संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सूपाः ॥

॥ अथ सूपाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


मुद्गसूपो लघुर्ग्राही कफपित्तहरो हिमः ।
स्वादुर्नेत्र्योऽनिलहरः कुल्माषाः शुक्रवर्धनाः ॥१॥
माषसूपश्च कुल्माषस्निग्धो वृष्योऽनिलापहः ।
उष्णः संतर्पणो बल्यः सुस्वादुरुचिकारकः ॥२॥
आढकीसूप उद्दिष्टः श्लेष्मपित्तहरो हिमः ।
किञ्चित्कषायो रुचिकृत्‌ साज्यो दोषत्रयप्रणुत्‌ ॥३॥
चाणकः सूप आख्यातो रोचनः पाचनः परः ।
बलासपित्तनुब्दल्यो रक्तजिन्नातिवातलः ॥४॥
मकुष्ठसूपोऽल्पबलः पाचनो दीपनो लघुः ।
चक्षुष्यो बृंहणो वॄष्यः पित्तश्लेश्मास्ररोगनुत्‌ ॥५॥
मसूरसूपः संग्राही शीतलो मधुरो लघुः ।
कफपित्तास्रजिद्वर्ण्यो विषमज्वरनाशनः ॥६॥
राजमाषभवः सूपः स्वादुरूक्षः कषायकः ।
ग्राही गुरुर्वातकरःस्तन्यकॄद्रुचिकारकः ॥७॥
निष्पावसूपः पित्तास्रमूत्रस्तन्यानिलप्रदः ।
विदाह्युष्णो गुरुः शोफकफकृच्छुक्रलः सरः ॥८॥
कुलत्थसूपो वातघ्नः कटुः पाके कषायकः ।
कफाविरोधी पित्तास्रकरोष्मश्वासकासनुत्‌ ॥९॥
इति सूपाः ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP