TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ कर्णरोगाधिकार: ॥

॥ अथ कर्णरोगाधिकार: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ कर्णरोगाधिकार: ॥
॥ अथ कर्णरोगाधिकार: ॥
अवश्यायजलक्रीडाकर्णकण्डूयनै रुजन्‍ । मिथ्या योगेन शस्त्रस्य कुपितो‍ऽन्यैश्च कोपनै: ॥१॥
प्राप्य श्रोत्रशिरा: कुर्याच्छूलं स्त्रोतसि वेगवान्‍ । ते वै कर्ण्णगता रोगा अष्टाविंशतिरीरिता: ॥२॥
तत्र कर्णरोगाणां नामानि संख्यां चाह ॥ कर्णशूलं प्रणादश्च बाधिर्यं क्ष्वेड एव च । कर्णकण्डू: कर्णगूथस्तथैव च ॥१॥
प्रतिनाहो जन्तुकर्णो विद्रधिर्द्विधस्तथा । कर्णपाक: पूतिकर्णस्तथैवार्शश्चतुर्विधम्‍ ॥२॥
तथार्बुदं सप्तविधं शोफश्चापि चतुर्विध: । एते कर्णगता रोगा अष्टाविंशतिरीरिता: ॥३॥
तेषु कर्णशूलस्य संप्राप्तिपूर्वकं लक्षणमाह ॥ अथ समीरनमाह ॥ समीरण: श्रोत्रगत्रोऽन्यथा चरन्समन्तत: शूलमतीव कर्णयो: । करोति दोषैश्च यथास्वमावृत: स कर्णशूल: कथितो दुराचर: ॥१॥
मूर्च्छाद्युपद्रवसंसर्गात्कर्णशूलस्यासाध्यतां चाह ॥ मूर्च्छादाहो ज्वर: कास: क्लमोऽथ वमथुस्तथा । उपद्रवा: कर्णशूले भवन्त्येते मरिष्यत: ॥१॥
अथ कर्णनादस्य लक्षणमाह ॥ कर्णस्त्रोतऽस्थिते वाते शृणोति विविधान्स्वरान्‍ । भेरीमृदड्गशड्खानां कर्णनाद: स उच्यते ॥१॥
अथ बाधिर्यमाह ॥ यदा शब्दवहं वायु: स्त्रोत आवृत्य तिष्ठति । शुद्ध: श्लेष्मान्वितो वापि बाधिर्यं तेज जायते ॥१॥
अथ कर्णक्ष्वेडमाह ॥ वायु: पित्तादिभिर्युक्तो वेणुघोषोपमं स्वनम्‍ । करोति कर्णयो: क्ष्वेडं कर्णक्ष्वेडं स उच्यते ॥१॥
अथ कर्णस्त्रावमाह ॥ शिरोऽभिघातादथवा निमज्जतो जले प्रपाकादथ वापि विद्रधे: । स्त्रवेद्धि पूयं श्रवणोऽनिलार्दित: स कर्णज: स्त्राव इति प्रकीर्तित: ॥१॥
अथ कर्णकण्डूमाह ॥ मारुत: कफसंयुक्त: कर्णे कण्डूं करोति हि ॥१॥
अथ कर्णगूथमाह ॥ पित्तोष्मशोषित: श्लेष्मा कुरुते कर्णगूथकम्‍ ॥१॥
अथ प्रतिनाहमाह ॥ स कर्णगूथो द्रवतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते । तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकार: शिरसोऽर्धभेदकृत्‍ ॥१॥
अथ कृमिकर्णमाह ॥ यदा तु मूर्च्छन्त्यथ वापि जन्तव: सृजन्त्यपत्यान्यथवापि मक्षिका: । तव्द्यञ्जनत्वाच्छ्रवणे निरुच्यते भिषग्भिराद्यै: कृमिकर्णको गद: ॥१॥
अथ पतड्गादिषु कर्णप्रविष्टेषु लक्षणमाह ॥ पतड्गा: शतपद्यश्च कर्णस्त्रोत: प्रविश्य हि । अरतिं व्याकुलत्वं च भृशं कुर्वन्ति वेदनाम्‍ ॥१॥
कर्णो निस्तुद्यते तस्य तथा फरफरायते । कीटे चरति रुक्‍ तीव्रा निष्पन्दे मन्दवेदना ॥२॥
अथ द्विविधं कर्णविद्राधिमाह ॥ क्षताभिघातप्रभवस्तु विद्रधिर्भवेत्तथा दोषकृतोऽपर: पुन: । स रक्तपीतारुणमस्त्रमास्त्रवेत्प्रतोदधूमायनदाहचोषवान्‍ ॥१॥
अथ कर्णपाकमाह ॥ कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत्‍ ॥१॥
अथ पूतिकर्णमाह ॥ कर्णविद्रधिपाकाद्वा जायते चाम्बुपूरणात्‍ । पूयं स्त्रवति वा पूति स ज्ञेय: पूतिकर्णक: ॥१॥
अथ कर्णगतानां शोथार्बुदार्शसां लक्षणान्याह ॥ कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणै: ॥१॥
इदानीं चरकोक्तं कर्णरोगचतुष्टयं वातपित्तकफसन्निपातकृतमाह ॥ नादोऽतिरुक्‍ कर्णतले तु शोथ: स्त्रावस्तनुश्चाश्रवणं च वातात्‍ । शोथ: सरागो दरणं विदाह: सपूतिपीतस्त्रवणं च पित्तात्‍ ॥१॥
वैश्रुत्यकण्डूस्थिरशोथशुक्लस्निग्धस्त्रुति: स्वल्परुज: कफाच्च । सर्वाणि रुपाणी च सन्निपातात्‍ स्त्रावश्च तत्राधिकदोषवर्ण: ॥२॥
इति कर्णरोगनिदानम्‍ ॥ अथ कर्णपालीरोगनिदानम्‍ । तत्र परिपोटलक्षणमाह । सौकुमार्याच्चिरोत्सृष्टे सहसैवातिवर्धिते । कर्णपाल्यां भवेच्छोथ: सरुज: परिपोटवान्‍ ॥१॥
कृष्णारुणनिभ: स्तब्ध: स वातात्परिपोटक: ॥२॥
अथोत्पातमाह । गुर्वाभरणसंयोगात्ताडनाद्‍घर्षणादपि । शोथ: पाल्यां भवेच्छ‍यावो दाहपाकरुजान्वित: । रक्तो वा रक्तपित्ताभ्यामुत्पात: स गदो मत: ॥१॥
अथोन्मन्थकमाह । कर्ण्णं बलाद्वर्धयत: पाल्यां वायु: प्रकुप्यति । कफं संगृह्य कुरुते शोथं स्तब्धमवेदनम्‍ ॥ उन्मन्थक: सकण्डूको विकार: कफवातज: ॥१॥
अथ दु:खवर्धनमाह ॥ संवर्ध्यमाने दुर्विद्धे कण्डूदाहरुजान्वित: । शोथो भवति पाकश्च त्रिदोषो दु:खवर्धन: ॥१॥
अथ परिलिहिनमाह ॥ कफासृक्‍कृमय: क्रुद्धा: सर्षपाभा विसर्पिण: । कुर्वन्ति पिटिका: पाल्यां कण्डूदाहरुजान्विता: ॥१॥
कफासृककृमिसंभूत: स विसर्पन्नितस्तत: । विलिह्यात्सकलां पालीं परिलेही च स स्मृत: ॥२॥
इति कर्णरोगनिदानम्‍ ॥
=====
॥ अथ कर्णरोगाणां चिकित्सा ॥
अथ कर्णपूरणविधि: ॥ स्वेदयेत्कर्णदेशं तु किंचिन्नु: पार्श्वशायिन: । मूत्रै: स्नेहै रसै: कोष्णैस्तच्च श्रोत्रं प्रपूरयेत्‍ ॥१॥
कर्णं च पूरितं रक्षेच्छतं पञ्च शतानि च । सहस्त्रं वापि मात्राणां श्रोत्रकण्ठशिरोगदे ॥२॥
स्वजानुन: करावर्तं कुर्याच्छोटिकया युतम्‍ । एषा मात्रा भवेदका सर्वत्रैव विनिश्चय: ॥३॥
रसाद्यै: पूरणं कर्णे भोजनात्प्राक्‍ प्रशस्यते । तैलाद्यै: पूरणं कर्णे भास्करेऽस्तमुपागते ॥४॥
कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च । चतुर्ष्वपि च रोगेषु सामान्यं भेषजं स्मृतम्‍ ॥५॥
शृड्गबेररसं क्षौद्रं सैन्धवं तैलमेव च । कटूष्णं कर्णयोर्धार्यमेतत्स्याद्वेदनापहम्‍ ॥६॥
लशुनार्द्रकशिग्रूणां वारूण्या मूलकस्य च । कदल्या: स्वरस: श्रेष्ठ: कदुष्ण: कर्णपूरणे ॥७॥
अर्काड्कुरानम्लपिष्टान्‍ सतैलान्लवणान्वितान्‍ । संनिदध्यात्सुधाकाण्डे कोरिते मृत्स्त्रया वृते ॥८॥
पुटपाकक्रियास्विन्नं पीडयेदारसागमात्‍ । सुखोष्णं तद्रसं कर्णे प्रक्षिपेच्छूलशान्तये ॥९॥
अर्कस्य पत्रं परिणामपीतमाज्येन लिप्तं शिखियोगतप्तम्‍ । आपीड्य तस्याम्बु मुखोष्णमेव कर्णे निषिक्तं हरतेऽतिशूलम्‍ ॥१०॥
तीव्रशूलातुरे कर्णे सरागे क्लेदवाहिनि । छागमूत्रं प्रशंसन्ति कोष्णं सैन्धवसंयुतम्‍ ॥११॥
तलं स्योनाकमूलेन मन्देऽग्नौ विधिना शृतम्‍ । हरेदाशु त्रिदोषोत्थं कर्णशूलं प्रपूरणात्‍ ॥१२॥
हिड्गुसैन्धवशुण्ठीभिस्तैलं सर्षपसंभवम्‍ । विपक्वं हरते‍ऽवश्यं कर्णशूलं प्रपूरणात्‍ ॥१३॥
कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च । पूरणं कटुतैलेन हितं वातघ्नमौषधम्‍ ॥१४॥
अथापामार्गतैलम्‍ ॥ अपामार्गक्षारजले तत्कृतकल्केन साधितं तिलजम्‍ । अपहरति कर्णनादं बाधिर्यं चापि पूरणत: ॥१॥
अथ बिल्वतैलम्‍ ॥ गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत्‍ । सजलं च सदुग्धं च तद्वाधिर्यहरं परम्‍ ॥१॥
अथ चत्वारि तैलानि ॥ तैलं काञ्चिकबीजपूरकरसक्षौद्रै: समूत्रै: शृतं स्यात्क्षौद्रार्दकशिग्रुमूलकदलीकन्दद्रवैर्वा समम्‍ । शुण्ठी तुम्बरुहिड्गुभि: शृतमपि स्यात्कर्णशूलापहं सिद्धं बिल्वगरेण साजपयसा मूत्रेण भाधिर्यजित्‍ ॥१॥
अथ हिड्ग्वादिक्षारतैलम्‍ । हिड्ग्वब्ददारुमिसिमूलकभस्मभूर्जत्वकक्षारसिन्धुरुचकोद्भिदशिग्रुविश्वै: । सस्वर्जिकाबिडवचाञ्जनमातुलुड्गै रम्भारसै: समधु सूक्तमिदं विपक्वम्‍ ॥१॥
तैलं प्रसिद्धमिति तच्छ्रवणामयघ्नं कर्णप्रणादबधिरत्वहरं नराणाम्‍ । भूमस्तकश्रवणशष्कुलिकान्तरालशूलापहं चरकसुश्रुतपूजितं च ॥२॥
अथ मधुसूक्तम्‍ ॥ जम्बीराणां फलरस: प्रस्थैक: कुडवोन्मितम्‍ । माक्षिकं तत्र दातव्यं पिप्पली च पलोन्मिता ॥१॥
घृतभाण्डे निधायैतद्धान्यराशौ विधारयेत्‍ । मासेन तज्जातरसं मधुसूक्तं प्रजायते ॥२॥
इति मधुसूक्तम्‍ ॥ अथ दीपिकातैलम्‍ ॥ महत: पञ्चमूलस्य काण्डान्यष्ठाड्गुलानि च । क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्तत: ॥१॥
यत्तैलं च्यवते तेभ्य: मुखोष्णं तेन पूरयेत्‍ । ज्ञेयं तद्दीपिकातैलं कुष्ठदेवतरोस्तथा ॥२॥
अथ निर्गुण्ड्यादि तैलम्‍ ॥ निर्गुण्डिजातिरविभृड्गरसोनरम्भाकार्पासशिग्रुसुरसार्द्रककारवेल्य: । एषां रसे तिलभवं सविषं सुकर्णबाधिर्यनादकृमिवेदनपूययुक्ते ॥१॥
अथ नागरादितैलम्‍ ॥ नागरसैन्धवमागधिमुस्ताहिड्गुवचालशुनं तिलतैलम्‍ । अर्कसुपक्वपलाशरसेन कर्णरुजं बधिरं विनिहन्ति ॥१॥
अथ कर्णस्त्रावपूतिकर्णकृमिकर्णानां चिकित्सामाह ॥ कर्णस्त्रावे पूतिकर्णे तथैव कृमिकर्णके । सामान्यं कर्म कुर्वीत योगान्‍ वैशेषिकानपि ॥१॥
