संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शेषरत्नशोधनमारणानि ॥

॥ अथ शेषरत्नशोधनमारणानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं शुचि । विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धत: शुचि ॥१॥
पुष्परागं च कौलत्थक्काथयोगेन शुध्यति । रोचनामिश्च गोमेदं वैडूर्यं त्रिफलाजलै: ॥ नीलं नीलीरसैर्वज्रं विना शुध्यति दोलया ॥२॥
इति रसरत्नाकरात्‍ । अन्यच्च । स्वेदयेद्दोलिकायस्त्रे जयन्त्या: स्वरसेन च । मणिमुक्ताप्रवालानि यामैकं शोधनं भवेत्‍ ॥१॥ इति शार्ड्गधरात्‍ ।

॥ अथ मारणम्‍ ॥
तकुचद्रावसंपिष्टै: शिलातालकगन्धकै: । वज्रं विनान्यरत्नानि त्रियन्तेऽष्टपुटै: खलु ॥१॥
अन्यच्च । कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत्‍ । प्रत्येकं सप्तवेलं च तप्ततत्पानि कृत्स्नश: ॥१॥
मौक्तिकानि प्रवालानि तथा रत्नान्यशेषत: । क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशय: ॥२॥
उक्तमाक्षिकवन्मुक्ताप्रवालानि च मारयेत्‍ । वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा ॥३॥
इति शार्ड्गधरात्‍ । इति मारणम्‍ । अथ गुणा: । रत्नानि चोपरत्नानि चक्षुष्याणि सराणि च । शीतलानि कषायाणि मधुराणि शुभानि च ॥१॥
वृष्याणि मड्गलान्यायुस्तुष्टिपुष्टिकराणि च । ग्रहालक्ष्मीविषक्षैण्यपापसन्तापनानि च ॥२॥
यक्ष्मपाण्डुप्रमेहार्श: कासश्वासभगन्दरान्‍ । ज्वरविसर्पकुष्ठानि शूलकृच्छ्रव्रणामयान्‍ ॥ घ्रन्ति पुष्टिं यश: कान्तिं पुण्यानि च नृणाम भृशम्‍ ॥३॥ इति गुणा: ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP