्च्छातृषान्वित: । क्षामस्वर: क्रियाहीन: सीदेद्‍भृशपीडित: ॥१॥
अथ क्षतजमाह । क्षतजेनाश्रितश्चान्य: शोचतो वाप्यनेकधा । तेताड्गं दह्यतेऽत्यर्थं तॄष्णामूर्च्छाप्रलापवान्‍ ॥१॥
अथ मर्माभिघातजमाह । मर्माभिघातजोऽप्यस्ति सोऽसाध्य: प्रलापवान्‍ ॥१॥
अथ मर्माभिघातजमाह । मर्माभिघातजोऽप्यस्ति सोऽसाध्य: सप्तमो मत: । सर्व एव विवर्ज्या: स्यु: शीतगात्रेषु देहिषु ॥१॥
इति दाहनिदानम्‍ ॥

॥ अथ दाहचिकित्सा ॥
दाहेऽतिशिशिरं तोयं क्रिया कार्या शुशीतला । सर्वाड्गे चन्दनालेपश्चन्द्रकस्तूरिकायुत: ॥१॥
शीतनीरजलेपो वा धारागारनिवेशनम्‍ । सहजस्नेहसोत्साहमुग्धमञ्जुललापिनाम्‍ ॥२॥
बालकानां समाश्लेषस्तापं निर्वापयेज्जवात्‍ । उशीरागारशयनं तालवृन्तानुवर्तनम्‍ ॥३॥
साहित्यसरसा वाणी कवीनां तापत्दृत्रयम्‍ । उत्तुड्गकुचसंसर्गौ वीणानां हरिणीदृशाम्‍ ॥४॥
गायनं सुकुमारीणां दाहमुत्सादयेद्‍द्रुतम्‍ । रसौषधसमुद्भुते तापेऽपि सकले हितम्‍ ॥५॥
पानीयामलकं द्राक्षानालिकेरेक्षुशर्करा: । सेवनाय हितास्तापे कोमलं मूत्रलं फलम्‍ ॥६॥
तण्डुलीयकमूलानि धान्यजीरकजं पय: । तुलसीस्वरसं टड्कं तापे पिब रसे हितम्‍ ॥७॥
फलिनीलोध्रसेव्याम्बुहेमपत्रं कुटं नटम्‍ । कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्‍ ॥८॥
ह्वीबेरपद्मसोशीरचन्दनक्षोदवारिणा । सम्मूर्णामवगाहेत द्रोणीं दाहार्दितो नर: ॥९॥
प्रात:पर्युषितं धान्यसलिलं सितया युतम्‍ । अन्तर्दाहं हरेत्पीतं दु:खं दुर्गार्चनं यथा ॥१०॥
सशर्करं सेन्दुशैलं शीतमम्भ: पिबेन्नर: । तृष्णानिरोधजं दाहं हन्ति तोयभिवानलम्‍ ॥११॥

॥ अथ शार्डगधराद्धान्यकादिहिम: ॥
धान्याकधात्रीवासानां द्राक्षापर्पटयोर्हिम: । रक्तपित्तं ज्वरं दाहं तृष्णां शोषं च नाशयेत्‍ ॥१॥
पीत्वा वेनुत्वच: क्वाथं सक्षौद्रं शिशिरं नर: । रक्तसंपूर्णकोष्ठोत्थं दाहं जयति दुस्तरम्‍ ॥२॥

॥ अथ शार्ड्गधरात्सक्तुमन्थ: ॥
पाचितै: शीतनीरेण सघृतैर्यवसक्तुभि: । नातिसान्द्रद्र्वैर्मन्थस्तृष्णादाहार्तिपित्तहा ॥१॥

॥ अथ दशसारचूर्णम्‍ ॥
यष्टीधात्रीफलं द्राक्षा एलाचन्दनवालकम्‍ । मधूकपुष्पं खर्जूरं दाडिमं पेषयेत्समम्‍ ॥१॥
सर्वतुल्या सिता योज्या पलार्धं भक्षयेत्सदा । दशसारमिदं ख्यातं सर्वपित्तविकारनुत्‌ ॥२॥

॥ अथ मृतसञ्जीवनी वटिका ॥
यष्टी मधु लवड्गं च शिलावल्कं तृटिस्तथा । सहस्त्रभावना: कार्या नवतण्डुलवारिणा ॥१॥
याममात्रं दृढं मर्द्यं वटिका कोलसंमिता । कृष्णकार्पासनीरेण तृष्णादाहज्वराञ्जयेत्‍ ॥२॥
मूर्च्छाभ्रमोग्ररोगं च वान्तिं पित्तं च नाशयेत्‍ । मृतसञ्जीवनी प्रोक्ता पूज्यपादैरुदीरिता ॥३॥

॥ अथ चन्दनादिचूर्णम्‍ ॥
चन्दनोशीरकुष्ठाब्दधात्रीचोरकमुत्पलम्‍ । मधुकं मधुपुष्पं च द्राक्षाखर्जूरकं तथा ॥१॥
चूर्णं कृतं समसितं प्रात: शीताम्बुना पिबेत्‍ । रक्तपित्तं तथा श्वासं पैत्यं गुल्मं समुद्धरेत्‍ ॥२॥
अड्गदाहं शोरोदाहं शिरोविभ्रममेव च । कामलां च प्रमेहांश्च पित्तज्वरविनाशनम्‍ ॥ चन्दनाद्यमिदं चूर्णं पूज्यपादेन भाषितम्‍ ॥३॥

॥ अथ खर्जूरादिचूर्णम्‍ ॥
खर्जूरामलबीजानि पिप्पली च शिलाजतु । एलामधुकपाषाणचन्दनोर्वारुबीजकम्‍ ॥१॥
धान्याकं शर्करायुक्तं पातव्यं जेष्ठवारिणा । अड्गदाहं लिड्गदाहं गुदवड्गक्षणशुक्रजम्‍ ॥२॥
शर्कराश्मरिशूलघ्नं वृष्यं बलकरं परम्‍ । नाशयेन्मूत्ररोगांश्च तथा शुक्रभवानपि ॥ शर्करासहितं यष्टीकशायं प्रपिबेत्तदा ॥३॥
अथ वैद्यजीवनात्‍ ॥
अयि नितम्बिनि खेलनलालसे मधुरवाणि निकाममदालसे । वपुषि दाहवतां विहितं हितं हिमहिमांशुजलैरनुलेपनम्‍ ॥१॥
सहस्त्रधौतेन घृतेन दिग्धदेहस्य दाह: कृशतां बिभर्ति । अन्याड्गनासड्गमसादरस्य स्वीयेषु दारेषु यथाभिलाष: ॥२॥
तृड्दाहमोहा: प्रशमं प्रयान्ति निम्बप्रवालोत्थितफेनलेपात्‍ । यथा नराणां धनिनां धनानि समागमाद्वारविलासिनीनाम्‍ ॥३॥

॥ अथ कुशाद्यतैलघृते ॥
कुशादिशालिपर्णीयजीवकर्षभसाधितम्‍ । तैलं घृतं वा दाहघ्नं वातपित्तविनाशनम्‍ ॥१॥
शाखाश्रयां यथान्यायं रोहिणीं व्यधयेच्छिराम्‍ । रक्तजातस्ततो दाह: प्रशाम्यति न संशय: ॥२॥
धातुक्षयोत्थदाहं तु जयेदिष्टार्थसाधनै: । क्षीरमांसरसाहारैर्विधिनोक्तेन तत्र च ॥३॥
पित्तज्वरहर: सर्व: पित्तदाहे विधिर्मत: । औदुम्बरस्य निर्यास: सितया दाहनाशन: । छिन्नासार: सितायुक्त: पित्तज्वरनिषूदन: ॥४॥

॥ अथ रसा: ॥
रसरत्नप्रदीपाद्रसादिगुटिका । रसबलिघनसारचन्दनानां सनलदसेव्यपयोदजीवनानाम्‍ । अपहरति गुटी मुखस्थितेयं सकलसमुत्थितदाहमश्रमेण ॥१॥
अथ रसमञ्जर्याश्चन्द्रकलारस: ॥ गगनदरदयुक्तं शुद्धसूतं च गन्धं प्रहरमधुसुपिष्टं च भोज्यम्‍ ॥१॥
मुस्तादाडिमदूर्वोत्थै: केतकीस्तनजद्र्वै: । सह देव्या: कुमार्याश्च पर्पटस्यापि वारिणा ॥२॥
रामशीतलिकातोयै: शतावर्या रसेन च । भावयित्वा प्रयत्नेन दिवसे दिवसे पृथक्‍ ॥३॥
तिक्तागुडूविकासत्वं पर्पटोशीरमाधवी । श्रीगन्धं सारिवा चैषां समानं सूक्ष्मचूर्णितम्‍ ॥४॥
द्राक्षाधिककषायेण सप्तधा परिभावयेत्‍ । ततो धान्याश्रयं कृत्वा वट्य: कार्यांश्चणोपमा: ॥५॥
अयं चन्द्रकलानाम्ना रसेन्द्र: परिकीर्तित: । सर्वपित्तगदद्ध्वंसी वातपित्तगदापह: ॥६॥
अन्तर्बाब्यमहादाहविध्वंसनमहाघन: । ग्रीष्मकाले शरत्काले विशेषेण प्रशस्यते ॥७॥
कुरुते नाग्रिमान्द्यं च महातापज्वरं हरेत्‍ । भ्रममूर्च्छाहरश्वाशु स्त्रीणां रक्तं महास्त्रवम्‍ ॥८॥
ऊर्ध्वाऽधो रक्तपित्तं च रक्तवान्तिं विशेषत: । मूत्रकृच्छ्राणि सर्वाणि नाशयेन्नात्र संशय: ॥९॥ इति रसा: ॥

॥ अथ पथ्यापथ्यम‍ ॥
शालय: षष्टिका मुद्गा मसूराश्चणका यवा: । धन्वमांसं रसा लाजा मण्डो वै सक्तवस्तथा ॥१॥
शतधौतघृतं दुग्धं नवनीतं पयोभवम्‍ । कूष्माण्डं कर्कटीमोचं पनसं स्वादुदाडिमम‍ ॥२॥
पटोलं खर्जुरं तुम्बी बिम्बी द्राक्षा कसेरुकम्‍ । इति दाहवतां नृणां पथ्यवर्ग उदाहृत: ॥३॥
व्यायाममातपं तक्रं ताम्बूलं मधु रामठम्‍ । व्यवायं कटुतिक्तोष्णं दाहवान्‍ परिवर्जयेत्‍ ॥४॥
इति दाहचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-20T18:51:41.2630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मूठमाती देणें

  • ( प्रेत जमिनींत ठेवल्यावर त्याच्यावर जवळच्या आप्तांनीं व स्नेहीमंडळीनीं मूठ मूठ माती टाकण्याची चाल आहे ). पुरणें 
  • उत्तरक्रिया करणें. 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site