संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रत्नानां शोधनमारणे ॥

॥ अथ रत्नानां शोधनमारणे ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


व्याघ्रीकन्दगतं वज्रं दोलायत्रेण पाचयेत्‍ । सप्ताहं कोद्रवक्काथै: कुलिशं विमलं भवेत्‍ ॥१॥ इति शोधनम्‍ ॥

॥ अथ मारणम्‍ ॥
त्रिवर्षारुढ्कार्पासीमूलमादाय पेषयेत्‍ । त्रिवर्षनागवल्ल्या वा निजद्रावै: प्रपेषयेत्‍ ॥१॥
तद्रोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत्‍ । एवं सप्तपुटैर्नूनं कुलिशं मृतिमृच्छति ॥२॥
अन्यच्च । त्रिसप्तकृत्व: सन्तप्तं खरमूत्रेण सेचितम्‍ । मत्कुणैस्तालकं पिष्ट्वा तद्रोले कुलिशं क्षिपेत्‍ ॥१॥
प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वक्रमेण वै । भस्मीभवति तद्वज्रं शड्खशीतांशुसुन्दरम्‍ ॥२॥
अन्यश्च । हिड्गुसैन्धवसंयुक्तक्काथे कौलत्थजे क्षिपेत्‍ । तप्तं तप्तं पुनर्वज्रं भूयाच्चूर्णं त्रिसप्तधा ॥१॥
मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधी: । स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत्‍ ॥ तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत्‍ ॥२॥
इति मारणम्‍ ॥ वज्रं समीरकफपित्तगदान्निहन्ति वज्रोपमं च कुरुते वपुरुत्तमश्रि । शोषक्षयभ्रमभगन्दरमेहमेद:पाण्डूदरश्वयथुहारि च
षण्ढषान्ढ्यम्‍ ॥१॥ इति गुणा: ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP