TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ व्रणशोथनिदानम् ॥

॥ अथ व्रणशोथनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ व्रणशोथनिदानम् ॥
॥ अथ व्रणशोथनिदानम्‍ ॥
अथ तस्य प्राग्रूपम्‍ । एकदेशोत्थित: शोफो व्रणानां पूर्वलक्षणम्‍ ॥१॥
अथ तस्य सड्ख्यामाह ॥ षड्विध: स्यात्पृथक्‍ सर्वशोणितागन्तुभेदत: ॥१॥
अथ तेषां लक्षणमाह ॥ शोफा: षडेते विज्ञेया: प्रागुक्तै: शोफलक्षणै: । विशेष कथ्यते चैषां पक्वापक्वविनिश्चये ॥१॥
विषमं पच्यते वातात्पित्तोत्थश्चाचिराच्चिरम्‍ । कफज: पित्तवच्छोफो रक्तागन्तुसमुद्भव: ॥२॥
मन्दोष्मताल्यशोफत्वं काठिन्यं त्वक्सवर्णता । मन्दवेदनता चैव शोफानामामलक्षणम्‍ ॥३॥
दह्यते दहनेनेव क्षारेणैव विपच्यते । पिपीलिकागणिनेव दश्यते छिद्यते तथा ॥४॥
भिद्यते चैव शस्त्रेण दण्डेनेव च ताडयते । पीडयते पाणिनेवान्त: सूचीभिरिव तुद्यते ॥५॥
सोषचोषो विवर्ण: स्यादड्गुल्येवावपीड्यते । आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत्‍ ॥६॥
न गच्छेदातत: शोफो भवेदाध्मातवस्तिवत्‍ । ज्वरस्तृष्णारुचिश्वैव पच्यमानस्य लक्षणम्‍ ॥७॥
वेदनोपशम: शोफो लोहितोऽल्पो न चोन्नत: । प्रादुर्भावो वलीनां च तोद: । कण्डूर्मुहुर्मुह: ॥८॥
उपद्रवाणां प्रशमो निम्नता स्फुटनं त्वचाम्‍ । वस्ताविवाम्बुसञ्चार: स्याच्छोफेऽड्गुलिपीडिते ॥९॥
पूयस्य पीडयत्येकमन्तमन्ते च पीडिते । भक्ताकाड्क्षा भवेच्चैव शोफानां पक्वलक्षणम्‍ ॥१०॥
नर्तेऽनिलाद्रुग्र विना च पित्तं पाक: कफं चापि विना न पूय: । तस्माद्धि सर्वे परिपाककाले दोषैस्त्रिभिर्यान्ति गदा विपाकम्‍ ॥११॥
कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य । पचत्यत: शोणितमेष पाको मत: परेषां विदुषां द्वितीय: ॥१२॥
कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक्‍ । पक्वलिड्गं तत: स्पष्ट: यत: स्याच्छोथशीतता ॥ त्वकसावर्ण्य रुजोऽल्पत्वं घनस्पर्शं तमश्मवत्‍ ॥१३॥
कक्षं समासाद्य यथैव वह्निर्वातेरित: सन्दहति प्रसह्य । तथैव पूयोऽप्यविनि:स्रुतो हि मांसं शिरास्नायु च खादतीह ॥१४॥
आमं विपच्यमानं च सम्यक्पक्कं च यो भिषक्‍ । जानीयात्स भवेद्वैद्य: शेषास्तस्करवृत्तय: ॥१५॥
यच्छिनत्त्याममज्ञाद्यश्च पक्वमुपेक्षते । श्वपचाविव मन्तव्यौ तावनि तावनिश्चितकारिणौ ॥१६॥
द्विधा व्रण: परिज्ञेय: शारीरागन्तुभेदत: । दोषैराद्यस्ततोऽन्यश्च शस्त्रादिक्षतसंभव: ॥१७॥
अथ वातिकमाह ॥ स्तब्ध:कठिनसंस्पर्शोमन्दस्त्रावो महारुज: । तुद्यते स्फुरति श्यावो व्रणो मारुतसंभव: ॥१॥
अथ पैत्तिकमाह ॥ तृष्णामोहज्वरक्लेददाहदु:खावदारणै: । व्रणं पित्तकृतं विद्याद्‍ गन्धै:स्त्रावैश्च पूतिकै: ॥१॥
अथ कफजमाह ॥ बहुपिच्छो गुरु: स्निग्ध: स्तिमितो मन्दवेदन: । पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफव्रण: ॥१॥
अथ रक्तजमाह ॥ रक्तो रक्तस्त्रुती रक्ताद्वित्रिज: स्यात्तदन्वय: । त्वड्यांसज: सुखे देशे तरुणस्यानुपद्रव: ॥१॥
धीमतोऽभिनव: काले सुखे साध्य: सुखं व्रण; । गुणैरन्यतमैर्हीनस्तत: कृच्छ्रो व्रण: स्मृत: ॥२॥
सर्वैर्विहिनोऽसाध्यस्तु तथैवोपद्रवान्वित: । पूति: पूयातिदुष्टासृक्‍ स्त्राव्युत्सड्गी चिरं स्थित: ॥३॥
दुष्टव्रणोऽतिगन्धादि: शुद्धलिड्गविपर्यय: । जिह्वातलाभ: सुश्लक्ष्ण: स्निग्धो विगतवेदन: ॥४॥
सुव्यवस्थो निरास्त्राव: शुद्धो व्रण इति स्मृत: । कपोतवर्णप्रतिमा यस्यान्ता: क्लेदवर्जिता: ॥५॥
स्थिराश्च पिटिकावन्तो रोहतीति तमादिशेत्‍ । रुढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम्‍ ॥६॥
त्वकसवर्ण समतलं सम्यग्‍ रुढं तमादिशेत्‍ । कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्‍ ॥७॥
व्रणा: कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणा: । वसां मेदो‍ऽथ मज्जानं मस्तुलुड्गं च य: स्त्रवेत्‍ ॥८॥
आगन्तुजो व्रण: सिध्येन्न सिध्येद्दोषसम्भव: । मद्यागर्वाज्यभुमन:पद्मचन्दनचम्पकै: ॥९॥
सगन्धा दिव्यगन्धाश्च मुमूर्षणां व्रणा: स्मृता: । ये च मर्मसु सम्भूता भवन्त्यत्यर्थवेदना: । दह्यन्ते चान्तरत्यर्थं बहि:शीताश्च ये व्रणा॥१०॥
प्राणमांसक्षयश्वास: कासारोचकपीडिता: । प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ॥११॥
किर्याभि: सम्यगारब्धा न सिध्यन्ति च ये व्रणा: । वर्जयेदेव तान्वैद्य:  संरक्षन्नात्मनो यश: ॥१२॥
इति वृणशोथनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
आदौ विम्लापनं कुर्याद्‍ द्वितीयमवसेचनम्‍ । तृतीयमुपनाहं च चतुर्थी पाटनक्रिया ॥१॥
पञ्चम‍ शोधनं कार्यं षष्ठं रोपणमिष्यते । एते क्रमा व्रणस्योक्ता: सप्तमं वैकृतापहम्‍ ॥२॥
अथ विम्लापनम्‍ ॥ अभ्य्ज्य स्वेदयित्वा तु वेणुनाड्या शनै: शनै: । विम्लापनार्थं गृह्णीत तलेनाड्गुष्ठकेन वा ॥१॥
अथावसेचनम्‍ ॥ रक्तावसेचनं कुर्यादादावेव विचक्षण: । शोफे महति संवृद्धे वेदनावति वा व्रणे ॥१॥
यो न याति शमं लेपात्‍ स्वेदसेकापतर्पणै: । सोऽपि नाशं व्रजत्याशु शोथ: शोणितमोक्षणात्‍ ॥२॥
एकतश्च क्रिया: सर्वा रक्तमोक्षणमेकत: । रक्तं हि विक्रियां याति तन्मोक्षे याति विक्रियाम्‍ ॥२॥
अथ लेप: ॥ मातुलुड्गाग्रिमन्थौ च सुरदारु महौषधम्‍ । अहिंस्त्रा चैव रास्त्रा च प्रलेपो वातशोथहा ॥१॥
कल्क: काञ्जिकसंपिष्ट: स्निग्ध: शाखोटकत्वच: । सुपर्ण इव नागाणां वातशोथविनाशन: ॥२॥
दूर्वा च नलमूलं च मधुकं चन्दनं तथा । शीतलैश्च गणै: सर्वै: प्रलेप: पित्तशोफजित्‍ ॥३॥
अजगन्धाश्वगन्धा च काला सरलया सह । कम्पिल्लका च शृड्गी च प्रलेप: श्लेष्मशोथहा ॥४॥
कृष्णा पुराणपिण्याकं शिग्रुत्वक्‍ सिकता शिवा । मूत्रपिष्ट: मुखोष्णोऽयं प्रलेप: श्लेष्मशोथहा ॥५॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसशेलुभि: । चन्दनद्वयमञ्जिष्ठायष्टीसूरणगैरिकै: ॥६॥
शतधौतघृतोन्मिश्रैर्लेपो रक्तप्रसादन: । दाहपाकरुजास्त्रावशोफनिर्वापण: पर: ॥७॥
आगन्तुजे रक्तजे च एष लेपोऽतिपूजित: ॥८॥
कटुतैलान्वितैर्लेप: सर्पनिर्मोकभस्मभि: । चय: शाम्यति गण्डस्य प्रकोप: स्फुटति द्रुतम्‍ ॥९॥
न रात्रौ लेपनं दद्याद्दतं च पतितं तथा । न च पर्युषितं नैव शुष्यमाणं च धारयेत्‍ ॥१०॥
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति । च चापि मुखमालिम्पेत्तेन दोष: प्रसिच्यते ॥११॥
न प्रशाम्यति य: शोफ: प्रलेपादिविधानत:  । द्रव्याणि पाचनीयानि दद्यात्तत्रोपनाहने ॥१२॥
अथोपनाहनम्‍ ॥ सतिला: सातसीबीजा दध्यम्लै: सक्तुपिण्डिका: । सकिण्वकुष्ठलवणा: शस्ता: स्युरुपनाहने ॥१॥
तैलेन सर्पिषा वापि द्वाभ्यां सक्तुकपिण्डिका । मुखोष्ण: शोथपाकार्थमुपनाह: प्रशस्यते ॥२॥
इत्युपनाहनम्‍ ॥ अथ पाटनम्‍ ॥ अन्त:पूयिष्ठवक्रेषु तथैवोत्सड्गवत्स्वपि । गतिमत्सु च रोगेषु भेदनं शस्तमुच्यते ॥१॥
बालवृद्धासहक्षीणभीरुणां योषितामपि । मर्मोपरि च जातेषु पक्वे शोफे च दारुणे ॥२॥
चिरिबिल्वाग्निको दन्ती चित्रको हयमारक: । कपोतकड्कगृध्राणां मललेपेन दारणम्‍ ॥३॥
स्वर्जिकायावशूकाद्या: क्षारा लेपेन दारणा: । हेमकान्त्यास्तथा लेपो व्रणे परमदारुण: ॥४॥
शणमूलकशिग्रूणां फलानि तिलसर्षपा: । सक्तव: किण्वमतसीप्रदेह: पाचन: स्मृत: ॥५॥
दन्तीमूलकचित्रत्वक्‍स्नुह्यर्कपयसा गुडै: । भल्लातकास्थिकासीससैन्धवैर्दारण: स्मृत: ॥६॥
हस्तिदन्तौ जले घृष्टो बिन्दुमात्र: प्रलेपित: । अत्यन्तकठिने चापि शोफे पाचनभेदन: ॥७॥
यवगोधूमचूर्णं च सक्षारं दारणं पृथक्‍ । हरिद्राभस्मचूर्णाभ्यां प्रलेपो दारण: पर: ॥ अजविट्‍क्षारमृज्जश्च प्रलेपो व्रणदारण: ॥८॥
इति पाटनम्‍ ॥ तत: प्रक्षालने क्वाथ: पटोलीनिम्बपत्रज: । अविशुद्धे विशुद्धे तु न्यग्रोधादित्वगुद्भव: ॥१॥
पञ्चमूलीद्वयं वाते न्यग्रोधादिश्च पैत्तिके । आरग्वधादिको योज्य: कफजे सर्वकर्मसु ॥२॥
अथ शोधनरोपणविधि: ॥ तिलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुतै: । त्रिवृन्मधुयुतै: पिष्टै: प्रलेपो व्रणशोधन: ॥१॥
तिलकल्क: सलवणो द्वे हरिद्रे त्रिवृद्‍घृतम्‍ । मधुकं निम्बपत्राणि लेप: स्याद्‍व्रणशोधन: ॥२॥
निम्बकोलकपत्राणां लेप: स्याद्‍ व्रणशोधन: । निम्बपत्रतिलै: कल्को मधुना व्रणशोधन: ॥३॥
निम्बपत्रं तिलादन्तीत्रिवृत्सैन्धवमाक्षिकम्‍ । दुष्टव्रणप्रशमनो लेप: शोधनकेसरी ॥४॥
अभयात्रिवृतादन्तीलाड्गलीमधुसैन्धवै: । सुषवीपत्रधत्तूरकर्ममोटकुठेरिका: ॥५॥
पृथगेते प्रलेपेन गम्भीरव्रणशोधना: । निम्बपत्रमधुभ्यां तु युक्त: संशोधन: स्मृत: ॥६॥
एकं वा सारिवामूलं सर्वव्रणविशोधनम्‍ । न्यग्रोधीदुम्बराश्वथकदुम्बप्लक्षवेतसा: ॥७॥
करवीरार्ककटुकाकषायो रोपणे हित: ॥८॥
सप्तदलदुग्धकल्क: शमयति दुष्टव्रणं प्रलेपेन । मधुयुक्ता शरपुड्खा सर्वव्रणरोपणी कथिता ॥९॥
पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतै: । धातकीलोध्रचूर्णैर्वा नि:सारा हन्ति ते व्रणा: ॥१०॥
निम्बपत्रघृतक्षौद्रं दार्वी मधुकसंयुता । वतिस्तिलानां कल्को वा शोधयेद्रोपयेद्‍व्रणम्‍ ॥११॥
निम्बयशम्याकजात्यर्कसप्तपर्णाश्वमारका: कृमिघ्ना मूत्रसंयुक्ता: सेकलेपनधावनै: ॥१२॥
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्‍ व्रणक्रिमीन्‍ । लशुनेनाथवा दद्याल्लेपनं कृमिनाशनम्‍ ॥१३॥
निम्बपत्रवचाहिड्गुसर्पिर्लवणसैन्धवै: । धूपनं कृमिरक्षोघ्नं व्रणकण्डूरुजापहम्‍ ॥१४॥
ये क्लेदपाकस्त्रुतिगन्धवन्तो व्रणा महान्त: सरुजा: सशोथा: । प्रयान्ति ते गुग्गुलुमिश्रितेन पीतेन शान्तिं त्रिफलाजलेन ॥१५॥
अथ गुग्गुलुवटक: ॥ त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृत: । निषेवितो विबन्धघ्नो व्रणशोधनमारेण: ॥१॥
अथ विडड्गादिगुग्गुलु: ॥ विडड्गत्रिफलाव्योषचूर्णं गुग्गुलुना समम्‍ । सर्पिषा वटकान्‍ कुर्यात्‍ खादेद्वा हितभोजन: ॥
दुष्टव्रणापचीमेहकुष्ठनाडीविशोधन: ॥१॥
अथामृताद्यो गुग्गुलु: । अमृतापटोलमूलं त्रिकटुत्रिफलाकृमिघ्नानाम्‍ । कृत्वा समभागचूर्णं तत्तुल्यो गुग्गुलुर्योज्य: ॥१॥
प्रतिवासरमेकैकां गुटिकां खादेत्तथाक्षपरिणामाणाम्‍ । जेतुं व्रणवातास्त्रं गुल्मोदरपाण्डुशोथादीन्‍ ॥२॥
अथ जात्यादिघृतम्‍ ॥ जातीपत्रपटोलनिम्बकटुकादार्वीनिशासारिवामञ्जिष्ठाभयतुत्थसिक्थमधुकैर्नक्ताह्वबीजै: समै: । सर्पि:सिद्धमनेन
सूक्ष्मवदना मर्माश्रिता: स्त्राविणो गम्भीरा: सरुजो व्रणा: सगतिका: शुध्यन्ति रोहन्ति च ॥१॥
अथ स्वर्जिकाघृतम्‍ ॥ स्वर्जिका च यवक्षार: कम्पिल्लं च हरेणुका । टड्कणं श्वेतखदिरं तुत्थं चूर्णं च गोघृतै: ॥१॥
सर्वं समांशं संचूर्ण्य़ मर्दयेत्प्रहरं द्दढम्‍ । स्वर्जिकाद्यमिदं सर्पि: सर्वव्रणहरं परम्‍ ॥ रोपणं कृमिकण्डूघ्नं सवर्णकरणं परम्‍ ॥२॥
अथ मन:शिलादिलेप: ॥ मन:शिला समञ्जिष्ठा सक्षारा रजनीद्वयम । प्रलेप: सघृतक्षौद्रस्त्वग्विशुद्धिकर: स्मृत: ॥१॥
अथ पारदादिमलहर: ॥ रसगन्धकयोश्चूर्णं तत्समं मुर्डशड्खकम्‍ । सर्वतुल्यं तु कम्पिल्लं किञ्चित्तुत्थसमन्वितम्‍ ॥१॥
सर्वं संमेलयेद्दत्वा घृतं सर्वाच्चतुर्गुणम्‍ । पिचुप्लुतं प्रदातव्यं दुष्टव्रणविशोधनम्‍ ॥२॥
नाडीव्रणहरं चैव सर्वव्रणनिषूदनम्‍ । ये व्रणा न प्रशाम्यन्ति भेषजानां शतेन च ॥ अनेन ते प्रशाम्यन्ति सर्पिषा स्वल्पकालत: ॥३॥
अथ द्वितीय: पारदादिमलहर: ॥ रसगन्धकसिन्दूररालकम्पिल्लमुर्डकम्‍ । तुत्थं खादिरकं चूर्णं सर्वं घृतचतुर्गुणम्‍ ॥१॥
युक्त्या संमेल्य पिचुना व्रणे देयं विजानता । सर्वव्रणप्रशमनं घृतमे तत्र संशय: ॥२॥
अथायोरजाआदिलेप: । अथोरज: सकासीसं त्रिफला कुसुमानि च । प्रलेप: कुरुते दार्व्या सद्य एव नवां त्वचम्‍ ॥१॥
इति व्रणशोथचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T19:59:36.1770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

asynchrony

  • न. असंकालन 
  • स्त्री. असंकालिकता 
  • स्त्री. असंकालिकता 
RANDOM WORD

Did you know?

Are there any female godesses in Hinduism?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site