TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ परिणामशूलनिदानप्रारम्भ: ॥

॥ अथ परिणामशूलनिदानप्रारम्भ: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ परिणामशूलनिदानप्रारम्भ: ॥
॥ अथ परिणामशूलनिदानप्रारम्भ: ॥
स्वैर्निदानै: प्रकुपितो वायु: सन्निहितस्तदा । कफपित्ते समावृत्य शूलकारी भवेब्दली ॥१॥
अथ तन्त्रान्तरे । बलास: प्रच्युत: स्थानात्‍ पित्तेन सह मूर्च्छित: । वायुमादाय कुरुते शूलं जीर्यति भोजने ॥१॥
कुक्षौ जठरपार्श्वेषु नाभ्यां बस्तौ स्तनान्तरे । पृष्ठमूलप्रदेशेषु सर्वेष्वेतेषु वा पुन: ॥२॥
भुक्तमात्रेऽथ वा वान्ते जीर्णे चान्त्रे प्रशाम्यति । षष्टिकव्रीहिशालीनामोदनेन च वर्धते ॥३॥
तत्परीणामजं शूलं दुर्विज्ञेयं महागदम्‍ । आहाररसवाहानां स्त्रोतसां दुष्टिहेतुकम्‍ ॥४॥
केचिदन्नद्रवं प्राहुरन्ये तत्पक्तिदोषजम्‍ । पक्तिशूलं वदन्त्येके केचिदन्नविदाहजम्‍ ॥५॥
अथ तस्य सामान्यलक्षणमाह ॥ भुक्ते जीर्यति यच्छूलं तदेव परिणामजम्‍ । तस्य लक्षणमेतद्धि समासेन प्रकीर्त्यते ॥१॥
अथ वातिकमाह ॥ आध्मानाटोपविण्मूत्रविबन्धरतिविपनै: । स्निग्धोष्णोमशमं प्रायो वातिकं तद्वदेद्भिषक्‍ ॥१॥
अथ पैत्तिकमाह ॥ तृष्णादाहारुचिस्वेदकट्‍वम्ललवणोत्तरम्‍ । शूलं शीतशमं प्राय: पैत्तिकं तद्वदेद्भिषक्‍ ॥१॥
अथ श्लैष्मिकमाह ॥ छर्दिहृल्लाससंमोहस्वल्परुग्‍ दीर्घसन्तति । कटुतिक्तोपशान्तं हि तच्च ज्ञेयं कफात्कम‍ ॥१॥
अथ द्विदोषजमाह ॥ संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत्‍ । अथ सान्निपातिकमाह । त्रिदोषजमसाध्यं स्यात्क्षीणमांसबलानलम्‍ ॥१॥
अथान्नद्रवाख्यम्‍ ॥ जीर्णे जीर्यत्यजीर्णे च यच्छूलमुपजायते । तदप्यसाध्यं नित्यत्वादुक्तं वैद्यविशारदै: ॥१॥
पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा । न शमं याति नियमात्सोऽन्नद्रव उदाहृत: ॥२॥
अथायं प्रायेण त्रिदोषविकृतित्वादसाध्य: ॥
आनाहो गौरवं छर्दिर्भ्रमस्तृष्णा ज्वरो‍ऽरुचि: । कृशत्वं बलहानिश्च वेदनातिप्रवर्तते ॥१॥
उपद्रवा दशैवैते शूले च परिणामजे । स्त्रोपद्रवोऽप्यस्त्राध्य: स्यात्कृछ्रेण निरुपद्रव: ॥२॥
इति परिणाशूलनिदानम्‍ ।

॥ अथ तच्चिकित्सा ॥
लड्घनं प्रथमं  कुर्याद्वमनं च विरेचनम्‍ । बस्तिकर्मं परं चात्र पक्तिशूलोपस्त्रन्तये ॥१॥
वातजं स्नेहयोगेन पित्तजं रेचनादिना । कफजं वमनाद्यैश्च पक्तिशूलमुपाचरेत्‍ ॥ द्वन्द्वजं स्नेहयोगेन तन्त्रियोगेन सर्वजम्‍ ॥२॥
अथ कल्का: ॥ विष्णुक्रान्ताजटाल्क: सिताक्षौद्रघृतैर्यत: । परिणामभवं शूलं नाशयेत्सप्तभिर्दिनै: ॥१॥
शुण्ठीतैलगुडै: कल्कं दुग्धेन सह योजयेत्‍ । परिणामभवं शूलमामवातं च नश्यति ॥२॥
नागरतिलगुडकल्कं पयसा संसाध्य य: पुमानद्यात्‍ । उग्रं परिणतिशूलं सप्ताहाज्जयति चावश्यम्‍ ॥३॥
अथ शम्बूकभस्मयोग: ॥ शम्बूकजं भस्म पीतं जलेनोष्णेन तत्क्षणात्‍ । पक्तिजं विनिहन्त्याशु शूलं विष्णुरिवासुरान्‍ ॥१॥
अथ शम्बूकादिवटिका ॥ शम्बूकमूषणं चैव पञ्चैव लवणानि च । समांशां गुटिकां कृत्वा कलम्बुकरसेन च ॥१॥
प्रातर्भोजनकाले वा भक्षयेच्च यथाबलम्‍ । शूलाद्विमुच्यते जन्तु: सहसा परिणामजात्‍ ॥२॥
अथ क्षीरमण्डूरम्‍ ॥ लोहकिट्टं पलान्यष्टौ गोमूत्रार्धाढके पचेत्‍ । परिणामभवं शूलं सद्यो हन्ति न संशय: ॥१॥
अथ तारमण्डूरम्‍ ॥ विड्ड्गं चित्रकं चव्यं त्रिफला त्र्य़ुषणानि च । नवभागानि चैतानि लोहकिट्टसमानि च ॥१॥
गोमूत्रं द्विगुणं दत्वा मूत्राद्विगुणको गुड: । शनैर्मृद्वग्निना पक्त्वा सुसिद्धं पिण्डतां गतम्‍ ॥२॥
स्निग्धभाण्डे विनिक्षिप्य भक्षयेत्कोलमात्रया । प्राड्मध्यान्तक्रमेणैव भोजनस्य प्रयोजित: ॥३॥
योगोऽयं शमयत्याशु पक्तिशूलं सुदारुणम्‍ । कामलां पाण्डुरोगं च शोथमेदोऽनिलार्शसाम्‍ ॥ शूलार्तानां कृपाहेतोस्तारया प्रकटीकृत: ॥४॥
अथ भीममण्डूरम्‍ । यवक्षारकणाशुण्ठीकोलं ग्रन्थिकचित्रकात्‍ । प्रत्येकं पलमादाय प्रस्थं लोहस्य किट्टत: ॥१॥
शनै: पचेदयस्पात्रे यावद्दर्वीप्रलेपनम्‍ । दत्वाष्टगुणगोमूत्रं किट्टाच्छुद्धाद्विचक्षण: ॥२॥
ततोऽक्षमात्रान्वटकान्योजयेत्सप्तरात्रत: । आदिमध्यावसानिषु भोजनस्योचितस्य वै ॥ स भीमवटको ह्येष परिणामरुगन्तक: ॥३॥
अथ शतावरीमण्डूर: ॥ संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम्‍ । शतावरीसस्याष्टौ दग्धश्च पयसस्तथा ॥१॥
पलान्यादाय चत्वारि तु भक्षयेन्मध्ये प्रान्ते भुक्तस्य चाग्रत: । वातात्मकं पित्तभवं शूलं च परिणामजम्‍ ॥३॥
निहन्त्येव हि योगो‍ऽयं मण्डूरस्य न संशय: । दुग्धे निर्वापणं कार्यं यद्वा बहुसुतारसे ॥४॥
अथवा चोभरोरेव लोहकिट्टस्य सप्तधा । रसो गन्ध: शुभ: पाके वर्ति: स्याद्यदि मर्दनात्‍ ॥ तदा पाकं विजानीयान्मण्डूरस्य भिषग्वर: ॥५॥
इति शतावरीमण्डूर: ॥ अथ लोहगुग्गुलु: ॥
त्रिफला मुस्तकं व्योषं विड्ड्गं पौष्करं वचा । चित्रकं मधुकं चैव पलांशं श्लक्ष्णचूर्णितम्‍ ॥१॥
अयोभस्म पलान्यष्टौ गुग्गुलुस्तावदेव तु । सर्पिषा मेलपित्वाथ कर्षमात्रवटीकृतम्‍ ॥२॥
अद्यादनुपिबेत्कोष्णं वारि शूलाद्विमुच्यते । जीर्णान्नसंभवात्पाण्डो: कामलाया हलीमकात्‍ ॥३॥
अथ विडड्गाद्यो मोदक: ॥ विड्ड्तण्डुलं व्योषं त्रिवृद्दन्ती सचित्रकम्‍ । सर्वार्ण्य्तानि संहृत्य सूक्ष्मचूर्नानि कारयेत्‍ ॥१॥
गुडेन मोदकान्कृत्वा भक्षयेत्प्रातरुत्थित: । उष्णोदकानुपानेन दद्यादग्निविवर्धनम्‍ ॥ जयेत्रिदोषजं शूलं परिणामसमुद्भवम्‍ ॥२॥
अथैरण्डादिभस्मयोग: ॥ एरण्डवह्निशम्बूकवर्षाभूगोक्षुरं समम्‍ । अन्तर्दग्ध्वा पिबेदद्भिरुष्णाभि: शूलशान्तये ॥१॥
अथ पथ्याद्यं लोहम्‍ ॥ पथ्यलोहरज: शुण्ठी तच्चूर्णं मधुसर्पिषा । परिणामभवं हन्ति वातपित्तकफात्मकम्‍ ॥१॥
अथ कृष्णाद्यं लोहम्‍ ॥ कृष्णाभयालोहचूर्णम्‍ विलिहन्मधुसर्पिषा । परिणामभवं शूलं सद्यो हन्ति सुदारुणम्‍ ॥१॥
अथ चतु:समं लोहम्‍ ॥ गन्धं ताम्रं रसं लोहं प्रत्येकं मारितं पलम्‍ । सर्वमेतत्समाहृत्य विपचेत्‍ कुशलो भिषक्‍ ॥१॥
आज्ये पलद्वादशके दुग्धे शतपले वरे । पक्त्वा तत्र क्षिपेच्चूर्ण सुपूतं घनतां नयेत्‍ ॥२॥
विडडुत्रिफलावह्नित्रिकटूनां तथैव च । क्षिप्त्वा पलोन्मितानेतान्यथा संमिश्रतां नयेत्‍ ॥३॥
तत: पिष्ट्वा शुभे भाण्डे स्थापयेच्च विचक्षण । आत्मन: शोभने घस्त्रे पूजयित्वा रविं गुरुम्‍ ॥४॥
घृतेन मधुना मर्द्यं भक्षयेन्माषसंमितम्‍ । अष्ट माषा: क्रमाद्यावन्मात्रां संस्तम्भयेत्तत: ॥५॥
अन्नपानं च दुग्धेन नारिकेलोदकेन वा । जीर्णशाल्यन्नमुद्गाश्च सितामांसरसादय: ॥६॥
रसानामविरुद्धानि पानान्नान्यपि भक्षयेत्‍ । हृच्छूलं पार्श्वशूलं च सामवातं कटिग्रहम्‍ ॥७॥
गुल्मशूलं च सर्वं च यत्कृप्लीहा विशेषत: । अग्निमान्द्यं क्षय: कुष्ठं श्वासकासविवर्चिका ॥ अश्मरी मूत्रकृच्छ्रं च योगेनानेन शाम्यति ॥८॥
इति चतु:समं लोहम्‍ ॥ अथ सामुद्राद्यं चूर्णम्‍ ॥

सामुद्रं सैन्धवं क्षारौ रुचकं रौमकं बिडम्‍ । दन्ती लोहराज: किट्टं त्रिवृत्सूरणकं समम्‍ ॥१॥
दधिगोमूत्रपयसा मन्दपावकपाचितम्‍ । तद्यथाग्निबलं चूर्णं पिबेदुष्णेन वारिणा ॥२॥
जीर्णेऽजीर्णे च भुञ्जीत मांसादि घृतसाधितं । नाशिशूलं च हृच्छूलं गुल्मप्लीहकृतं च यत्‍ ॥३॥
विद्रध्यष्ठीलजं हन्ति कफवातोद्भवं तथा । अन्नद्रवं जरयितुमजीर्णं ग्रहणीमपि ॥४॥
शूलानामपि सर्वेषामौषधं नास्त्यत: परम्‍ । परिणामसमुत्थस्य विशेषेणान्तकं मतम्‍ ॥५॥
इति सामुद्राद्यं चूर्णम्‍ ॥ अथ पिप्पल्यादियोग: ॥ समागधीगुडं सर्पि: प्रस्थं क्षीरं चतुर्गुणम्‍ । पक्वं पीत्वा जयत्याशु पक्तिशूलं समुद्धतम्‍ ॥१॥
अथ त्रिपुरभैरवो रस: ॥ भागौ रसस्य भागश्च हेम्न: पिष्टं विधाय च । तथा द्वादश भागानि ताम्रपत्राणि लेपयेत्‍ ॥१॥
ऊर्ध्वाधो गन्धकं दत्वा पलमात्रं समन्तत: । क्षारस्य मृगशृड्गस्य चूर्णं योज्यं समन्तत: ॥२॥
सिञ्चेनमत्स्याक्षिनीरेण रुद्ध्वा यामचतुष्टयम्‍ । पचेच्छूलहर: सूतो भवेत्रिपुरभैरव: ॥३॥
माषो मध्वाज्यसंयुक्तो देयोऽस्य परिणामजे । अन्येष्वेरण्डतैलेन कटुत्रययुतो हित: ॥४॥
अथ शूलदावानल: ॥ सारसग्रहात्‍ ॥ शुद्धसूतं विषं गन्दं पलांशं मर्दयेदृढम्‍ । मरीचं पिप्पली शुण्ठी हिड्गु सौवर्चलं द्वयम्‍ ॥१॥
पलाष्टकं पटूनां च चिञ्चाक्षारं पलाष्टकम्‍ । सप्तवारं शड्खभस्म जम्बीराम्ले निषेचयेत्‍ ॥२॥
पलाष्टकं च संयोज्यं तत्सर्वं निम्बुकद्रवै: । दिनं मर्द्यं कोलमात्रं भक्षयेत्सर्वशूलनुत्‍ ॥३॥
अजीर्णोदरमन्दाग्निमसाध्यमपि साधयेत्‍ । शूलदावानलख्योऽयं रसोऽजीर्णादिरोगहा ॥४॥
इति शूलदावानल: ॥

॥ अथ पथ्यापथ्यम्‍ ॥
माषादिशिम्बिधान्यानि मद्यानि वनिताहितम्‍ । आतपं जागरं क्रोधं शुचं सन्धानमम्लकम्‍ ॥ वर्जयेत्पक्तिशूलार्तस्तथाजीर्णं तिलानपि ॥१॥
इति परिणामशूलचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T19:12:29.8900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

फलवान्

  • a  Fruitful. 
RANDOM WORD

Did you know?

vastudoshavar udakshant ha paryay ahe ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.