TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ ग्रन्थान्तरे बहुमूत्रमेहनिदानम् ॥

॥ अथ ग्रन्थान्तरे बहुमूत्रमेहनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ ग्रन्थान्तरे बहुमूत्रमेहनिदानम् ॥
॥ अथ ग्रन्थान्तरे बहुमूत्रमेहनिदानम्‍ ॥
कार्श्यं स्वेदोऽड्गन्ध: करपदरसनानेत्रकर्णोपदेह: कास: शैथिल्यमड्गेऽरुचिरपि पिटिका: कण्ठताल्वोष्ठशोष: । दाह: शीतप्रियत्वं धवलिमतनुता श्रान्तता पीतमूत्रं मूत्रस्था मक्षिकाद्याश्चिरमपि बहुमूत्राख्यरोगे प्रवृद्धे ॥२॥
अथ वाग्भट: ॥ स्वेदोऽड्गन्ध: शिथिलत्वमड्गे शय्यासनस्वप्रसुखाभिलाष: । हृन्नेत्रजिह्वाश्रवणोपदेहो घनाड्गता केशनखातिवृद्धि: ॥१॥
शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाह: । भविष्यतो मेहगणस्य लिड्गं मूत्रे‍ऽभिधावन्ति पिपीलिकाश्च ॥२॥
तृष्णाप्रमेहं मधुरं सपिच्छं मधूपमं स्याद्विविधो विकार: । सम्पूरणा वा कफसम्भवा स्यात्क्षीणेषु दोषेष्वनिलात्मको वा ॥३॥
सम्पूर्णरुपा: कफपित्तमेहा: क्रमेण ये वातकृताश्च मेहा: । साध्या न ते पित्तकृतास्तु याप्या: साध्यस्तु मेहो यदि नातिदुष्ट: ॥४॥

॥ अथ तच्चिकित्सा ॥
त्रिफलावेणुपत्राब्दपाठामधुयुतै: कृत: । कुम्भयोनिरिवाम्भोधिं बहुमूत्रं तु शोशयेत्‍ ॥१॥
अथ तालकेश्वररस: ॥ मृतं सूतं मृतं वड्गं मृतं लोहाभ्रकं समम्‍ । मर्दयेन्मधुना सार्धं रसो‍ऽयं तालकेश्वर: । माषैकं लेहयेत्क्षौद्रभ्रकं समम्‍ । मर्दयेन्मधुना सार्धं रसोऽयं तालकेश्वर:  । माषैकं लेहयेत्क्षौद्रैर्बहुमूत्रापनुत्तये ॥१॥
इति तालकेश्वर: ॥ अथानन्दभैरववटी ॥ विषोषणकणाटड्कहिड्गुलै: समचूर्णक: । आनन्दभैरवस्यास्य गुञ्जातीसारमेहनुत्‍ ॥१॥
इति बहुमूत्रमेहचिकित्सा ॥

॥ अथ मेदोरोगनिदानम्‍ ॥
अव्यायामदिवास्वप्नश्लेष्मलाहारसेवनै: । मधुरोऽन्नरस: प्राय: स्नेहान्मेदो विवर्धते ॥१॥
मेदसा वृतमार्गत्वात्कोष्ठे वायुर्विशेषत: । चरन्संधुक्षयत्यग्निमाहारं शोषयत्यपि ॥२॥
अथ तस्यातिवृद्धिशक्तिमाह ॥ मेदसावृतमार्गत्वात्पुष्णत्यन्नेन धातव: ।
मेदस्तु चीयते तस्मादशक्त: सर्वकर्मसु ॥१॥
क्षुद्रश्वासतृषामोहस्वप्नकथनसादनै: । मुक्तक्षुत्स्वेददौर्गन्ध्यैरल्पप्राणोऽल्पमैथुन: ॥२॥
मेदस्तु सर्वभूतानामुदरेष्वेव तिष्ठति । अत एवोदरे वृद्धि: प्रायो मेदस्विनो भवेत्‍ ॥३॥
तस्मात्स शीघ्रं जरयत्याहारं काड्क्षयत्यपि । विकारांश्चाश्रुते घोरान्कांश्चित्कालव्यतिक्रमात्‍ ॥४॥
एतावुपद्रवकरौ विशेषादग्निमारुतौ । एतौ हि दहत: स्थूलं दनं दावानलो यथा ॥५॥
मेदस्यतीसंवृद्धे सहसैवानिलादय: । विकारान्दारूणान्कृत्वा नाशयन्त्याशु जीवितम्‍ ॥६॥
मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तन: । अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ॥७॥
स्थूले स्युर्दुस्तरा रोगा विसर्पा: सभगन्दरा: । ज्वरातिसारमेहार्श: श्लीपदापचिकामला: ॥८॥
शुष्का स्फिगुदरग्रीवाधमनीजालसन्तत: । त्वगस्थिशोषोऽतिकृश: स्थूलपर्वा नर: स्मृत: ॥९॥
इति मेदोरोगनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
क्षौद्रेण त्रिफलाक्वाथ: पीतो मेदोहर: स्मृत: । शीतीभूतं तथोष्णाम्बु मेदोहृत्क्षौद्रसंयुतम्‍ ॥१॥
उष्णं भक्तस्य मण्डं वा पिबेत्कृशन्तनुर्भवेत्‍ । सचव्यजीरकव्योषहिड्गुसौवर्चलानला: ॥२॥
मधुना सक्तव: पीता मेदोघ्ना वह्निदीपना:  । क्षारं वा तालपत्रस्य हिड्गुयुक्तं पिबेन्नर: ॥ मेदोवृद्धिविनाशाय भक्तमण्डामन्वितम्‍ ॥३॥
हरीतकीलोध्रमरिष्टपत्रपूतत्वचो दाडिमवल्कलं च । एषोऽड्गराग: कथितोऽड्गनानां जम्ब्वा: कषायश्च नराधिपानाम्‍ ॥४॥
फलत्रिकं त्रिकटुकं सतैललवणान्वितम्‍ । षण्मासादुपयोगेन कफमेदोऽनिलापहम्‍ ॥५॥
गुडूचीभद्रमुस्तानां प्रयोगस्त्रैफलस्तथा । तक्रारिष्टप्रयोगश्च प्रयोगो माक्षिकस्य च ॥६॥
अथ त्र्यूषणाद्यं लोहम्‍ । त्र्यूषणं त्रिफला चव्यं चित्रकं बिडमौद्भिदम्‍ । बाकूची सैन्धवं चैव सौवर्चलमयोरज: ॥१॥
माषमात्रमतश्चूर्णं लिहेदाज्यमधुप्लतम्‍ । अतिस्थौल्यमिदं चूर्णं निहन्त्यग्निविवर्धनम्‍ ॥२॥
मेदोघ्नं मेहकुष्ठघ्नं श्लेष्मव्याधिनिबर्हणम्‍ । नाहारे नियमश्चात्र विहारे वा विधीयते । त्र्यूषणाद्यमिदं चूर्णं रसायनमनुत्तम्‍ ॥३॥
अथ नवकगुग्गुलु: ॥ व्योषाग्निमुस्तात्रिफलाविडड्गैर्गुग्गुलु: समम्‍ । खादन्सर्वाञ्जयेद्‍ व्याधीन्मेदश्लेष्मामवातजान्‍ ॥१॥
अथ लेपोद्वर्तने ॥ हितो मोचरसो युक्तश्चूर्णैरुदधिफेनजै: । प्रलेपेन निहन्त्याशु वापि गात्रदौर्गन्ध्यनाशन: ॥२॥
हरीतकीं तु संपिष्य गात्रमुद्वर्तयेन्नर: । पश्चात्स्नानं प्रकुर्वीत देहस्वेदप्रशान्तये ॥३॥
चन्द्रांशुशीतलं लोध्रं शिरीषोरकेसरै: । उद्वरर्तनं भवेद्‍ ग्रीष्मे स्वेदोद्गमनिवारणम्‍ ॥४॥
बब्बूलस्य दलै: सम्यग्‍ वारिणा परिपेषितै: । गात्रमुद्वर्तयेत्पश्चाद्धरीतक्या सुपिष्टया ॥५॥
भूय उद्वर्तनं कृत्वा पश्चात्स्नानं समाचरेत्‍ । प्रस्वेदान्मुच्यते क्षिप्रं ततस्त्वेवं समाचरेत्‍ ॥६॥
जम्बूदलार्जुनतरुप्रसवै: सकुष्ठैरुद्वर्तनं प्रकुरुते प्रतिवासरं य: । प्रस्वेदबिन्दुकणिकानि करानुषड्गार्द्दुगन्धिता वपुषि पदं न धत्ते ॥७॥
शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदर: प्रघर्ष:  । प्रियड्गुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहर: प्रदिष्ट: ॥८॥
अथ वृन्दात्‍ त्रिफलाद्यं तैलम्‍ ॥ त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकै: । निम्बारग्वधषड्‍ग्रन्थासप्तमपर्णानिशाद्वयै: ॥१॥
गुडूचीन्द्रयवाकृष्णाकुष्ठसर्षनागरै: । तैलमेभि: समं पक्वं सुरसादि रसप्लुतम्‍ ॥२॥
पानाभ्यञ्जनगण्डूषनस्यवस्तिषु योजितम्‍ । स्थूलतालस्यकण्डवादि जयेतकफकृतान्‍ गदान्‍ ॥३॥
अथ महासुगन्धितैलम्‍ ॥ चन्दनं कुड्कुमोशीरं प्रियड्गुसटिरोचनम्‍ । तुरुष्कागुरुकस्तूरीकर्पूरो जातिपत्रिका ॥१॥
जातीकड्कोलपूगानां लवड्गस्य फलानि च । नलिकानलदं कुष्ठं हरेणुतगरं प्लवम्‍ ॥२॥
नखं व्याघ्रनखं स्पृक्का बालो दमनकं तथा । प्रपौण्डरीकं कर्चूरं समांशै: शाणमात्रकै: ॥३॥
महासुगन्ध इत्येतत्तैलप्रस्थेन साधयेत्‍ । प्रस्वेदमलदौर्गन्ध्यकण्डूकुष्ठहरं परम्‍ ॥४॥
अनेनाभ्यक्तगात्रस्तु वृद्ध: सप्ततिकोऽपि वा । युवा भवति शुक्राढ्य: स्त्रीणामत्यन्तवल्लभ: ॥५॥
सुभगो दर्शनीयश्च गच्छेद्वै प्रमदाशतम्‍ । वन्ध्यापि लभते गर्भं षण्ढोऽपि पुरुषायते ॥ अपुत्र: पुत्रमाप्नोति जीवेच्च शरदां शतम्‍ ॥६॥
अथ रसा: ॥ तत्रादौ रसभस्मयोग: ॥ रसभस्म वल्लमात्रं लीढ्वा मधुना पिबेदनु क्षौद्रम्‍ । कोष्णाम्बुना समेतं स्थौल्यं मेद:कृतं जयति ॥१॥
अथ त्रिमूर्तिरस: ॥ सूतगन्धमयोभस्म समं संमेल्य भावयेत्‍ । निर्गुण्डीपत्रतोयेन मुसलीकन्दवारिणा ॥१॥
तत: सिद्धममुं माषमात्रं रसमनुत्तमम्‍  । लोध्रक्षौद्रेण चाश्रीयाच्चूर्णमेषां पिचून्मितम्‍ ॥२॥
षट्‍कटु त्रिफला पञ्चलवणा वल्गुजस्य तत्‍ । मेद:शोथाग्निमान्द्यामवातश्लेष्मगदप्रणुत्‍ ॥३॥
अथ वडवाग्निरस: ॥ शुद्धसूतं मृतं ताम्रं तालं बोलं समं समम्‍ । अर्कक्षीरैर्दिनं मर्द्यं क्षौद्रे लेह्यं द्विगुञ्जकम्‍ ॥१॥
वडवाग्निरसो नाम स्थौल्यं तुन्दं नियच्छति । पलं क्षौद्रं पलं तोयमनुपानं पिबेत्सदा ॥२॥
इति वडवाग्निरस: ॥ अथ पथ्यापथ्यम्‍ ॥ पुराणशालयो मुद्गकुलत्थोद्दालकोद्रवा:  लेखना बस्तयश्चैव सेव्या मेदस्विना सदा ॥१॥
श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रिय: । हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजन: ॥२॥
अस्वप्नं च व्यवायं च व्यायामं चिन्तनानि च । स्थौल्यमिच्छन्परित्यक्तु क्रमेणैनं प्रवर्धयेत्‍ ॥३॥
इति पथ्यापथ्यम्‍ ॥ इति मेदोरोगचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T20:04:58.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अर्चिष्मती

  • n. बृहस्पती की कन्या । बृहस्पति की दूसरी पत्नी शुभा की सप्त कन्याओं में से एक । 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.