स्वर्जिकाचूर्णसंयुक्तं बीजपूररसं क्षिपेत्‍ । कर्णस्त्रावरुजादाहास्तेन नश्यन्त्यसंशयम्‍ ॥२॥
अथ समुद्रफेनचूर्णम्‍ ॥ समुद्रफेनचूर्णं तु न्यस्तं श्रवणसंश्रये । पूयस्त्रावं व्रणं सान्द्रं हन्ति ध्वान्तमिवांशुमान्‍ ॥१॥
सर्जत्वक‍चूर्णसंयुक्त: कार्यासेफलजो रस: । मधुसंमिश्रित: साधु: कण्रस्त्रावे प्रशस्यते ॥२॥
जम्ब्वाम्रपत्रं तरुणं समांशं कपित्थकार्पासफलं च सान्द्रम्‍ । हृत्वा रसं तत्मधुना विमिश्रं स्त्रावापहं संप्रवदन्ति तज्ज्ञा: । एतै: शृतं निम्बकरञ्जतैलं ससार्षपं स्त्रावहरं प्रदिष्टम्‍ ॥३॥
अथ जम्ब्वाद्यं तैलं वृन्दात्‍ ॥ आम्रजम्बूप्रवालानि मधुकस्य वटस्य च । एभिस्तु साधितं तैलं पूतिकर्णगदं हरेत्‍ ॥ जातीपत्ररसे तैलं विपक्वं पूतिकर्णजित्‍ ॥१॥
अथ कर्णप्रक्षालने पञ्चकषाय: ॥ कर्णप्रक्षालने शस्तं कवोष्णं सुरभीजलम्‍ । पथ्यामलकमञ्जिष्ठा ओध्रतिन्दुकवाश्च वा ॥१॥
अन्यच्च ॥ राजवृक्षादितोयेन सुरसादिजलेन वा । कर्णप्रक्षालनं कुर्याच्चूर्णैरेतैस्तु पूरणम्‍ ॥१॥
अथ रसाञ्जनादियोग: ॥ घृष्टं रसाञ्जनं नार्या क्षीरेण क्षौद्रसंयुतम्‍ । प्रशस्यते चिरोत्थे तत्सास्त्रावे पूतिकर्णके ॥१॥
अथ कुष्ठादितैलम्‍ ॥ कुष्ठं हिड्गुवचादारुशताह्वाविश्वसैन्धवै: । पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम्‍ ॥१॥
अथ शम्बूकतैलम्‍ ॥ शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत्‍ । तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ॥१॥
अथ गन्धकतैलम्‍ । चूर्णेन गन्धकशिलारजनीभवेन मुष्ट्यंशकेन कटुतैलपलाष्टकं तु । धत्तूरपत्ररसतुल्यमिदं विपक्वं नाडीं जयेच्चिरभवामपि कर्णजाताम्‍ ॥१॥
कृमिकर्णविनाशाय कृमिघ्नीं कारयेक्रियाम्‍ । वार्ताकधूमश्च हित: सार्षप: स्नेह एव च ॥२॥
पूरितं हरितालेन गव्यमूत्रयुतेन च । धूपने कर्णदौर्गन्ध्ये गुग्गुलु: श्रेष्ठ उच्यते ॥३॥
अथ कृमिकर्णे योगचतुष्टयम्‍ ॥ सूर्यावर्तकस्वरसं रसं वा सिन्धुवारजम्‍ । लाड्गलीमूलतोयं वा त्र्यूषणं वापि चूर्णितम्‍ ॥१॥
एते योगास्तु चत्वार: पूरणात्कृमिकर्णके । कृमिन्निर्मूलयन्त्याशु शतपद्यस्नपादिकान्‍ ॥२॥
अथ गोमक्षिकायां योग: ॥ दन्तेन चर्वयेन्मूलं नन्द्यावर्तपलाशयो: । तल्लालपूरिते कर्णे ध्रुवं गोमक्षिकां जयेत्‍ ॥१॥
अथ कृमिकर्णे योग: ॥ हलिरविभक्तिव्योषानेकीकृत्य प्रकल्पयेब्दद्ध्वा । वसनान्तरे रसेन श्रवणे परिपूरयेद्युक्त्या ॥१॥
कर्णजलौका नियतं कृमिकीटपिपीलिकास्तथान्येऽपि । निपतन्ति निरवशेषा: कारण्डाश्चापि मुण्डस्था: ॥२॥
इति वृन्दात्‍ ॥ अथ कर्णकण्डूकर्णगूथप्रतिनाहकर्णविद्रधिकर्णपाकानां चिकित्सामाह ॥ स्नेह: स्वेदोऽथ वमनं धूमं मूर्ध्रि विरेचनम्‍ । विधिश्च कफहा सर्व: कर्णे कण्डूमतीष्यते ॥१॥
प्रक्लिद्य धीमांस्तैलेन प्रविलाप्य च शोधनम्‍ । कर्णगूथं तु मतिमान्‍ भिषग्‍ जह्वाच्छलाकया ॥२॥
अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत्‍ । ततो विरिक्तशिरस: क्रियां प्रोक्तां समाचरेत्‍ ॥३॥
विद्रधौ वा विक्रुर्वन्ति विद्रध्युक्तं चिकित्सितम्‍ । कर्णपाकस्य भैषज्यं कुर्यादतिविसर्पवत्‍ ॥४॥
अथ कर्णशोथकर्णार्श: कर्णार्बुदानां चिकित्सा ॥ चिकित्सा कर्णशोथानां तथा कर्णार्शसामपि । कर्णार्बुदानां कुर्वीत शोथार्शोऽर्बुदवद्भिषक्‍ ॥१॥
अथ रास्त्राद्यो गुग्गुलु: ॥ रास्त्रामृतैरण्डम्रुह्वविश्वं तुल्यं पुरेणोविमृश्य स्वादेत्‍ । वातामयी कर्णशिरोगदी च नाडीव्रणी चापि भगन्दरी च ॥१॥
इति कर्णरोगचिकित्सा ॥ अथ कर्णपालीविकाराणां चिकित्सा ॥ पालीसंशोषणे कुर्याद्वातकर्णरुज: क्रियाम्‍ । स्वेदयेद्यत्नतस्तां तु स्विन्नां संवर्धत्तिलै: ॥१॥
माहिषनवनीतयुतं सप्ताहं धान्यराशिपर्युषितम्‍ । नवमुसलिकन्दचूर्णं वृद्धिकरं कर्णपालीनाम्‍ ॥२॥
अथ शतावरीतैलम्‍ ॥ शतावरीवाजिगन्धापयस्यैरण्डबीजकै: । तैलं विपक्वं सक्षीरं पालीं संवर्धयेत्सुखम्‍ ॥१॥
अथ जीवनीयं तैलम्‍ ॥ शीतैर्लेपैर्जलौकाभिरुत्पातं समुपाचरेत्‍ । जीवन्त्या चाश्वगन्धार्कबाकुचीबीजसैन्धवै: ॥१॥
हलिनीसुरसाभ्यां च गोधाकड्कवसान्वितम्‍ । तैलं विपक्वमभ्यड्गादुन्मन्थं नाशयेद्‍ ध्रुवम्‍ ॥२॥
दु:खवर्धनकं सिक्त्वा जम्ब्वाम्राश्वत्थपत्रजै: । क्वाथैस्तैलेन सुस्निग्धं तच्चूर्णैश्वावधूलयेत्‍ ॥३॥
बहुशो गौमयेस्तप्तं स्वेदितं परिलेहितम्‍ । घनसारै: समालिम्पेदजामूत्रेण कल्कितै: ॥४॥
इति कर्णपालीरोगचिकित्सा ॥ अथ पथ्यापथ्यम्‍ ॥ स्वेदो विरेको वमनं नस्यं धूम: शिराव्यध: । गोधूमा: शालयो मुद्गा यवाश्च प्रजनं हवि: ॥१॥
लावो मयूरो हरिणस्तित्तिरो वनकुक्कुट: । पटोलं शिग्रुवार्ताकं सुनिषण्‍णं कटिल्लकम्‍ ॥२॥
रसायनानि सर्वाणि ब्रह्मचर्यमभाषणम्‍ । उपयुक्तं यथादोषमिदं कर्णामये हितम्‍ ॥३॥
दन्तकाष्ठं शिर:स्त्नानं व्यायामं श्लेष्मलं गुरु । कण्डूयनं तुषारं च कर्णरोगी परित्यजेत्‍ ॥४॥
इति कर्णरोगाधिकार: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:16:55.2400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नणद

  • स्त्री. नवर्‍याची बहीण . दीर - नणंदा - जाचे साध्वी न त्यागिनी स्वपतिभक्ति । - मोमंत्ररामायण . उपसंहार ५ . [ सं . ननान्दृ ; प्रा . णणंदा ; बं . ननद , ननंदा ; हिं . ननद , ननदी ; सिं . निणुन ; पं . नणान ] 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.