संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ सिद्धान्नादिपाकगुणकथनम्‌ ॥

॥ अथ सिद्धान्नादिपाकगुणकथनम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


[ अथ भक्तम्‌ ]
जले चतुर्दशगुणे तण्डुलानां चतुःपलम्‌ ।
विपचेत्स्रावयेन्मण्डं स भक्तो मधुरो लघुः ॥१॥
अत्युष्णं बलहृद्भक्तं शीतं शुष्कं च दुर्जरम्‌ ।
अतिक्लिन्नं ग्लानिकरं दुर्जरं तण्डुलान्वितम्‌ ॥२॥
अतिद्रवं तु यद्भक्तं श्वासकासाग्निपीनसैः ।
हरेद्वर्णबलं ज्ञेयं शकृद्वातनिरोधकृत्‌ ॥३॥
तक्रसिद्धं तु यद्भक्तं ग्रहण्यर्शःश्रमापहम्‌ ।
वातघ्नं बलदं श्लेष्मपित्तरक्तविवर्धनम्‌ ॥४॥
भृष्टतण्डुलजंहक्तं रुचिकृत्कफजिलघु ।
वाअपितहरं ग्राहि ज्वरयक्ष्मातिसारनुत्‌ ॥५॥
यथोचिते जले धौतांस्तण्डुलान्विपचेत्सुधीः ।
मण्डं संस्राव्य सर्पिस्तु तत्र किञ्चिद्‌ विनिक्षिपेत्‌ ॥६॥
ज्वलन्तमेकमङ्गारं तदुपर्यर्पयेत्तथा ।
घटिकानन्तरं दर्व्योपरिभागं विनिर्हरेत्‌ ॥७॥
भक्तं विभक्तमेतत्तु राजयोग्यं मनोहरम्‌ ।
यवागूः षड्गुणैस्तोयैः संसिद्धा विरला द्रवा ॥८॥
यवागूर्ग्राहिणी तृष्णाज्वरघ्नी बस्तिशोधनी ।
चतुर्गुणे तु संसिद्धा विलेपी घनसिक्थका ॥९॥
विलेपी दीपनी वृष्या हृद्या संग्राहिणी लघुः ।
व्रणाक्षिरोगिणां पथ्या तर्पणी तृड्ज्वरापहा ॥१०॥
आमशूलहरा स्वादुर्दीपनी रुचिपुष्टिकृत्‌ ।
पेयासिक्थान्विता तोये चतुर्दशगुणे कृता ॥११॥
पेया कुक्षिगदक्लान्तिज्वरस्तम्भातिसारजित्‌ ।
रुच्याग्निकृल्लघुर्दोषमलस्वेदानुलोमनी ॥१२॥
मण्डश्चतुर्दशगुणे सिद्धस्तोये त्वसिक्थकः ।
मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्यकृत्‌ ॥१३॥
स्रोतोमार्दवकृत्पित्तज्वरश्लेष्मामयापहः ।
वाद्यमण्डो यवैर्भृष्टैर्लाजमण्डस्तु शालिभिः ॥१४॥
वाद्यमण्डो लघुर्ग्राही शूलदाहत्रिदोषनुत्‌ ।
नवज्वरेऽपि पथ्योऽ‍यं पटोलमगधान्वितः ॥१५॥
लाजमण्डो लघुर्ग्राही हृद्यः पाचनदीपनः ।
अतीसारग्रहण्यर्शोऽरोचकारुक्त्रिदोषनुत्‌ ॥१६॥
[ अथाष्टगुनमण्डः ]
तण्डुलैरर्द्धमुद्गांशैः किञ्चिद्भृष्टैः सुपाचितैः ।
हिङ्गुसिन्धूत्थधनिकातैलत्रिकटुसंस्कृतः ॥१॥
ज्ञेयः सोऽष्टगुणो मण्डो ज्वरदोषत्रयापहः ।
रक्तक्षुद्वर्धनः प्राणप्रदो बस्तिविशोधनः ॥२॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP