संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मारणम्‌ ॥

॥ अथ मारणम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


तारपत्राणि सूक्ष्माणि कृत्वा तत्तुल्ययोः पृथक्‌ ।
सूतगन्धकयोस्तुल्यतालयोः खल्वसंस्थयोः ॥१॥
कल्कं कृत्वा कुमार्यद्भिस्तेन तानि प्रलेपयेत्‌ ।
शरावसंपुटे रुद्धं त्रिंशद्वन्योपलैः पुटेत्‌ ।
एवं रजतमाप्नोति मृतिं वारद्वयेन वै ॥२॥
अन्यच्च ।
विधाय पिष्टं सूतेन रजतस्याथ मेलयेत्‌ ।
तालगन्धसमं पश्चान्मर्दयेन्निम्बुकद्रवैः ॥
द्वित्रैः पुटेर्भवेद्भस्म योज्यमेतद्रसादिषु ॥३॥
अन्यच्च ।
माक्षिकं दरदनिम्बुजप्लुतं सूक्ष्मरौप्यदलसंचयं पुटेत्‌ ।
द्वित्रिवारमथ भस्मतां व्रजेत्पातकौघ इव शङ्करस्मृतेः ॥४॥
इति रौप्यमारणम्‌ ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP