TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रात्रिचर्या ॥

॥ अथ रात्रिचर्या ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ रात्रिचर्या ॥
ज्योत्स्ना शीता स्मरानन्दप्रदा तृट्पित्तदाहहृत्‌ ।
ततो हीनगुणः कुर्यादवश्यायोऽ‍निलं कफम्‌ ॥१॥
तमो भयावहं मोहदिङ्भोहजननं भवेत्‌ ।
पित्तहृत्कफकृत्कामवर्धनं क्लमकृच्च तत्‌ ॥२॥
रात्रौ तु भोजनं कुर्यात्‌ प्रथमप्रहरान्तरे ।
किञ्चिदूनं समश्नीयाद्दुर्जरं तत्र वर्जयेत्‌ ॥३॥
शरीरे जायते नित्यं देहिनां सुरतस्पृहा ।
अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनौ ॥४॥
बलिनो मनसो रोधात्‌ क्रोधाद्वा ब्रह्मचर्यतः ।
नारीणामरसज्ञत्वात्‌ क्षीणं शुक्रं भवेन्नृणाम्‌ ॥५॥
दौर्बल्यं मुखशोषश्च पाण्डूत्वं सदनं भ्रमः ।
क्लैब्यं शुक्रविसर्गश्च क्षीणशुक्रस्य लक्षणम्‌ ॥६॥
संबन्धिन्यरिवल्लभा नृपवधूर्मित्राङ्गना रोगिणी शिष्यब्राह्मणवल्लभातिपतितोन्मत्ता महापापिनी ।
पिङ्गा प्रव्रजिता सती गुरुवधूर्वृद्धा तथा गर्भिणी म्लेच्छा कृष्णतमा तथापरिचिता त्याज्या इमा योषितः ॥७॥
सेवनं योषितां कुर्याद्बुधो बुद्ध्वा रतिक्रमम्‌ बालामुग्धाधिरूढानामनुरागविभावनात्‌ ॥८॥
बालेति गीयते नारी यावद्वर्षाणिषोडश ।
ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि ॥९॥
तदूर्ध्वमधिरूढा स्यात्पञ्चाशद्वत्सरावधि ।
वृद्धा तत्परतो ज्ञेया सुरतोत्त्सववर्जिता ॥१०॥
निदाघशरदोर्बाला हिता विषयिणे मता ।
तरुणी शीतसमये प्रौढा वर्षावसन्तयोः ॥११॥
नित्यं बाला सेव्यमाना नित्यं वर्धयते बलम्‌ ।
तरुणी ह्रासयेच्छक्तिं प्रौढोद्भासयते जराम्‌ ॥१२॥
सद्योमांसं नवान्नं च बाला स्त्री क्षीरभोजनम्‌ ।
घृतमुष्णोदकस्नानं सद्यःप्राणकराणि षट्‌ ॥१३॥
पूतिमांसं स्त्रियो द्वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट्‌ ॥१४॥
वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्रुयात्‌ ।
वयोऽधिकां स्त्रियः गत्वा तरुणं स्थविरायते ॥१५॥
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ।
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयत्ताः ॥१६॥
सेवेत कामतः कामं बलाद्वाजीकृतो हिमे ।
प्रकामं तु निषेवेत मैथुनं शिशिरागमे ॥१७॥
त्र्यहाद्वसन्तशरदोः पक्षाद्वृष्टिनिदाघयोः ।
शीते रात्रौ दिवा ग्रीष्मे वन्सते तु दिवा निशि ॥१८॥
वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः ।
त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः ॥१९॥
सर्वेष्वृतुषु धर्मेषु पक्षात्पक्षाद्व्रजेद्बुधः ।
आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम्‌ ॥२०॥
अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः ।
आस्यावर्णकफस्थौल्यसौकुमार्यसुखप्रदाम्‌ ॥२१॥
नोपेयात्पुरुषो नारीं सन्ध्ययोर्न च पर्वसु ।
गोसर्गे चार्धरात्रे च तथा संध्यादिनेऽपि च ॥२२॥
काम्यस्योदग्रवयसो वाजीकरणसेविनः ।
सर्वेष्वृतुष्वहरहो व्यवायो न निवार्यते ॥२३॥
घृतक्षीराशिनो निर्भीर्निर्व्याधिर्नित्यगो युवा ।
विहारं भार्यया कुर्याद्देशेऽतिशयसंवृते ॥२४॥
रम्ये श्राव्याङ्गनागाने सुगन्धिसुखमारुते ।
देशे गुरुजनासन्नेऽनिभृतेऽतित्रपाकरे ॥२५॥
श्रूयमाणव्यथाहेतुवचने च रमेत न ।
स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोऽन्वितः ॥२६॥
भुक्तवृष्यः सुवसनः सुवेषः समलङ्कृतः ।
ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः ॥२७॥
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे ।
अत्याशितोऽधृतिः क्षुद्वान्‌ सव्यथाङ्गः पिपासितः ॥२८॥
बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम्‌ ।
भार्यां तुल्यगुणोपेतां तुल्यशीलां कुलोद्भवाम्‌ ॥२९॥
अधिकामोऽभिकामां च हृष्टो हृष्टामलङ्कृताम्‌ ।
सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः ॥३०॥
सीमन्ताक्ष्यधरे कपोलगलके कुक्षौ कुचोरःस्थले नाभिश्रोणिवराङ्गजानुषु तथा गुल्फे पादाङ्गुष्ठके ।
वामाङ्के हरिणीदृशां मनसिजो मासस्य पक्षद्वये शुक्लश्यामविभागतः सुविहरत्यूर्ध्वाध एवं क्रमात्‌ ॥३१॥
सीमन्ते नखरं सुचुम्बनविधिं नेत्रे कपोलेऽधरे दन्ताग्रे विदधीत किञ्च नखरं कुक्षौ सुकण्ठेऽपि च ।
मन्दं वक्षसि ताडनं कुचयुगे श्रोणौ दृढं मर्दनं नाभौ किञ्च चपेटिकां स्मरगृहे मातङ्गलीलायितम्‌ ॥३२॥
गुल्फजानुपदाङ्गुष्ठसमये घातनानि च ।
इष्टचन्द्रकलास्पर्शाद्द्रावयेदम्बुजेक्षणाम्‌ ॥३३॥
रजस्वलामकामां च मलिनामप्रियां त्तथा ।
वर्णवृद्धां वयोवृद्धां  तथा व्याधिप्रपीडिताम्‌ ॥३४॥
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम्‌ ।
सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि ॥३५॥
नाभिगच्छेत्ततो नारीं भोरिवैगुण्यशङ्कया ।
रजस्वलां गतवतो नरस्यासंयतात्मनः ॥३६॥
दृष्ट्वायुस्तेजसां हानिरधर्मश्च ततो भवेत्‌ ।
लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु ॥३७॥
वृद्धां च संध्ययोश्चापि गच्छतो जीवनक्षयः ।
गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः ॥३८॥
हीनाङ्गीं मलिनां द्वेष्यां क्षामां वन्ध्यामसंवृते ।
देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो हरेत्‌ ॥३९॥
क्षुधितः क्रुद्धचित्तश्च मध्याह्ने तृषितोऽबलः ।
स्थितस्य हानि शुक्रस्य वायोः कोपं च विन्दति ॥४०॥
व्याधितस्य रुजा प्लीहा मूर्छामृत्युश्च जायते ।
प्रत्युषस्यर्धरात्रे च वातपित्ते प्रकुप्यतः ॥४१॥
तिर्यग्योनावयोनौवा दुष्टयोनौ तथैव च ।
उपदंशस्तथा वायोः कोपःशुक्रसुखक्षयः ॥४२॥
उच्चारिते मूत्रिते च रेतसश्च विधारणे ।
उत्ताने च भवेच्छिघ्रं शुक्राश्मर्यास्तु सम्भवः ॥४३॥
सर्वमेतत्त्यजेत्तस्माद्यतोलोकद्वये हितम्‌ ।
शुक्रं तूपस्थितं मोहान्न संधार्यं कदाचन ॥४४॥
स्नानानुलेपनहिमानिलखण्डखाद्यशीताम्बुदुग्धरसपूपसुराः प्रसन्नाः ।
सेवेत चातुदिवसं विरतौ रतस्य त अस्यैवमाशु वपुषः पुनरेति धाम ॥४५॥
स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम्‌ ।
ततो मांसरसः स्वप्नो व्यवायान्ते हिता अमी ॥४६॥
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः ।
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः ॥४७॥
रात्रौ जागरणं रूक्षं कफदोषविषार्तिजित्‌ ।
निद्रा तु सेविता काले धातुसाम्यमतन्द्रितम्‌ ।
पुष्टिवर्णबलोत्साहवह्निदीप्तिं करोति च ॥४८॥
यो लेढि शयनसमये मधुमिश्रं बीजपूरदलचूर्णम्‌ ।
स व्रीडाकरवातप्रसरनिरोधात्सुखं स्वपिति ॥४९॥
सवितुरुदयकाले प्रसृतीः सलिलस्य पिबेदष्टौ ।
रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम्‌ ॥५०॥
अनुदिनं त्वरुणे रविमण्डले पिबति तोयमनुज्झितमूत्रविट्‌ ।
अनिलपित्तकफानलदोषहृच्छतसमा रमते तरुणीशतम्‌ ॥५१॥
विगतघननिशीथे प्रातरुत्थाय नित्यं पिबति खलु नरो यो घ्राणरन्ध्रेण वारि ।
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो वलिपलितविहीनः सर्वरोगैर्विमुक्तः ॥५२॥
अर्शःशोथग्रहण्यो ज्वरजठरजराकोष्ठमेदोविकारा मूत्राघातास्रपित्तश्रवणगलशिरःश्रोणिशूलाक्षिरोगाः ।
ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तोस्तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः ॥५३॥
स्नेहपीते क्षतेऽशुद्ध्वावाध्माने स्तिमितोदरे ।
हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत्‌ ॥५४॥
नरो दिनादिचर्याभिर्यो न वर्तेत नित्यशः ।
स एव लभते रोगं ततः पथ्यं समाचरेत्‌ ॥५५॥
इति दिनरात्रिचर्या ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-12T18:41:42.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

AJAMĪḌHA II(अजमीढ)

  • We come across another Ajamīḍha also in the Lunar Dynasty. He married Sudevā, daughter of Vikaṇṭha a King of the Lunar Dynasty. This Ajamīḍha had 2400 children by his four wives, Kaikeyī, Gāndhārī, Viśālā and Ṛkṣā. Of them Saṁvaraṇa married Tapatī, the daughter of Vivasvān. See Tapatī Saṁvaraṇa. [M.B., Ādi Parva, Chapter 95, Verses 35-37]. 
RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.