संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ विद्रधिनिदानम् ॥

॥ अथ विद्रधिनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ विद्रधिनिदानम्‍ ॥
तस्य संप्राप्तिमाह ॥ त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिता:  । दोषा: शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम्‍ ॥११॥
तत्संख्यालक्षणे आह ॥ महामूलं रुजावन्तं वृत्तं वाप्यथ वायतम्‍ । स विद्रधिरिति ख्यातो विज्ञेय: षड्‍ विधश्च स: ॥१॥
पृथग्‍दोषै: समस्तैश्च क्षतेनाप्यसृजा तथा । षण्णामपि च तेषां तु लक्षणं च प्रचक्षते ॥२॥
अथ वातिकमाह ॥ कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदन: । चित्रोत्थानप्रपाकश्च विद्रधिर्वातसंभव: ॥१॥
अथ पैत्तिकमाह ॥ पक्वोदुम्बसंकाश: पीतो वा ज्वरदाहवान्‍ । क्षिपोत्थानप्रपाकश्च विद्रधि: पित्तसंभव: ॥१॥
अथ श्लैष्मिकमाह ॥ शरावसदृश: पाण्डु: शीत: स्निग्धोऽल्पवेदन: । चिरोत्थानप्रपाकश्च विद्रधि: कफसंभव: ॥१॥
अथ सांनिपातिकमाह ॥ तनुपीतसिताश्चैषामास्त्रावा: क्रमश: स्मृता: । नानावर्णरुजास्त्रावो घाटालो विषमो महान्‍ ॥
विषमं पच्यते चापि विद्रधि: सान्निपातिक: ॥१॥
अथाभिघातसम्प्राप्तिमाह ॥ तैस्तैर्भावैरभिहते क्षते वा पथ्यकारिण: । क्षतोष्मा वायुविसृत: सरक्तं पित्तमीरयेत्‍ ॥१॥
ज्वरतृष्णा च दाहश्च जायन्ते तस्य देहिन: । आगन्तुर्विद्रधिर्ह्येष पित्तविद्रधिलक्षण: ॥१॥
अथ रक्तजमाह ॥ कृष्णस्फोटावृत: श्यावस्तीव्रदाहरुजाज्वरै: ॥ पित्तविद्रधिलिड्गस्तु रक्तविद्रधिरुच्यते ॥१॥
उक्ता विद्रधयो ह्येते तेष्वसाध्यस्तु सर्वज: ॥ अभ्यन्तरविद्रधिकारणमाह ॥ अभ्यन्तरानतस्तूर्ध्वं विद्रधीन्संप्रचक्षते । गुर्वसात्म्यविरुद्धान्नशुष्कसंसृष्टभोजनात्‍ ॥१॥
अतिव्यवायव्यायामवेगाघातविदाहिभि: । पृथक्‍ संभूय वा दोषा: कुपिता गुल्मरुपिणम्‍ ॥ वल्मीकवत्समुनद्धमन्त: कुर्वन्ति विद्रधिम्‍ ॥२॥
अथ संस्थानमाह ॥ गुदे वस्तिमुखे नाभ्यां कुक्षौ वड्क्षणयोस्तथा । वृक्कयो: प्लीह्नि यकृति क्लोम्नि वाप्यथवा हृदि ॥१॥
अथैषां लक्षणम्‍ ॥ एवमुक्तानि लिड्गानि बाह्यविद्रधिलक्षणै: । अधिष्ठानविशेषेण लक्षणानि निबोध मे ॥१॥
गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता । नाभ्यां हिध्मा तु साटोप: कुक्षौ मारुतकोपनम्‍ ॥२॥
कटीपृष्ठग्रहस्तीव्रो वड्गक्षणस्थे तु विद्रधौ । वृक्कयो: पार्श्वसंकोच: प्लीह्नि श्वासनिरोधनम्‍ ॥३॥
सर्वाड्गप्रग्रहस्तीव्रो हृदि कासश्च जायते । श्वासो यकृति हिक्का च पिपासा क्लोमजेऽधिका ॥४॥
अथ स्त्रावनिर्गममाह ॥ नाभेरुपरिजा: पक्वा यान्त्यूर्ध्वभितरे त्वध: । अध:स्त्रुतेषु जीवेत्तु स्त्रुतेषूर्ध्व न जीवति ॥१॥
उक्तं हारीतेन । ऊर्ध्वं प्रपन्नेषु सुखं नराणां प्रवर्ततेऽसृकसहितो हि पूर्व: । अध: प्रपन्नेषु च पायुमार्गाद्‍ द्वाभ्याम्‍ प्रवृत्तिस्त्विह नाभिजे च ॥१॥
अथ स्त्रावविषयं साध्यासाध्यमाह ॥ हन्नाभिवस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यत: । जीवेत्कदाचित्पुरुषो नेतरेषु कदाचन ॥१॥
अथोक्तं भोजेन ॥ आसाध्यो मर्मजो ज्ञेय: पक्कोऽपक्कश्च विद्रधि: । सन्निपातोत्यितोऽप्येवं पक्व एव तु वस्तिज: ॥१॥
त्वग्‍जो नाभेरधो यश्च साध्यो मर्मसमीपज: । अपक्वश्चैव पक्वश्च साध्यो नोपरि नाभिज: ॥२॥
पुन: साध्यासाध्यत्वमाह ॥ साध्या विद्रधय: पञ्च विवर्ज्य: सान्निपातिक: । आमपक्वविदग्धत्वं तेषां शोथवदादिशेत्‍ ॥१॥
अथ तेषाभ्यन्तरेष्वसाध्यमाह ॥ आध्मानबद्धनिष्यन्दं छर्दिक्वातृषान्वितम्‍ । रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्ननरम्‍ ॥१॥
आमो वा यदि वा पक्वो महान्वा यदि वेतर: । सर्वो मर्मोत्थितत्वात्तु विद्रधि: कष्ट उच्यते ॥२॥
हृन्नाभिवस्तिज: पक्वो वर्ज्यो यश्च त्रिदोषज: । मुष्टिप्रमाणो गुल्मस्तु विद्रधिस्तु तत: परम्‍ ॥३॥
गुल्मस्तिष्ठ्ति कोष्ठेषु विद्रधिर्मांसशोणिते । विद्रधि: पच्यते यस्माद्‍ गुल्मश्चात्र न पच्यते ॥४॥
इति विद्रधिनिदानम्‍ ॥ अथ स्तनविद्रधिनिदानम्‍ ॥ पवनेन स्तनशिरा: संवृता वाथ योषिताम्‍ । सूतानां गर्भिणीनां च संभवेच्छ्वयथुर्घन: ॥१॥
स्तन: स्त्रिया: सदुग्धो वा बाह्यविद्रधिलक्षण: । नाडीनां सूक्ष्मवक्रत्वात्कन्यानां न सजायते ॥२॥
इति स्तनविद्रधिनिदानम्‍ ॥

N/A

References : N/A
Last Updated : March 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP