TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शिरोरोगनिदानम् ॥

॥ अथ शिरोरोगनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ शिरोरोगनिदानम् ॥
॥ अथ शिरोरोगनिदानम्‍ ॥
धूमातपतुषाराम्बुक्रीडातिस्वप्नजागरै: । उत्सेधातिपुरोवातबाष्पनिग्रहरोदनै: ॥१॥
अत्यम्बुमद्यपानेन कृमिभिर्वेगधारणै: । उपधावमृजाभ्यड्गद्वेषाच्च प्रततेक्षणै: ॥२॥
असात्य्मगन्धदुष्टान्नमाषाद्यैश्च शिरोगता: । शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभि: ॥३॥
सन्निपातेन रक्तेन क्षयेण कृमिभिस्तदा । सूर्यावर्तानन्तवातशड्खकार्धावभेदका: । एकादशविधस्यास्य लक्षणानि प्रचक्षते ॥४॥
अथ चोक्तम ॥ सर्व एव शिरोरोगा: सन्निपातसमुद्भवा: । औत्कर्ष्यात्कीरितास्ते हि द्वादशेति क्षयेण च ॥१॥
अथ वातिकस्यलक्षणमाह ॥ यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्‍ । बन्धोपतापै: प्रशमश्च यत्र शिरोऽभिताप: स समीरणेन ॥१॥
अथ पैत्तिकमाह ॥ यस्योष्णमड्गारचितं यथैव भवेच्छिरो दह्यति चाक्षिनासम्‍ । शीतेन रात्रौ च भवेच्छमश्च शिरोऽभिताप: स तु पित्तकोपात्‍ ॥१॥
अथ श्लैष्मिकमाह ॥ शिरो भवेद्यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च । शूनाक्षिनासावदनं च यस्य शिरोऽभिताप: स कफ‍प्रकोपाद्‍ ॥१॥
अथ सान्निपातिकमाह ॥ शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिड्गानि समुद्भवन्ति ॥१॥
अथ रक्तजमाह ॥ रक्तात्मक: पित्तसमानलिड्ग: स्पर्शासहत्वं शिरसो भवेच्च ॥१॥
अथ क्षयजमाह ॥ वसाबलासक्शतसंभवानां शिरोगतानामतिसंक्षयेण । क्षयप्रवृत्त: शिरसोऽभिताप: कष्टो भवेदुग्ररुजोऽतिमात्रम्‍ ॥१॥
संस्वेदनच्छर्दनधूमनस्यैसृग्विमोक्षैश्च विवृद्धिमेति ॥२॥
अथ कृमिजमाह ॥ निस्तुद्यते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुटतीव चान्त: । घ्राणाच्च गच्छेद्रुधिरं सपूयं शिरोऽभिताप: कृमिभि: स घोर: ॥१॥
अथ सूर्यावर्तमाह ॥ सूर्योदयं या प्रतिमन्दमन्दमक्षिभृवौ रुक्‍ समुपैति गाढम्‍ । विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च ॥१॥
शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तु: सुखमाप्नुयाच्च । सर्वात्मकं कष्टतमं विकारं सूर्यात्प्रवृत्तं तमुदाहरन्ति ॥२॥
अथानन्तवातमाह ॥ दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य गाढं स्वरुजां सुतीव्राम्‍ । कुर्वन्ति साक्षिभ्रुवि शड्खदेशे स्थितिं करोत्याशु विशेषतस्तु ॥१॥
गण्डस्य पार्श्वे च करोति कम्पं हनुग्रहं लोचनजान्विकारान्‍ । अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम्‍ ॥२॥
अथ शड्खकमाह ॥ पित्तरक्तानिला दुष्टा: शड्खदेशे विमूर्च्छिता: । तीव्ररुग्दाहरोगं हि शोथं कुर्वन्ति दारुणम्‍ ॥१॥
स शिरो विषवद्वेगान्निरुध्याशु गलं तथा । त्रिरात्राज्जीवितं हन्ति शड्खको नाम नामत: ॥ त्र्यहं जीवति भैषज्यं प्रत्याख्यायास्य कारयेत्‍ ॥२॥
अथार्धावभेदकमाह ॥ रुक्षाशनात्यध्यशनात्प्राग्वातावश्यमैथुनै: । वेगसंधारणायासव्यायामै: कुपितोऽनिल: ॥१॥
केवल: सकफो वार्धं गृहीत्वा शिरसो बली । मन्याभ्रूशड्खकर्णाक्षिललाटार्धेषु वेदनाम्‍ ॥२॥
शस्त्राशनिनिभां कुर्यात्तीव्रां सो‍र्धावभेदक: । नयनं वाथवा श्रोत्रमभिवृद्धो विनाशयेत्‍ ॥३॥
इति शिरोरोगनिदानम्‍ ॥
====
॥ अथ शिरोरोगाणां चिकित्सा ॥
अथ वातिकस्य चिकित्सामाह ॥ वातजातशिरोरोगे स्नेहस्वेदविमर्दनम्‍ । पानाहारोपनाहांश्च कुर्याद्वातामयापहान्‍ ॥१॥
कुष्ठमेरण्डमूलं च नागरं तक्रपेषितम्‍ । कदुष्णं च शिर:पीडां भाललेपनतो हरेत्‍ ॥२॥
रस: श्वासकुठारो यस्तस्य नस्यं विशेषत: । शिर:शूलं हरत्येव विधेयं नात्र संशय: ॥३॥
देवदारु नतं कुष्ठं नलदं विश्वभेषजम्‍ । स काञ्जिकस्नेहयुक्तो लेपो वातशिरो‍र्चिनुत्‍ ॥४॥
कुष्ठमेरण्डमूलं च लेप: काञ्जिकपेषित: । शिरोऽर्ति वातजां हन्यात्पुष्पं वा मुचकुन्दजम्‍ ॥५॥
अथ शिरोवस्तिविधि: ॥ आशिरोव्यापि तच्चर्म षोडशाड्गुलमुच्छ्रितम्‍ । तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत्‍ ॥१॥
निश्चलस्योपविष्टस्य तैले: कोष्णै: प्रपूरयेत्‍ । धारयेदारुज: शान्तेर्यामं यामार्धमेव वा ॥२॥
शिरोवस्तिर्हरत्येष शिरोरोगं मरुद्भवम्‍ । हनुमन्याक्षिकर्णार्तिमर्दितम्‍ मूर्धकम्पनम्‍ ॥३॥
विना भोजनमेवैष शिरोवस्ति: प्रयुज्यते । पञ्चाहं वापि सप्ताहं षडहं चैवमाचरेत्‍ ॥४॥
ततोपनीतस्नेहस्तु मोचयेब्दस्तिबन्धनम्‍ । शिरोललाटवदनग्रीवांसादीन्विमर्दयेत्‍ ॥ मुखोष्णेनाम्भसा गात्रं प्रक्षाल्याश्राति यद्धितम्‍ ॥५॥
अथ पैत्तिकचिकित्सामाह ॥ पित्तात्मके शिरोरोगे स्निग्धं सम्यग्विरेचयेत्‍ । मृद्वीकात्रिफलेक्षूणां रसै: क्षीरघृतैरपि ॥१॥
शर्कराक्षीरसलिलै: शिरश्च परिषेचयेत्‍ । सर्पिष: शतधौतस्य शिरसा धारणं हितम्‍ ॥२॥
निमज्जनं च शिरस: शीतले शस्यतेऽम्भसि । कुमुदोत्पलपद्मानां शीतानां चन्दनाम्बुभि: ॥३॥
स्पर्शा: सुखाश्च पवना: सेव्या दाहार्तिशान्तये । चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलै: ॥४॥
क्षीरपिष्टै: प्रदेह: स्याच्छृतैर्वा परिषेचनम्‍ । यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धं हितं घृतम्‍ ॥५॥
नावनं शर्कराद्राक्षामधुकैर्वापि पित्तजे । धात्रीकसेरुह्वीबेरपद्मपद्मकचन्दनै: ॥६॥
दूर्वोशीरनलानां च मूलै: कुर्यात्प्रलेपनम्‍ । शिरोऽर्ति पित्तजां हन्याद्रक्तपित्तरुजं तथा ॥७॥
रस: श्वासकुठारोऽल्प: कर्पूर: कुड्कुमं नवम्‍ । सिता छागीपय: सर्वं चन्दनेनानुघर्षयेत्‍ ॥८॥
तस्य नस्यं भिषग्दद्यात्पित्तजायां शिरोरुजि । किन्तु मस्तकशूलेषु सर्वेष्वेव हितं मतम्‍ ॥ गुडनागरकल्कस्य नस्यं मस्तकशूलनुत्‍ ॥९॥
अथ श्लैष्मिकचिकित्सा ॥ श्लैष्मके लड्घनं रुक्षं लेपस्वेदादि कारयेत्‍ । हरेणुनतशैलेयमुस्तैलागुरुदारुभि: ॥१॥
मांसीरास्त्रोरुबूकैश्च कोष्णो लेप: कफार्तिनुत्‍ । शुण्ठीकुष्ठप्रपुन्नाट्देवकाष्ठै: समाहिषै: ॥ मूत्रपिष्टै: सुखोष्णैश्च लेप: श्लेष्मशिरोऽर्तिनुत्‍ ॥२॥
अथ सान्निपातिकचिकित्सा ॥ सन्निपातसमुत्थेऽत्र घृतं तैलं च बस्तय: । धूमनस्यशिरोरेकलेपस्वेदाद्यमाचरेत्‍ ॥ पुराणसर्पिष: पानं विशेषेण दिशन्ति हि ॥१॥
अथ स्मरफलादिप्रधमनम्‍ ॥ स्मरफलतिलपर्णीबीजसंयुक्तभूतां कुशदलघटबीजत्वग्रजोऽर्धांशतुत्थम्‍ । प्रधमनविधिना तद्दत्तमात्रं शिरोरुकप्रलपनकफतन्द्रासंनिपातं निहन्यात्‍ ॥१॥
अथ रक्तजचिकित्सा ॥ रक्तजे पित्तवत्सर्वं भोजनालेपसेवनम्‍ । शीतोष्णयोश्च विन्यासो विशेषाद्रक्तमोक्षणम्‍ ॥१॥
अथ क्षयजचिकित्सामाह ॥ क्षयजे क्षयनाशाय कर्तव्यो बंहणो विधि: । पाने नस्ये च सर्पि: स्याद्वातघ्नैर्मधुरै: शृतम्‍ ॥१॥
योजयेत्सगुडं सर्पिर्घृतपूरांश्च भक्षयेत्‍ । नावनं क्षीरसर्पिभ्यां पानं च क्षीरसर्पिषो: ॥ क्षीरपिष्टैस्तिलै: स्वेदो जीवनीयैश्च शस्यते ॥२॥
अथ कृमिजचिकित्सा ॥ कृमिजे तु शिरोरोगे व्योषनक्ताह्वशिग्रुजै: । अजामूत्रेण संपिष्टैर्नस्यं कृमिहरं परम्‍ ॥१॥
अथ विडड्गाद्यं तैलम्‍ ॥ विड्ड्गं स्वर्जिकादन्तीहिड्गुगोमूत्रसंयुतम्‍ । विपक्वं सार्षपं तैलं कृमिघ्नं नस्यत: स्मृतम्‍ ॥१॥
अथ सूर्यावर्तार्धावभेदकयोश्चिकित्सा ॥ सूर्यावर्ते शिरोवेधो नावनं क्षीरसर्पिषो: । हित: क्षीरघृताभ्यासस्ताभ्यां सह विरेचनम्‍ ॥१॥
भृड्गराजरसश्छागक्षीरतुल्योऽर्कतापित: । सूर्यावर्तं निहन्त्याशु नस्येनैव प्रयोगराट्‍ ॥२॥
शिरीषमूलकफलैरवपीडं प्रयोजयेत्‍ । अवपीडो हितो वा स्याद्वचापिप्पलिभि: कृत: ॥३॥
जाड्गलानि च मांसानि कारयेदुपनाहनम्‍ । तेनास्यशाम्यते व्याधि: सूर्यावर्त: सुदारुण: ॥४॥
एष एव विधि: कार्य: कृत्स्त्रश्चार्धावभेदके । अर्धावभेदके पूर्वं स्नेह: स्वेदो हि भेषजम्‍ ॥५॥
विरेक: कायशुद्भिश्च धूप: स्निग्धोष्णभोजनम्‍ । विड्ड्गानि तिलान्कृष्णान्समान्पिष्ट्वा विलेपयेत्‍ ॥६॥
नस्यं चाथाचरेत्तस्मादर्धभेदं व्यपोहति । गिरिकर्णीफलं मूलं सजलं नस्यमाचरेत्‍ ॥७॥
मूलं वा बन्धयेत्कर्णे निहन्त्यर्धशिरोरुजम्‍ । मरीचं भृड्गजद्रावैर्मरिचं शालितण्डुलै: ॥८॥
अर्धशीर्षव्यथां हन्ति लेपो वा शुण्ठिवारिणा । पिबेत्सशर्करं क्षीरं नीरं वा नारिकेलजम्‍ ॥९॥
सुशीतं वापि पानीयं सर्पिर्वा न स्यतस्तयो: । सारिवाकुष्ठमधुकवचाकृष्णोत्पलैस्तथा ॥१०॥
लेप: सकाञ्जिक: स्नेह: सूर्यावर्तार्धभेदयो: । सितोपलायुतं घृष्टं मदनं गोपयोऽन्वितम्‍ ॥११॥
नस्यतोऽनुदिते सूर्ये निहन्त्येवार्धभेदकम्‍ । पीत्वा शशमुण्डरसं मरिचैरवचूर्णितम्‍ ॥१२॥
भोजनादौ तु सप्ताहात्सूर्यावर्तार्धभेदकौ । हन्ति सर्वात्मकौ शीघ्रं दु:खदौ भृशदारुणौ ॥१३॥
अथानन्तवातशड्खकयोश्चिकित्सा ॥ अनन्तवाते कर्तव्य: सूर्यावर्तहितो विधि: । शिराव्यधश्च कर्तव्योऽनन्तवातप्रशान्तये ॥१॥
आहारश्च प्रदातव्यो वातपित्तविनाशन: । मधुमस्तकसंयावं घृतपूरैर्विशेषत: ॥२॥
दार्वी हरिद्रा मञ्जिष्ठा सनिम्बोशीरपद्मकम्‍ । एतत्प्रलेपनं कुर्याच्छड्खकस्य प्रशान्तये ॥३॥
शीततोयनिषेकश्च शीतलक्षीरसेवनम्‍ । कल्कैश्च क्षीरवृक्षाणां शड्खके लेपनं हितम्‍ ॥४॥
वरी नीलोत्पलं दूर्वा तिला: कृष्णा: पुनर्नवा । शड्खकेऽनन्तवाते च लेप: सर्वशिरोऽर्तिनुत्‍ ॥५॥
अथ सामान्यप्रतीकारमाह ॥ अथ षडबिन्दुतैलम्‍ । एरण्डमूलं तगरं शताह्वा जीवन्ति रास्त्रा सह सैन्धवेन । भृड्गं विडड्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम्‍ ॥१॥
अजापयस्तैलविमिश्रितं तु चतुर्गुणे भृड्गरसे विपक्वम‍ । षड्‍ बिन्दवो नासिकयो: प्रदेया: सर्वान्निहन्यु: शिरसो विकारान्‍ ॥२॥
च्युतांश्च केशांश्चलितांश्च दन्तान्निबद्धमूलान्‍ सुदृढीकरोति । सुपर्णदृष्टिप्रतिमं च चक्षु: कुर्वन्ति बाह्वोरधिकं बलं च ॥३॥
सशर्करं कुड्कुममाज्यभृष्टं नस्यं विधेयं पवनासृगुत्थे । भृशड्खकर्णाक्षिशिरोऽर्धशूले दिनाभिवृद्धिप्रभवे च रोगे ॥४॥
पथ्याक्षधात्रीरजनीगुडूचीभूनिम्बनिम्बै: सगुड: कषाय: । भूशड्खकर्णाक्षिरोऽर्धशूलं निहन्ति नासानिहित: क्षणेन ॥५॥
किं तु मस्तकशूलेषु सर्वेष्वेतद्भितं मतम्‍ । गुडनागरकल्कस्य नस्यं मस्तकशूलनुत्‍ ॥६॥
नागरकल्कविमिश्रं क्षीरं नस्येन योजितं नृणाम्‍ । नानादोषोद्भूतां शिरोरुजं हन्ति तीव्रतराम्‍ ॥७॥
शताह्वैरण्डमूलोग्राचक्रव्याघ्रीफलै: शृतम्‍ । तैलं नस्यान्मरुच्छ्लेष्मतिमिरोर्ध्वगदापहम्‍ ॥८॥
अथ मयूराद्यं घृतम्‍ ॥ मयूरं पक्षपादान्त्रशकृतपित्तास्यवर्जितम्‍ । जले पक्त्वा घृतप्रस्थं तस्मिन्क्षीरं समं पचेत्‍ ॥१॥
दशमूलबलारास्त्रामधुकैस्त्रिफलै: सह । मधुरै: कार्षिकै: कल्कै: शिरोरोगार्दितापहम्‍ ॥२॥
कर्णनासास्यजिह्वाक्षिगरोगविनाशनम्‍ । मयूराद्यमिति ख्यातमूर्ध्वजत्रुगदापहम्‍ ॥३॥
नस्येन कलिकाचूर्णं नवसागरजं रज: । वातश्लेष्मभवां पीडां शिरसो हन्ति सर्वदा ॥४॥
करञ्जशिग्रुबीजानि पत्रकं सर्षपत्वचा । सर्वेषां शीर्षरोगाणामेतच्छीर्षविरेचनम्‍ ॥५॥
त्रिकटुकपुष्कररजनीरास्त्रासुरदारुउग्रगन्धानाम्‍ । क्वाथ: शिरोऽर्तिजालं नासापीतो निवारयति ॥६॥
अथ पथ्यापथ्यम्‍ ॥ अथ भावप्रकाशाच्छिरोवस्तिविधौ पथ्यमुच्यते ॥ आमिषं जाड्गलं पथ्यं तत्र शाल्यादयोऽपि च । मुद्गान्माषान्‍ कुलित्थांश्च खादेद्वा निशि केवलान्‍ । कटुकोष्णान्ससर्पिष्कानुष्णं क्षीरं पिबेत्तथा ॥१॥
अथ पथ्यापथ्यसंहितायाम्‍ । स्वेदो नस्यं धूमपानं विरेको लेप: सेको लड्घनं शीर्षवस्ति: । रक्तोन्मुक्तिर्वह्निकर्मोपनाहो जीर्णं सर्पि: शालय: षष्टिकाश्च ॥१॥
यूषो दुग्धं धन्वमांसं पटोलं शिग्रुर्द्राक्षा वास्तुकं कारवेल्लम्‍ । आम्रं धात्री दाडिमं मातुलिड्गं तैलं तक्रं काञ्जिकं नारिकेलम्‍ ॥२॥
पथ्या कुष्ठं भृड्गराज: कुमारी मुस्तोशीरं चन्द्रिका गन्धसार: । कर्पूरं च ख्यातिमानेष वर्ग: सेव्यो मर्त्यै: शीर्षरोगे यथास्वम्‍ ॥३॥
अथापथ्यम्‍ ॥ क्षवं जृम्भा मूत्रबाष्प निद्राविड्वेगभञ्जनम्‍ । दुग्धं नीरं विरुद्धान्नं विरुद्धजलमञ्जनम्‍ ॥ दन्तकाष्ठं दिवा निद्रां शिरोरोगी परित्यजेत्‍ ॥१॥
इति पथ्यापथ्यम्‍ ॥
इति शिरोरोगचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T20:18:56.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आराखा

  • पु. ( व . ) मर्यादा ; कुंपण . [ सं . आ + रक्ष किंवा आ + रेखा ] 
RANDOM WORD

Did you know?

श्रावण महिन्यांत महादेवाच्या पिंडीवर दुधाचा अभिषेक कां करावा? त्याचे पुण्य काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site