संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ यूषाः ॥

॥ अथ यूषाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


[ वैदलयूषः ]
यूषः स्मृतो वैदलानामष्टादशगुणेऽम्भसि ।
यूषो बल्यो लघुः पाके रुच्यः कण्ठकफापहः ॥१॥
मुद्गानामुत्तमो यूषो दीपनः शीतलो लघुः ।
व्रणोर्धजत्रुरुग्दाहकफपित्तज्वरास्रजित्‌ ॥२॥
दाडिमामलकाभ्यां तु मुद्गयूषः सुसाधितः ।
पित्तवातहरः पथ्यो लघुरग्निप्रदः सरः ॥३॥
मुद्गामलकयूषस्तु भेदनः कफपित्तजित्‌ ।
तृड्दाहशमनः शीतो मूर्छाभ्रममदापहः ॥४॥
कुलित्थयूषो गुल्मार्शःकफवाताश्मशर्कराः ।
तूनीप्रतूनीमेदांसि मेहं हन्त्य्ग्निकृत्सरः ॥५॥
चणकैर्विहितो यूषोऽनुष्णस्तुवरको लघुः ।
रक्तपित्तप्रतिश्यायकासपित्तकफापहः ॥६॥
मकुष्ठयूषः सङ्ग्राही पित्तश्लेष्मज्वरापहः ।
लघुः सन्तर्पणःपथ्यो हॄद्यः पीनसकासजित्‌ ॥७॥
मसूरयूषः सङ्ग्राही बृंही स्वादुः प्रमेहजित्‌ ।
तथा कषायो मधुरश्च यूषो विशोषणो वातहृदाढकीनाम्‌ ।
पित्तापहः श्लेष्महरो ज्वराणां कृमीन्निहन्याद्गुददारणं च ॥८॥
इति यूषाः [ अथागस्तिसारः ] अगस्तिसारःसुस्वादस्तिक्तो वायुकफप्रणुत्‌ ।
पाण्डुशोफारुचिप्लीहगुल्मशूलगदापहः ॥१॥
इति अगस्तिसारः ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP