संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वमनम् ॥

॥ अथ वमनम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ वमनम्‍ ॥
शरत्काले वन्सते च प्रावृट्‍काले च देहिनाम्‍ । वमनं रेचनं चैव कारयेत्कुशलो भिषक्‍ ॥१॥
बलवन्तं कफव्याप्तं हृल्लासादिनिपीडितम्‍ तथा वमनसात्म्यं च धीरचित्तं च वामयेत्‍ ॥२॥
विषदोषे स्तन्यरोगे मन्दाग्रौ श्लीपदेऽर्बुदे । हृद्रोगकुष्ठविसर्पमेहाजीर्णभ्रमेषु च ॥३॥
विदारिकापचीकासश्वासपीनसवृद्धिषु । अपस्मारे ज्वरोन्मादे तथा रक्तातिसारिषु ॥४॥
नासाताल्वोष्ठपाके च कर्णस्त्रावेऽधिजिह्वके । गलशुण्ड्यामतीसारे पित्तश्लेष्मगदे तथा ॥५॥
मेदोदोषेऽरुचौ चैव वमनं कारयेद्भिषक्‍ । न वामनीयस्तिमिरी न गुल्मी नोदरी कृश: ॥६॥
नातिवृद्धो गर्भिणी च न स्थूलो न क्षतातुर: । सुकुमारं कृशं बालं वृद्धं भीरूं न वामयेत्‍ ॥७॥
वमने चापि वेगा: स्युरष्टौ पित्तान्त उत्तमा: । षड्‍वेगा मध्यमा वेगाश्च्त्वारस्त्ववरा मता: ॥८॥
कृष्णाराठफलं सिन्धुं कफे कोष्णजलै: पिबेत्‍ । पटोलवासानिम्बैश्च पित्ते शीतजलं पिबेत्‍ ॥९॥
सश्लेष्मवातपीडायां सक्षीरं मदने पिबेत्‍ । अजीर्णे कोष्णपानीयं सिन्धुं पित्वा वमेत्सुधी: ॥१०॥

॥ अथ ग्रन्थान्तरे ॥
पटोलनिम्बसलिलं चाम्लपित्ते च वान्तिकृत्‍ । लवणं धृतयुक्तं च वमनार्थं सुखावहम्‍ ॥१॥
हत्कण्ठशिरसां शुद्धिर्दिप्तमग्र्निं च लाघवम्‍  । कफपित्तविनाशश्च सम्यग्वान्तस्य चेष्टितम्‍ ॥२॥
ततोऽपराह्ये दीप्ताग्निं मुद्गषष्टिकशालिभि: । हृद्यैश्च जाड्गलरसै: कृत्वा यूषं च भोजयेत्‍ ॥३॥
अजीर्णं शीतपानीयं व्यायामं मैथुनं तथा । स्नेहाभ्यड्गं प्रकोपं च दिनैकं वर्जयेत्सुधी: ॥४॥ इति वमनविधि: ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP