संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ ग्रीष्मे हिताहितमाह ॥

॥ अथ ग्रीष्मे हिताहितमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


स्वादु स्निग्धहिमं लघु द्रवमयं द्रव्यं रसालां सितां सक्तुक्षीरदशाङ्गुलानिसितया शालिं रसं मांसजम्‌ ।
शीतांशुं स्वपनं दिवा मलयजं शीतं पयः पानकं सेवेतोष्णदिने त्यजेत्तु कटुकक्षाराम्लघर्मश्रमान्‌ ॥१॥
ऋतुष्वेषु य एतैस्तु विधिभिर्वर्तते नरः ।
दोषानृतुकृतान्नैव लभते स कदाचन ॥२॥
तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः ।
समन्तादप्यहोरात्रमगस्त्योदयनिर्विषम्‌ ॥३।
शुचि हंसोदकं नाम निर्मलं मलजिज्जलम्‌ ।
नाभिष्यन्दि न वा रूक्षं पानादिष्वमृतोपमम्‌ ॥४॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP