संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ जृम्भालक्षणम् ॥

॥ अथ जृम्भालक्षणम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ जृम्भालक्षणम्‍ ॥
पीत्वैकमनिलोच्छ्वासमुद्रमेद्विवृतानन: । यं मुञ्चति सनेत्राश्रु स जृम्भ इति संज्ञित: ॥१॥

॥ अथ क्लम: ॥
योऽनायासश्रमो देहे प्रवृद्ध: श्वासवर्जित: क्लम: स इति विज्ञेय इन्द्रियार्थमबोधक: ॥१॥

॥ अथ क्षवथु: ॥
प्राणोदानौ समौ स्यातां मूर्ध्रि स्त्रोत:पथे स्थितौ । नस्त: प्रवर्तते शब्द: क्षवथुं तं विनिर्दिशेत्‍ ॥१॥

॥ अथालस्यम्‍ ॥
सुखस्पर्शाप्रसड्गित्वं दु:खद्वेषेऽप्यलोलता  । शक्तस्य चाप्यनुत्साह: कर्मस्वालस्यमुच्यते ॥१॥

॥ अथोत्क्लेश: ॥
उत्क्लिश्यात्रं न निर्गच्छेत्प्रसेकष्ठीवनेरितम्‍ । हृदयं पीड्यते चास्य तमुक्लेशं विनिर्दिशेत्‍ ॥१॥

॥ अथ ग्लानेर्लक्षणम्‍ ॥
वर्क्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रम: । न चान्यदभिकाड्क्षेत ग्लानिं तस्य विनिर्दिशेत्‍ ॥१॥
 
॥ अथ गौरवम्‍ ॥
आर्द्रचर्मानद्धं च यो गात्रं मन्यते नर: । तथा गुरु शिरोऽत्यर्थं गौरवं तद्विनिर्दिशेत्‍ ॥१॥

॥ अथ गौरवम्‍ ॥
आर्द्रचर्मावनद्धं च यो गात्रं मन्यते नर: । तथा गुरु शिरोऽत्यर्थ गौरवं  तद्विनिर्दिशेत्‍ ॥१॥
=======================================

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP