TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तैलानि ॥

॥ अथ तैलानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ तैलानि ॥
॥ अथ तैलानि ॥
अथ लघुविषगर्भतैलम्‍ ॥ तैलाढके समतुषाम्बुहयारिहेमनिर्गुण्डिभास्करशिफासूतया तु सिद्धम्‍ । धत्तूरकुष्ठफलिनीविषहेमदुग्धारास्त्राहयारिकटाभीमरिचोपचित्रा ॥१॥
मांसीवचादहनसर्षपदेवदारुदार्वीनिशारुबुजतुत्रिफलासमड्गा: । पिष्ट्वा क्षिपेत्पलमिता विषगर्भमेततैलं समस्तपवनामयनाशनं स्यात्‍ ॥२॥
अथ द्वितीयलघुविषगर्भतैलम्‍ । धत्तूरस्य रसस्य पञ्चकुडवं तैलं तथा काञ्जिकं प्रस्थानां च चतुष्टयं गदवचा त्रिंशत्परं शाणका: । त्दृद्धात्रीमरिचात्पृथड्‍ नवविषात्षट्‍स्वर्णबीजात्पटो: स्यु: सप्ताधिकविंशति: परिमितं तीव्रानिलध्वसनम्‍ ॥१॥
पक्षाघातं हनुस्तम्भं मन्यास्तम्भं कटिग्रहम्‍ । पृष्टत्रिकशिर:कम्पं सर्वाड्गग्रहणं तथा ॥२॥
इति द्वितीयम्‍ ।
अथ महाविषगर्भतैलम्‍ ॥ कनकस्य च निर्गुण्डी तुम्बिनी च पुनर्नवा । वातारिश्चाश्व गन्धा च प्रपुन्नाटं सचित्रकम्‍ ॥१॥
सौभाञ्जनं काकमाची कलिकारे च निम्बकम्‍ । महानिम्बेश्वरी चैव दशमूलं शतावरी ॥२॥
कारवल्ली सारिवा च श्रावणी च विदारिका । वज्रार्को मेषशृड्गी च करवीरद्वयं वचा ॥३॥
काकजड्घा त्वपामार्गो बला चातिबलाद्वयम्‍ । व्याघ्री महाबला वासा सोमवल्ली प्रसारिणी ॥४॥
पलोन्मितानि चैतानि द्रोणेऽम्भसि विनिक्षिपेत्‍ । पचेत्पादावशेषेऽस्मिन्कल्कस्य कुडवं क्षिपेत्‍ ॥५॥
त्रिकटुं विषतिन्दुं च रास्ना कुष्ठं विषं घनम्‍ । देवदारुर्वत्सनाभो द्वौ क्षारौ लवणानि च ॥६॥
तुत्थकं कट्‍फलं पाठा भार्गी च नवसागरम्‍ । त्रायन्ती धन्वयासं च जीरकं चेन्द्रवारुणी ॥७॥
तैलप्रस्थं समादाय पाचयेन्मृदुवह्निना । विषगर्भमिदं नाम्ना सर्वान्वातान्व्यपोहति ॥८॥
वक्षोरुकटिजड्घानां सन्धानं श्रेष्ठमेव च । गृध्रसीं च महावातान्‍ सर्वाड्ग्रहणं तथा ॥९॥
दण्डापतानकं चैव कर्णनादं च शून्यताम्‍ । वनमध्ये यथा सिंहात्‍ पलायन्ते यथा मृगा: ॥१०॥
तथाश्वगजभग्रानां नराणां च चतुष्पदाम्‍ । नाशयेन्नात्र सन्देहो विषगर्भस्य लेपनात्‍ ॥११॥
इति महविषगर्भतैलम्‍ ॥ अथ प्रसारिणीतैलम्‍ ॥ समूलपत्रामुत्पाट्य जातसारां प्रसारिणीम्‍ । कुट्टयित्वा पलशतं कटाहे समधिश्रयेत्‍ ॥१॥
दध्रस्तत्राढकं दद्याद्विगुणं चाम्लकाञ्जिकम्‍ । भेषजानि तु पेष्याणि तत्रेमानि समावपेत्‍ ॥२॥
शुण्ठीपलानि पञ्चैव रास्नायाश्च पलद्वयम्‍ । प्रसारिणी पले द्वे च द्वे पले मधुकस्य च ॥३॥
एतत्सर्वं समालोढ्य शनैर्मृद्वग्निना पचेत्‍ । एतत्प्रभञ्जने श्रेष्ठं नस्यकर्मणि शस्यते ॥४॥
एकाड्गग्रहणं वापि सर्वाड्ग्रहणं तथा । अपस्मारं तथोन्मादं विद्रधिं मन्दवह्निताम्‍ ॥५॥
त्वग्गताश्चापि ये वाता: शिरासन्धिगताश्च ये । अस्थिसन्धिगता ये च ये च शुक्रान्तरे स्थिता: ॥६॥
सर्वान्वातामयान्नूनं नाशयत्येव सर्वथा । हयं नरं गजं वापि वातजर्जरितं भृशम्‍ ॥७॥
सद्य: प्रशमयेत्तैलमेतन्नात्र विचारणा । इन्द्रियस्य प्रजननं वन्ध्यानां च प्रजाकरम्‍ ॥८॥
वृद्धानां बालकानां च स्त्रीणां राज्ञां हितं परम्‍ । पड्गुर्वा पीठसर्पी वा पीत्वैतत्सम्प्रधावति ॥९॥
इति प्रसारणीतैलम्‍ ॥ अथ नारायणतैलम्‍ ॥ बिल्वाग्निमन्थस्योनाकपाटलापारिभद्रका: । प्रसरिण्यश्वगन्धा च बृहती कण्टकारिका ॥१॥
बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा । एषां दशपलान्भागांश्चतुर्दोणाम्भसा पचेत्‍ ॥२॥
पादशेषं परिस्त्राव्य तैलपात्रं प्रदापयेत्‍ । शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥३॥
चन्दनं तगरं कुष्ठमेलापर्णी चतुष्टयम्‍ । रास्त्रा तुरगगन्धा च सैन्धवं सपुनर्नवम्‍ ॥४॥
एषां द्विपलिकान्भागान्‍ पेषयित्वा विनिक्षिपेत्‍ । शतावरीरसं चैव तैलतुल्यं प्रदापयेत्‍ ॥५॥
आजं वा यदि वा गव्यं क्षीरं दत्वा चतुर्गुणम्‍ । पाने बस्तौ तथाभ्यड्गे भोज्ये नस्ये प्रयोजयेत्‍ ॥६॥
अश्वो वा वातभग्नो वा गजो वा यदि वा नर: । पड्गुर्वा भग्नहस्तो वा भग्नपादोऽथवा नर: ॥७॥
अधोभागे च ये वाता: शिरामध्यगताश्च ये । दन्तशूले हनुस्तम्भे मन्यास्तन्भेऽपतत्रके ॥८॥
एकाड्गग्रहणे वापि सर्वाड्ग्रहणे तथा । क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नरा: ॥९॥
लालाजिह्वाश्च बधिरा विस्वरा मन्दमेधस: । मन्दप्रज्ञा च या नारी या च गर्भं न विन्दति ॥१०॥
वातार्तौ वृषणौ येषामन्त्रवृद्धिश्च दारुणा । एतत्तैलं वरं तेषां नाम्ना नारायणं स्मृतम्‍ ॥११॥
इति नारायणतैलम्‍ ॥
अथ लघुनारायणं तैलम्‍ ॥ एलाबलानतकुचन्दनदारुसौम्याशैलेयकुष्ठकुटिलावरुणशृतेन । तैलं सदुग्धमिति सिद्धमभीरुकन्दतोयेन तेन तुलितेन समीरणघ्नम्‍ ॥१॥
अथ शतावरीनारायणतैलम्‍ ॥ शतावरी चांशुमती पृश्निपर्णी शटी बला । एरण्डस्य च मूलानि बृहत्यौ पूतिकस्य च ॥१॥
गवेधुकस्य मूलानि तथा सहचरस्य च । एषां दशपलान्भागाञ्जलद्रोणे पचेद्‍बुध: ॥२॥
पादावशेषे पूते च गर्भे चैतान्समावयेत्‍ । पुनर्नवा वचा दारु शताह्वा चन्दनोऽगुरु: ॥३॥
शैलेयं तगरं कुष्ठं तृटी मांसी स्थिरा बला । अस्वाह्वा सैन्धवं रास्त्रा मञ्जिष्ठा घनचोरकम्‍ ॥४॥
कौन्तीप्रियड्गुस्थौणेयं पलार्धं कल्पयेत्पृथक्‍ । गव्याजपयसो: प्रस्थौ द्वौ वा तत्र प्रयोजयेत्‍ ॥५॥
सतावरीरसप्रस्थं तैलप्रस्थं भिषक्‍ पचेत्‍ । लवड्गनखकक्कोलवेल्लकं जातिकोशकम्‍ ॥६॥
त्वक्कटुकं च कर्पूरं तुरुष्कं श्रीनिवासकम्‍ । स्पृक्काकुड्कुमकस्तूरीर्दद्यादत्रावता रिते ॥७॥
अस्य तैलस्य सिद्धस्य शृणु वीर्यमत: परम्‍ । अश्वानां वातरुणानां कुञ्जराणां तथा नृणाम्‍ ॥८॥
तैलमेतत्प्रयोक्तव्य़ं सर्ववातविकारनुत्‍ । आयुष्मांश्च नर: पीत्वा निश्चयेन दृढो भवेत्‍ ॥९॥
गर्भमश्वतरी विन्द्यात्किं पुनर्मानुषी तथा । त्दृच्छूलं पार्श्वशूलं च तथैवार्धावभेदकम्‍ ॥१०॥
अपचीं गण्डमालां च वातरक्तं हनुग्रहम्‍ । कामलामश्मरीं पाण्डुमुन्मादं विनियच्छति ॥११॥
नारायणेन गदितं तैलमेतत्कृपालुना । नारायणमिति ख्यातं नाम्ना तस्मादिदिं भुवि ॥१२॥
इति शतावरीनारायणतैलम्‍ ॥ अथ शतावरीतैलम्‍ ॥ रुग्दारुद्रविडिप्रियड्गुतगरं त्वकपत्रकौन्तीनखैर्मांसीसर्जरसाम्बुचन्दनवचाशैलेयलामज्जकै: । मञ्जिष्ठासरलागुरुद्विपबलारास्त्राश्वगन्धा वरीवर्षाभूमिसिसिन्धुभिश्च सकलैरेभि: पचेत्कल्कितै: ॥१॥
तुल्यं गोपयसा वरीरससमं तैलं विपक्वं मृदु स्याद्वातघ्नमिदं नृणामिति वरीतैलं भिषकपूजितम्‍ ॥२॥
अथ दशमूलादितैलम्‍ ॥ दशमूलकषायविपक्वमथो पयसा च समेन बलाब्दनलै: । तृटिचन्दनदारुलतानलदैररुणाजतुकुष्ठवचाकुटिलै: ॥१॥
इति पक्वमिदं तिलजं जयति प्रसभं पवनामयमाशु नृणाम्‍ । बलशुक्रविभारुचिवह्निकरं नृपवृद्धशिशुप्रमदासु हितम्‍ ॥२॥
अथ सुगन्धितैलम्‍ ॥ तगरागुरुकुड्कुमकुन्दुरुभि: सलवड्गवराड्गकुरड्गमदै: । सरलामरदारुदलद्रविडीनखकेसररुडनलिनीनलदै: ॥१॥
सतुरुष्कहरेणुबलाक्वथनैरिति तैलमिदं पयसा विपचेत्‍ । नृपतिप्रमदाशिशुभि: स्थविरैरुपयोज्यमिदं पवनामयजित्‍ ॥२॥
अथैलादि ॥ एलामुरासरलशैलजदारुकौन्तीचण्डाशटीनलदचम्पकहेमपुष्पम्‍ । स्थौणेयगन्धरसपूतिदलामृणालश्रीवासकुन्दुरुनखाम्बुलवड्गकुष्ठम्‍ ॥१॥
कालीयकं जलदकर्कटचन्दनश्रीर्जात्या: फलं सविकसं सह कुड्कुमेन । स्पृक्कातुरुष्कलघुम्भतया विनीय तैलं बलाक्वथनदुग्धदधिप्रपक्वम्‍ ॥२॥
मन्दानले न हितमेतदुदाहरन्ति वातामयेषु बलवर्णहुताशकारि ॥३॥
अथ महालक्ष्मीनारायणतैलम्‍ । सुश्रुतात्‍ ॥ दशशताड्घ्रिशिवेतरमल्लिका दगननागबलारुबुबाष्पिका । कितवलाड्गलकीवनमल्लिका कुटजहेदुवृकीखरशृड्गिका ॥१॥
मधुकबीजकचम्पकमालतीस्नुहिबलाकृमिहाप्रपुनाटका: । शतदलाश्ववराहकवासनीरुबुकधन्वनपिप्परिरक्तिका ॥२॥
अतिबलाद्विविषाशकदाडिमीशिखरिशाल्मलिसिन्धुकतुण्डिका । सुषिरपड्गुलकाशसुमर्कटीवरककुम्भनिकुम्भज्यन्तिका ॥३॥
कुसरिपिच्छालिकाकरमर्दिकाकसनमर्दनकेवणिरुपिका । अतसिवत्सकगृध्रमहीरुहो विदुलकुञ्जरिकाद्वितयोच्चटा: ॥४॥
दधिफलस्त्रुववृक्षमृगादनीमधुरसामगधाजलपत्रिका । रुदतिका पृथगेभ्यजटा: सुधी: समनुगृह्य तथैव दशाड्घ्रिकम्‍ ॥५॥
बिल्वाग्निमन्थस्योनाककाश्मरीपाटलायुतै: । शालिपर्णीपृश्निपर्णीबृहतीद्वयगोक्षुरै: ॥६॥
मुनितरुमलयतपनापामार्गबीजनक्तमालशृड्गाटी । प्रपुन्नाटो हेमदुग्धाफलेरुहाणां च बीजानि ॥७॥
धात्रीशिग्रुकरञ्जबब्बुलमधुष्ठीलेड्गुदीनेपती - नीपारग्वधरक्तसारबदरीविस्फूर्जन: काञ्चन: । चिञ्चोदुम्बरतापसीद्रुमयुगां कोलद्वयं सल्लकी गायत्रीकलिवृक्षभण्डिकदराश्वत्थाभयापादपा: ॥८॥
भल्लीकिंशुकमेषशृड्गिकिणिहीभूताड्कुश: शल्यक: कोशाम्रार्जुनपारिभद्रकमहावृक्षा: कुमार्यासनै: । कुम्भी रक्तधनञ्जयो नियमनो वातारिमोखाह्वया एतेषां परिगृह्य वल्कलमथो रम्भा विदारी वरी ॥ आलूकक्षिरकन्दवाजिसुवहा कर्कोटिका गृष्टिका खर्जूरी सुरसूरणप्रभृतिकान्कन्दांश्च साधूनपि ॥९॥
छिन्नाटरुषकशिवप्रियमाषपर्णीज्योतिष्मती युगुलपर्पटमेषवल्ली । भूपर्णिकासजटिकाभृगुराजमुण्डीयुक्कर्हरीकुलकयुग्मफलार्कभक्ता ॥१०॥
भूनिम्बवह्निदमनो गिरिकर्णिकायुक्‍ चिल्लारकाखदिरकाविजयाकुमार्य: । गड्गावती युगकवैष्णविका सुगन्धा लम्बा सुपर्वलतिका सहदेविका च ॥११॥
गोपीयुगं मृगखुरी सरणी च कड्गुमोर्यश्च नागदमनी मधुपुष्पिका च । एतानि गृह्य निखिलानि तथाब्दयुग्मं चूतास्थितोतरुरुहो वटसंप्ररोहान्‍ ॥१२॥
भूशर्करामदकरकुसुमं च पीलुबर्है: शिखां कनककेतकिसंप्ररोहान्‍ । व्याघ्राटिकाड्गघ्रिकरकं तिमिरोत्थसारं कण्डूकपित्थभवलोहजटां गृहीत्वा ॥१३॥
मुष्टिप्रमाणं विधिनोद्‍धृतानि द्रौणैर्जलानां तिसृभिर्विपाच्य । पादावशेषं परिगृह्य पूतं प्रस्थत्रयं तत्र तिलोत्थतैलम्‍ ॥१४॥
हिंस्त्रा रक्ता वरिष्ठा सुररजनियुगं सैंहलं गन्धसारं शृड्गारं नागपुष्पं पलितकटुफलं रक्तकाष्ठं नतं च । षड्‍ग्रन्थाजोड्गकाश्वारुचककररुहं रोचनारक्तसारं कोरञ्जीपालकाह्वं कृमिरिपुमधुकं सिन्धुजं स्निग्धदारु ॥१५॥
तालीसं जातिसस्यं मलयजममृतं पद्मकं जातिपत्री सेव्यं पद्मं यवानी कनकतुरवती केसरं पद्मकस्य । पाठीनो राजपुत्रीजलधरचविका
सोमवल्को मधूकं पाक्य: स्वर्जी शताह्वा वनजमगधजा मत्स्यपीता शटी च ॥१६॥
कारुञ्ची पुत्रजीवास्तपनकनकजं बीजभृड्गाररेची वृक्षाम्लं देवधूपो जरणसररसाकल्कराकुट्टिमं च ॥ मृद्वीकासाकुरण्डं नियमनधनिका धन्वयासं च ब्राह्मी विश्वं कैरारकेक्षुक्षुरककरिणामोदकं बस्तमोदा ॥१७॥
शक्राह्वा तिल्वलाख्योच्छुरपुरसुषवी मेथिका शृड्गिका च प्रत्येकं संगृहेत्वा पिचुदलतुलिता मुञ्च सकृत्प्रविष्टा । तान्निक्षिप्याशु पात्रे शुचिजनवित्दृतं निर्मलं वैद्यवर्यो गव्यं वा दुग्धमाजं युगपरिगणितं पूर्वमुक्ताच्च तैलात्‍ ॥१८॥
नारायण्य: स्वरसकमथो रड्गमाता रसं च तैलोन्मानं विपच रविजे भोजयेत्प्रत्यहं वा । तस्मिन्पाकं गतवति यथाविध्यनुप्रक्षिपेच्च सौगन्ध्याप्त्यै शिशिरकिरणं कुड्कुमं वेधमुख्यम्‍ ॥१९॥
गोधूमाख्यं सुसुरभियुतं गन्धकर्चूरकं च जातीपुष्पं शतदलसमं मल्लिकं चम्पकं च । लोहाह्वेन त्वतिसुरभिते काचभाण्डे निधाय तैलं चैतन्नृपतिसदने धारयेद्वैद्यवर्य: ॥२०॥
पाने बस्तौ विहितशमने नावनेऽभ्यञ्जने च मातड्गे वा मनुजहययोर्वातरोगाभिभूते । वाताष्ठीलागलहनुशिरोगृध्रसीपादशूलं पक्षाघातश्रवणनयनभूललाटे तु शूलम्‍ ॥२१॥
ऊरुस्तम्भार्दितबधिरतैकाड्गरोगापतानं मन्यास्तम्भं त्रिकहृदयरुड्मूकताक्षेपखाञ्ज्यम्‍ । जिह्वास्तम्भं गतिविकलताकुब्जतादन्तशूलं तून्यौ गुल्मद्वयं वा गुदकटिचरणभ्रंशहुल्फौ च सुप्तिम्‍ ॥
विश्वाचीं वा वृषणपवनं धातुवा तापतानं मूकं कम्पं जयति सकलान्वातरोगाननुक्तान्‍ । रेतोवृद्धिं जनयति नवं यौवनं पुंस्त्ववृद्धिं बुद्धिं
प्राणं वितरति तथा पुष्टिमायुष्यकारि ॥ वन्ध्याया: पुत्रदं स्याज्जवरविहिततनौ शोषदौर्भाग्यहन्तु तैलं भूपोपयोग्यं विनिगदितमिदं नाम नारायणं च ॥२३॥
इति महालक्ष्मीनारायणतैलम्‍ ॥ अथ माषतैलम्‍ ॥ माषक्वाथे बला क्वाथे रास्त्राया दशमूलजे । यवकोलकुलत्थानां छागमांसरसे पृथक्‍ ॥१॥
प्रस्थं तैलस्य च प्रस्थं क्षीरं दद्याच्चतुर्गुणम्‍ । रास्त्रात्मगुप्तसिन्धूत्थशताह्वैरण्डमुस्तकै: ॥२॥
जीवनीयवलाव्योषै: पचेदक्षमितै: पृथक्‍ । हस्तकम्पे शिर:कम्पे बाहुकम्पेऽवबाहुके ॥३॥
बस्त्यभ्यञ्जनपानेषु नावने च प्रयोजयेत्‍ । माषतैलमिदं श्रेष्ठमूर्ध्वजत्रुगदापहम्‍ ॥४॥
इति माषतैलम्‍ ॥ अथ महाबलातैलम्‍ ॥ बलामूलकषायस्य दशमूलीकृतस्य च । यवकोलकुलत्थानां क्वाथस्य पयसस्तथा ॥१॥
अष्टावष्टौ शुभान्भागांस्तैलादन्ये तदेकत: । पचेदावाप्य मधुरं गणं सैन्धवसंयुतम्‍ ॥२॥
तथागुरुं सर्जरसं सरलं देवदारु च । मञ्जिष्ठाचन्दनं कुष्ठमेला कोलाञ्जनं वरा ॥३॥
मांसीशैलेयकं पत्रं तगरं सारिवा वचा । शतावरी चाश्वगन्धा शतपुष्पा पुनर्नवा ॥४॥
तत्संसिद्धं च सौवर्णे राजते मृन्मयेऽथ वा । प्रक्षिप्य सकलं सम्यक्‍ सुगुप्तं स्थापयेहृध: ॥५॥
बलातैलमिदं ख्यातं सर्ववातविकारनुत्‍ । यथाबलं भिषड्‍मात्रां सूतिकायै प्रदापयेत्‍ ॥६॥
या च गर्भार्थिनी नारी क्षीणशुक्रश्च य: पुमान्‍ । क्षीणो वातैर्मर्महते मथिते पीडिते तथा ॥७॥
भग्ने च च्छिन्नभिन्ने च सर्वथैव प्रयोजयेत्‍ । सर्वानाक्षेपकादींश्च वातव्याधीन्‍ व्यपोहति ॥८॥
प्रत्यग्रधातु: पुरुषो भवेच्च स्थिरयौवन: । राज्ञा त्वे तद्धिं कर्तव्यं राजमान्यैस्तथानरै: ॥९॥
इति महाबलातैलम्‍ ॥ अथ विजयभैरवतैलम्‍ ॥ रसं गन्धं शिलातालं सर्वं कुर्यात्‍ समांशकम्‍ । चूर्णयित्वा तत: श्लक्ष्णमारनालेन पेषयेत्‍ ॥१॥
तेन कल्केन संलेप्य क्षौमं वस्त्रं तत: परम्‍ । घृताक्तां कारयेद्वर्तिमूर्ध्वभागे प्रदीपयेत्‍ ॥२॥
तस्याध:स्थापिते पात्रे तैलं पतति शोभनम्‍ । लेपयेत्तेन गात्राणि भक्षयेदातुर: सदा ॥३॥
नाशयेत्सूत्रतैलं तद्वातरोगानशेषत: । बाहुकम्पं शिर:कम्पं जड्घाकम्पं तत: परम्‍ ॥४॥
एकाड्गं च तथा वातं हन्ति लेपान्न संशय: । रोगशान्त्यै सदा भक्ष्यं तैलं विजयभैरवम्‍ ॥५॥
इति विजयभैरवतैलम्‍ ॥ अथ रास्त्रापूतिकतैलम्‍ ॥ दशमूलबलादारु अश्वगन्धा शतावरी । वरूणैरण्डनिर्गुण्डीतर्कारीशिग्रुमोरटम्‍ ॥१॥
सहाचरं चित्रमूलं करञ्जां कोलमूलकम्‍ । पुनर्नवां च भूपीलु अर्कपुड्खे दुरालभा ॥२॥
जीवन्ती विषतिन्दुश्च वातारिर्हिंस्त्रशिग्रुकम्‍ । अलर्कयवकोलं च कुलित्थानां कषायकम्‍ ॥३॥
एतेषां च समां रास्त्रां पूतिकं च तयो: समम्‍ । अष्टभागावशेषं तु कषायमवतारयेत्‍ ॥४॥
तत्पादं तिलतैलं च त्वजाक्षीरं च तत्समम्‍ । गुग्गुलं तगरं मांसी त्रिकटु त्रिफलानि च ॥५॥
चातुर्जातं कचोरं च विडड्गामरदारु च । हिड्गुरास्त्रावचातिक्तापाठायष्टिकचित्रकम्‍ ॥६॥
प्रियड्गुपिप्पलीमूलं चन्दनं चव्यदीप्यकम्‍ । वरालं चम्पकं कुष्ठं मञ्जिष्ठामिशिसर्षपम्‍ ॥७॥
जातीफलं सुगन्धं च पाठोशीरं समांशकम्‍ । एतत्तैलस्य षष्ठांशं कल्कद्रव्याणि दापयेत्‍ ॥८॥
सुमुहूर्तं सुनक्षत्रे नववस्त्रेण पीडयेत्‍ । पानलेपननस्याद्यशिरोबस्तिषु पूजितम्‍ ॥९॥
धनुर्वातान्तरायामं गृध्रसीमवबाहुकम्‍ । आक्षेपके व्रणायमे विश्वाच्यामपतन्त्रके ॥१०॥
आढ्यवाते हनुस्तम्भे शिरोवातापतानके । भ्रूशड्खकर्णनासाक्षिजिह्वास्तम्भेऽवदारुके ॥११॥
कलायखञ्जतापड्गुसर्वाड्गैकाड्गमारुते । अर्दिते पादहर्षे च पक्षाघाते प्रशस्यते ॥१२॥
ऊरुस्तम्भं सुप्तवातं नाशयेन्नात्र संशय: । रास्त्रापूतीकनामैतत्तैलमात्रेयनिर्मितम्‍ ॥१३॥ इति तैलानि ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-20T19:03:14.5170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sole proprietorship

  • एकमेव स्वामित्व 
  • = individual proprietorship 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मृत माणसाचा दहावा, तेरावा आणि चौदावा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.