संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानचिकित्से ॥

॥ अथ पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानचिकित्से ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानचिकित्से ॥
ये विषस्य गुणा; प्रोक्तास्ते च मद्ये प्रकीर्तिता: । तेन मिथ्योपयुक्तेन भवत्युग्रो मदात्यय: ॥१॥
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्‍ । अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम्‍ ॥२॥
शुद्धकाय: पिबेत्प्रात: सोपदंशं पलद्वयम्‍ । मध्याह्ने द्विगुणं तच्च स्निग्धाहारेण पाचयेत्‍ ॥३॥
प्रदोषेऽष्टपलं तद्वन्मात्रा मद्यरसायने । आरोग्यं धातुसाम्य़ं च वह्निकान्तिबलप्रदम्‍ ॥४॥
अनेन विधिना सेव्यं मद्यं नित्यमतन्द्रितै: । बुद्ध्यादयो गुणा यावदुल्लसन्ति निरत्यया: ॥ मात्रा या विहिता मद्यपाने रोगाय चापरा ॥५॥
लघुतीक्ष्णोष्णसूक्ष्माम्लव्यवाय्याशुगमेव च । रुक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम्‍ ॥६॥
मद्यस्याम्लस्वभावस्य चत्वारस्तु रसा: स्मृता: । मधुरश्च कषायश्च कटुकस्तिक्त एव च ॥७॥
मद्यं प्राणहरं तद्वद्युक्तियुक्तं रसायनम्‍ । प्राणा: प्राणभृतामन्नं तदयुक्तया निहन्त्यसून्‍ ॥८॥
मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च । रुक्षमाशुकरं चैव व्यवायि च विकाशि च ॥९॥
औष्ण्याच्छीतोपचारं च तैक्ष्ण्याद्धन्ति मनोगतिम्‍ । विशत्यवयवान्सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत्‍ ॥१०॥
मारुतं कोपयेद्रौक्ष्यादाशुत्वादाशुकारि च । हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति ॥११॥
तदम्लं रसत: प्रोक्तं लघुदीपनपाचनम्‍ । केचिल्लवणवर्ज्यांस्तु रसांस्तत्रादिशन्ति हि ॥१२॥

॥ अथ विधिनोपयुक्तस्य फलमाह ॥
विधिना मात्रया काले हितैरन्नैर्यथाबलम्‍ । प्रहृष्टो य: पिबेन्मद्यं तस्य स्यादमृतं यथा ॥१॥
स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्‍ । भवेदायुष्प्रकर्षाय बलायोपचयाय च ॥२॥
काम्यता मनसस्तुष्टिस्तेजो विक्रम एव च । विधिवत्सेव्यमाने तु मद्ये सन्निहिता गुणा: ॥३॥

॥ अथ सलक्षणतन्मदानाह ॥
तत्र प्रथम: । बुद्धिस्मृतिप्रीतिकर: सुखश्च पानान्ननिद्रारतिवर्धनश्च । सम्पाठगीतस्वरवर्धनश्च प्रोक्तोऽतिरम्य: प्रथमो मदो हि ॥१॥

॥ अथ मध्यममदमाह ॥
अव्यक्तबुद्धिस्मृतिवाग्विचेष्ट: सोन्मत्तलीलाकृतिरप्रशान्त: । आम्लस्यनिद्राभिहतो मुहुश्च मध्येन मत्त: पुरुषो मदेन ॥१॥

॥ अथ तृतीयमदमाह ॥
यच्छेदगम्यां न गुरुं च मन्येत्खादेदभक्ष्याणि च नष्टसंज्ञ: । ब्रूयाच्च ग्रुह्यानि हदि स्थितानि मदे तृतीये पुरुषोऽस्वतन्त्र: ॥१॥

॥ अथ सुश्रुतोक्तं चतुर्थमदमाह ॥
चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रिय: । कार्याकार्यविभागाज्ञो मृतादप्यपरो मृत: ॥१॥
को मदं तादृशं गच्छेदुन्मादमिव चापरम्‍ । बहुदोषमिवामूढ: कान्तारं स्ववश: कृती ॥२॥
श्लैष्मिकानिलपीतांश्च स्निग्धमात्रोपसेविन: । पानं न बाधतेऽत्यर्थं विपरीतं तु बाधते ॥३॥

॥ अथाविधिमद्यपानस्य विकारकारणत्वमाह ॥
निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्‍ । आपादयेत्कृष्टतरान्विकारानापादयेच्चापि शरीरभेदम्‍ ॥१॥

॥ अथ क्रुद्धादिकारणत्वेन विविधान्‍ विकारानाह ॥
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन । व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन वापि ॥१॥
अत्यम्लभक्षावततोदरेण साजीर्णभुक्तेन तथा बलेन । उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान्‍ ॥२॥

॥ अथ तानेव विकारान्‍ विवृणोति ॥
पानात्ययं परमदं पानाजीर्णमथापि वा । पानविभ्रममुग्ग्रं च तेषां वक्ष्यामि लक्षणम्‍ ॥१॥

॥ अथ तत्र वातिकमदात्ययमाह ॥
हिक्काश्वासशिर:कम्पपार्श्वशूलप्रजागरै: । विद्याब्दहुप्रलापस्य वातप्रायं मदात्ययम्‍ ॥१॥

॥ अथ पैत्तिकमाह ॥
तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमै: । विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम्‍ ॥१॥
ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च लक्षणानि ॥२॥

॥ अथ श्लैष्मकमाह ॥
छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवै: । विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम्‍ ॥१॥

॥ अथ त्रिदोषद्विदोषजमाह ॥
ज्ञेयस्त्रिदोषजश्चापि सर्वलिड्गैर्मदात्यय: । द्विदोषसम्भवैर्लिड्गैर्विज्ञेयस्तु द्विदोषज: ॥१॥

॥ अथ परमदमाह ॥
श्लेष्मौच्छ्रयो‍ऽड्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रिररोचकश्च । लिड्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेद: ॥१॥

॥ अथ पानाजीर्णपानभ्रमावाह ॥
आध्मानमुग्रमथ चोद्गिरणं विदाह: पाने त्वजीर्णमुपगच्छति लक्षणानि । हृद्गात्रभेदकफसंस्त्रवकण्ठधूममूर्च्छाविमज्वरशिरोरुजनप्रमेहा: ॥ द्वेष: सुरान्नविकृतेष्वपि तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीरा: ॥१॥

॥ अथासाध्यलक्षणमाह ॥
हीनोत्तरोष्ठमतिशीतममन्ददाहं तैलप्रभास्यमतिपानहतं त्यजेत्तम्‍ । जिह्वौष्ठदन्तग्रसितं त्वथ वापि नीलं पीते च यस्य नयने रुधिरप्रभेच च ॥१॥

॥ अथ तस्योपद्रवमाह ॥
हिक्का ज्वरो वमथुवेपथुपार्श्वशूला: कासभ्रमावपि च पानहतं त्यजेत्तम्‍ ॥

॥ अथ तच्चिकित्सा ॥
मद्यं सौवर्चलं व्योषं युक्तं किञ्चिज्जलान्वितम्‍ । जीर्णमद्याय दातव्यं वातपानात्ययापहम्‍ ॥१॥
शुक्तं सौवर्चलं शृड्गीत्र्यूषणार्द्रकदीपकै: । मद्यं पीत्वा जयत्युग्रं पवनोत्थं मदात्ययम्‍ ॥२॥

॥ अथ पित्तपानात्ययचिकित्सा ॥
पित्तपानात्यये पेयं वटशृड्गं हिमाम्बुना । सशर्करं पुनर्मद्यं पिबेत्किञ्चिज्जलान्वितम्‍ ॥१॥
क्षुद्रामलकखर्जूरपरुषकहिमं पिबेत्‍ । सिताविमिश्रितं पीतं पानात्ययविकारनुत्‍ ॥२॥

॥ अथ कफपानात्ययचिकित्सा ॥
पानात्यये कफोत्थे तु तत्पीत्वोल्लेखनं चरेत्‍ । यथाबलं लड्गनं च दीपनीयौषधानि च ॥१॥
अथाष्टाड्गलवणम्‍ । सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम्‍ । त्वगेलामरिचार्धांशं शर्कराभागयोजितम्‍ ॥१॥
एतल्लवणमष्टाड्गमग्निसन्दीपनं परम्‍ । मदात्यये कफोत्थे तु दद्यास्त्रोतोविशोधनम्‍ ॥२॥
इति कफपानात्ययचिकित्सा ॥
सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सितम्‍ । आभि: क्रियाभि: सिद्धाभि: शान्तिं याति मदात्यय: ॥१॥

॥ अथ सामान्यप्रतीकार: ॥
मधुना हन्त्युपयुक्ता त्रिफला रात्रौ गुडार्द्रकं प्रात: । सप्ताहात्पथ्यभुजो मदमूर्च्छाकामलोन्मादान्‍ ॥१॥
दु:स्पर्शेन समुस्तेन मुस्तपर्पटकेन वा । जलमुस्तै: शृतं वापिदद्याद्दोषविपाचनम्‍ ॥२॥
एतदेव च पानीयं सर्वत्रापि मदात्यये । निरत्ययं पीयमानं पिपासाज्वरनाशनम्‍ ॥३॥ इति वृन्दात्‍ ।
चव्यं सौवर्चलं हिड्गु पूरकं विश्वभेषजम्‍ । चूर्णं मद्येन पातव्यं पानात्ययरुजापहम्‍ ॥१॥
इति चिकितासारात्‍ ।
मन्थ: खर्जूरमृद्वीकावृक्षाम्लाम्लिकदाडिमै: । परुषकै सामलकैर्युक्तो मद्यविकारनुत्‍ ॥१॥ इति वृन्दात्‍ ।
मथितं गोदधिसहितं तैलं कर्पूरसंमिश्रम्‍ । आस्वाद्य पीतमाशु क्षपयति पानात्ययं रोगम्‍ ॥१॥
इति लघुयोगत: ॥ शतावरीरक्षीरयष्टीकल्कै: शृतं घृतम्‍ । पुनर्नवाक्वाथयुतं पानात्ययमपोहति ॥१॥
इति शतावरीपुनर्नवासर्पि: । कट्‍फलमुस्तगुडूचीमाषै: क्रमविवर्धितैश्च तत्सर्वम्‍ । घृतमुदितं माषघृतं हन्याद्गग्धं सुराभवं सपदि ॥१॥
इति माषघृतम्‍ ॥ मद्यं पीत्वा यदि वा तत्क्षणमवलिह्य शर्करां सघृताम्‍ । मदयति न जातु मद्यं मनागपि प्रथितवीर्यमपि ॥१॥
इति सामान्यप्रतीकार: ॥ अहानि सप्त चाष्टौ वा नृणां पानात्यय: स्मृत: । पानं हि मज्जतेऽजीर्णमत ऊर्ध्वं विमार्गगम्‍ ॥ पानाजीर्णविनाशायकुर्यात्कफहरं विधिम्‍ ॥१॥

॥ अथ पूगमदप्रतीकार: ॥
पूगान्मदं प्रशमयत्यचिरेण जन्तोराघ्राय शड्खरजस: प्रबलस्य गन्धम्‍ । पानेन वा शिशिरपुष्करिणीजलस्य संसेवितैरतिहितैर्व्यजनानिलैश्च ॥१॥ इति वृन्दात्‍ ॥

॥ अथ कोद्रवधत्तूरप्रतीकार: ॥
कूष्माण्डरस: सगुड: शमयति मदमाशु कोद्रवजम्‍ । धत्तूरजं च दुग्धं सशर्करं पानयोगेन ॥१॥

॥ अथ कज्जली ॥
धात्री स्वरसनिपीता रसगन्धककज्जली सितासहिता । हरति मदात्ययरोगान्‍ गरुत्मानिवोरगान्सहसा ॥१॥

॥ अथ पथ्यम्‍ ॥
गोधूमयवमुद्गाश्च माषषष्टिकशालय: । तण्डुलीयं पटोलं च दक्षबर्हिशशामिषम्‍ ॥ शीताम्बु चन्दनं स्नानं सेव्यमेतन्मदात्यये ॥१॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP