TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ स्वर्णमाक्षिकम्‍ ॥

॥ अथ स्वर्णमाक्षिकम्‍ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ स्वर्णमाक्षिकम्‍ ॥
॥ अथ स्वर्णमाक्षिकम्‍ ॥
स्वर्णवर्णं गुर स्निग्ध्मीपन्नीलच्छविच्छटम्‍ । कषे कनकवद्‍घृष्टं तद्वरं हेममाक्षिकम्‍ ॥१॥
अशुद्धं माक्षिकं कुर्यादान्ध्यं कुष्ठं क्षयं कृमीन्‍ । शोधनीयं प्रयत्नेन तस्मात्‍ कनकमाक्षिकम्‍ ॥२॥

॥ अथ शोधनम्‍ ॥
त्रिभागं माक्षिकं ग्राह्यं चतुर्थांशेन सैन्धवम्‍ । जम्बीरजरसैवीपि बीजपूरद्रवै: पचेत्‍ ॥१॥
घर्षितं लोहपात्रे च याति पात्रं च रक्तताम्‍ । तत शुद्धत्वमायाति स्वर्णमाक्षिकमीदृशम्‍ ॥२॥

॥ अथान्यप्रकार: ॥
एरण्डतललुड्गाम्बुसिद्धं शुध्यति माक्षिकम्‍ । शुद्धं वा कदलीकन्दतोयेन घटिकाद्वयम्‍ ॥ तप्तं क्षिप्तं वराक्काथे शुद्धिमायाति माक्षिकम्‍ ॥१॥
घर्षितं लोहपात्रे शुद्धिमायाति माक्षिकम्‍ ॥१॥
अन्यच्च । अगस्तिपत्रनिर्यासै: शिग्रुमूलं सुपेषितम्‍ । तमध्ये पुटितं शुद्धं निम्बूजाम्लेन पाचितम्‍ ॥२॥
इति शोधनम्‍ ॥

॥ अथ मारणम्‍ ॥
माक्षिकस्य चतुर्थांशं दत्वा गन्धं विमर्दयेत्‍ । उरुवूकस्य तैलेन तत: कार्या मुचक्रिका ॥१॥
शरावसंपुटे कृत्वा पुटेद्रजपुटेन च । धान्यस्य तुषमूर्द्वाधो दत्वा शीतं समुद्धरेत्‍ ॥ सिन्दूराभं बह्वेद्भस्म माक्षिकस्य न संशय: ॥२॥
अन्यच्च । अजामूत्रे ऽथवा तैले कषाये वा कुलत्थजे । तक्रे वा घर्षितं पक्वं म्रियते स्वर्णमाक्षिकम्‍ ॥१॥
इति मारणम्‍ ॥

॥ अथ गुणा: ॥
माक्षिकं तिक्तमधुरं मेहार्श:क्षयकुष्ठ्तुत‍ । कफपित्तहरं शीतं योगवाहि रसायनम्‍ ॥१॥
माक्षिको रजतहाटकप्रभ: शोधितोऽतिगुणद: सुसेवित: । मेहकुष्ठ्कृभिशोफपाण्डुतापस्मृतीर्हरति सोऽश्मरीं जयेत्‍ ॥२॥
मन्दानलत्वं बलहानिमुग्रां विष्टम्भतामन्यगदांश्च दुष्टान । करोति मालां व्रणपूर्विकां च माक्षीकधातुर्गुरुरप्यपक्व: ॥३॥
माक्षीकधातु: सकलामयघ्र: प्राणो रसेन्द्र्स्य परं हि वृष्य । दुर्मेललोहद्वपमेलकश्च गुणोत्तर: सर्वरसायनाग्र्य: ॥४॥ इति स्वर्णमाक्षिकम् ॥

॥ अथ तारमाक्षिकम्‍ ॥
कांस्यवत्तारमाक्षिक्यं कषे घृष्टं तु रुप्यवत्‍ । गुरु स्निग्धं सितं यत्तच्छ्रेष्ठं स्यात्तारमाक्षिकम्‍ ॥१॥
स्वर्णमाक्षिकवद्दोषा विज्ञेयास्तारमाक्षिके । अगस्तद्दोषशान्त्यर्थं शोधनं कथ्यते यथा ॥२॥

॥ अथ शोधनम्‍ ॥
कर्कोटीमेषशृड्गीजै रसैम्बीरजैर्दिनम्‍ । आतपे भावना देया शुद्धं स्यात्तारमाक्षिकम्‍ ॥१॥ इति शुद्धि: ॥

॥ अथ तालकविधि: ॥
अशुद्धं तालमायुर्हुत्कफमारुतमेहकृत्‍ । तापस्फोड्गसंकोचान्कुरुते तेन शोधयेत्‍ ॥१॥

॥ अथ शोधनम्‍ ॥
तालकं कणश: कृत्वा तच्चूर्णं काञ्जिके क्षिपेत्‍ । दोलायन्त्रेण यामैकं तत: कूष्माण्डजद्रवै: ॥१॥
तिलतैले पचेद्यामं यामं च त्रिफलाजले । चूर्णोदके च यामैकं पक्वं शुध्यति तालकम्‍ ॥२॥

॥ अथ मारणम्‍ ॥
सदलं तालकं शुद्धं पुनर्नव्या रसेन तु । खल्वे विमर्दयेदेकदिनं पश्चाद्विशोषयेत्‍ ॥१॥
संशोष्य गोलकं कुयात्तच्च दिशोषयेत्‍ । तत: पुनर्नवाक्षरै: स्थाल्यर्धं तु प्रपूरयेत्‍ ॥२॥
तत्र द्ग्दोलकं कृत्वा पुनस्तेनैव पूरयेत्‍ । आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे ॥३॥
स्थालीं चुल्यां समारोप्य क्रमाद्वह्यिं विवर्धयेत्‍ । दिनान्यन्तरशून्यानि पच्ञ वह्यिं प्रदीपयेत्‍ ॥४॥
एवं तु म्रियते तालं मात्रा तस्यैव रक्तिका । अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत्‍ ॥५॥

॥ अथ गुणा: ॥
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम्‍ । कण्डूकुष्ठाख्यरोगास्त्रवातपित्तकफव्रणान्‍ ॥१॥
तालकं हरते रोगान्कुष्ठं मृत्युजरापहम्‍ । शोधितं कुरुते वीर्यं कान्तिं वृद्धिं तथायुष: ॥२॥

॥ अथ मन:शिला ॥
मन:शिला मन्दबलं करोति जन्तुं ध्रुवं शोधनमन्तरेण । मलस्य बन्धं किल मूत्ररोगं सशर्करं कृच्छ्रगदं च कुर्यात्‍ ॥१॥

॥ अथ तच्छोधनविधि: ॥
पचेत्र्यपहमजामूत्रं दोलायन्त्रे मन:शिलाम्‍ । भावयेत्सप्तधा मूत्रैरजाया: शुद्धिमृच्छति ॥१॥
अन्यच्च । अगस्तिपत्रतोयेन भाविता सप्तवारकम्‍  शृड्गबेररसे वापिविशुध्यति मन:शिला ॥१॥

॥ अथ गुणा: ॥
मन:शिला गुरुर्वर्ण्यां रसोष्णा लेखनी कटु: । तिक्तस्निग्धा विषश्वासकासभूतविषास्त्रनुत्‍ ॥१॥ इति मन:शिला ॥

॥ अथ स्त्रोतोऽञ्जनम्‍ ॥
स्त्रोतोऽञ्जनम्‍ द्विधा प्रोक्तं श्वेतकृष्णप्रभेदत: । त्रिफलावारिणा स्वेधं तद्वयं शुद्धिमृच्छति ॥१॥

॥ अथ गुणा: ॥
सौवीरं ग्राहि मधुरं द्विधा चक्षुष्यं कफपित्तजित्‍ । हिध्माक्षयास्त्रनुच्छतिं स्त्रोतोऽञ्जनमपीदृशम्‍ ॥१॥

॥ अथ तुत्थम्‍ ॥
विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयो: । दशांशं टड्कणं दत्वा पचेल्लघुपुटे तत: ॥
पुटं दग्धा पुटं क्षौद्रैर्देयं तुत्यं विशुध्यति ॥१॥
अन्य्च्च । ओतोर्विशा समं तुत्थं सक्षौद्रं ट्ड्गुणाड्घ्रियुक्‍ । त्रिधैवं पुटितं शुद्धं वान्तिभ्रान्तिविवर्जितम्‍ ॥१॥

॥ अथ गुणा ॥
तुत्थकं कटुकं क्षारं कषायं विषदं लघु । लेखनं भेदि चक्षुष्यं कण्डूकृमिविषापहम्‍ ॥
कफास्त्रपित्तकुष्ठघ्रं मेहमेदोविनाशनम्‍ ॥१॥ इति तुत्थम्‍ ॥

॥ अथ खर्परम्‍ ॥
मृमूत्रे वाथ गोमूत्रे सप्ताहं रसकं पचेत्‍ । दोलायत्नेण शुद्धं स्यात्तत: कार्येषु योजयेत्‍ ॥१॥
खर्परं कटुकं क्षारं कषायं वामकं लघु । लेखनं भेदनं शीतं चक्षुष्यं कफपित्तनुत्‍ । विषास्त्रकुष्ठकण्डूनां नाशनं परमं मतम्‍ ॥२॥
इति धातूपधातुशोधनमारणगुणा: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-15T19:40:30.5800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

करणारीचा हाटघाट आणि जेवणार्‍याचा मीठभात

  • [ आटघाट हाटघाट = आटापीटा, उरस्‍फोड ] साधा स्‍वयंपाक करावयाचा झाला तरी करणाराला कितीतरी खटपट पडते. पण आयत्‍या जेवणाराला त्‍याची काहीच कल्‍पना नसते. तो नुसता मीठभातच मिळाला म्‍हणून उलट असंतुष्‍ट असतो. तु०-शेळी जाते जिवानिशी खाणारा म्‍हणतो वातड. 
RANDOM WORD

Did you know?

मृतव्यक्तीच्या तेराव्याच्या जेवणात कोणकोणते पदार्थ करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.