TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथोदरनिदानप्रारम्भ: ॥

॥ अथोदरनिदानप्रारम्भ: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथोदरनिदानप्रारम्भ: ॥
॥ अथोदरनिदानप्रारम्भ: ॥
रोगा: सर्वेऽपि मन्दाग्नौ सुतराजमुदराणि तु । अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात्‍ ॥१॥
तन्त्रान्तरे ॥ अतिसञ्चितदोषाणां पापकर्म च कुर्वताम्‍ । उदराण्युपजायन्ते मन्दाग्नीनां विशेषत: ॥१॥
अथ तेषां प्राप्तिमाह ॥ रुद्ध्वा स्वेदाम्बुवाहीनि दोषा: स्त्रोतांसि सञ्चिता: । प्राणाग्न्यपानान्सन्दूष्य जनयन्त्युदरं नृणाम्‍ ॥१॥
सुश्रुते ॥ तत्पूर्वरुपं बलवर्णकाड्क्षावलीविनाशो जठरेऽपि राज्य: । जीर्णापरिज्ञानविदाहवत्यां वस्तौ रुज: पादगतश्च शोफ: ॥२॥
अथ सर्वेषां सामान्यलक्षणमाह ॥ आध्मानं गमनेऽशक्तिदौर्बल्यं दुर्बलाग्निता । शोफ: सदनमड्गानां सड्गो वातपुरीषयो: ॥१॥
दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि । गुर्वशीतं शिराजालै: सदा गुडगुडायते ॥२॥
पृथग्‍ दोषै: समस्तैश्च प्लीहबद्धक्षतोदकै: । संभवन्त्युदराण्यष्टां तेषां लिड्गं पृथक्‍ शृणु ॥३॥
अथ वातोदरलक्षणमाह ॥ तत्र वातोदरे शोफ: पाणिपन्नाभिकुक्षिषु । कुक्षिपार्श्वोदरकटीपृष्ठरुक्‍ पर्वभेदनम्‍ ॥१॥
शुष्ककासोऽड्गमर्दोधो गुरुता मलसंग्रह: । श्यावारुणत्वगादित्वमकस्मावृद्धिहृसवत्‍ ॥२॥

सतोदभेदमुदरं तनुकृष्णशिराततम्‍ । आध्यातदृतिवच्छब्दमाहतं प्रकरोति च ॥ वायुश्चात्र सरुक्‍ शब्दो विचरेत्सर्वतो गति: ॥३॥
अथ पैत्तिकमाह ॥ पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट्‍ कटुकास्यता । भ्रमोऽतिसार: पीतत्वं त्वगादावुदरं हरित्‍ ॥१॥
पीतताम्रश्राद्धं सस्वेदं सोष्म दह्यते । धूमायते मृदुस्पर्श क्षिप्रपाकं प्रदूयते ॥२॥
अथ श्लैष्मिकमाह ॥ श्लेष्मोदरेऽड्गसदनं स्वाप: श्वयथुगौरवम्‍ ॥ निर्द्रोत्क्लेशोऽरुचि: श्वास: कास: शुक्लत्वगादिता ॥१॥
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्‍ । चिराभिवृद्धिकठिनं शीतस्पर्श गुरुस्थिरम्‍ ॥२॥
अथ सान्निपातिकमाह ॥ स्त्रियोऽन्नपानं नखरोममूत्रविडार्तवैर्युक्तमसाधुवृत्ता: । यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा ॥१॥
तेनाशु रक्तं कुपिताश्च दोषा: कुर्यु: सुघोरं जठरं त्रिदोषम्‍ ॥२॥
तच्छीतवातादपदुर्दिनेषु विशेषत: कुप्यति दह्यते च । स चातुरो मूर्च्छति संप्रसक्तं पाण्डु: कृश: शुष्यति तृष्णया च ॥३॥
दूष्योदरं कीर्तितमेतदेव प्लीहोदरं कीर्तयतो निबोध । विदाह्यभिष्यन्दि रतस्य जन्तो: प्रदुष्टमत्यर्थमसृक्कफश्च ॥४॥
प्लीहाभिवृद्धिं कुरुत: प्रवृद्धौ प्लीहोत्थमेतज्जठरं वदन्ति । तद्वामप्रार्श्वे परिवृद्धिमेति विशेषत: सीदति चातुरोऽत्र ॥५॥
मन्दज्वराग्नि: कफपित्तलिड्गैरुपद्रुत: क्षीणबलोऽदि पाण्डु: । सव्यान्यपार्श्वे यकृति प्रदुष्टे ज्ञेयं यकृद्दाल्युदरं तदेव ॥६॥
प्लीहा निर्वेदन: श्वेतकठिन: स्थूल एव च । महापरिग्रह: शीतश्लेष्मसंभव इष्यते ॥७॥
सज्वर: सपिपासश्च स्वेदनस्तीव्रवेदन: । पीतगात्रो विशेषेण प्लीहा पैत्तिक उच्यते ॥८॥
नित्यमानद्धकोष्ठश्च नित्योदावर्तपीडित: । वेदनाभि: परीतश्च प्लीहा वातिक उच्यते ॥९॥
क्लमोऽतिदाह: संमोहो वैवर्ण्य गात्रगौरवम्‍ । रक्तोदरम्‍ भ्रमो मूर्च्छा ज्ञेयं रक्तजलक्षणम्‍ ॥ त्रयाणामपि रुपाणि प्लीन्ह्यसाध्ये भवन्ति हि ॥१०॥
अथ तत्र दोषसंबन्धमाह ॥ उदावर्तरुजानाहैर्मोहतृड्‍दहनज्वरै: । गौरवारुचिकाठिन्यैर्विन्द्यात्तत्र मलान्क्रमात्‍ ॥१॥
अथ बद्धगुदमाह ॥ यस्यान्नमन्नैरुपपलेपिभिर्वा बालाश्मभिर्वा पिहितं यथावत्‍ । सजञ्चीयते यस्य मल: सदोष: शनै: शनै: सड्करवच्च नाड्याम्‍ ॥१॥
निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम्‍ । हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति ॥२॥
एतब्दद्धोदरं तेन स्युर्दाहज्वरतृड्भ्रमा: । कासश्वासोरुसदनं रुग्‍हृन्नाभिशिरसु च ॥३॥
मलसड्गोऽरुचिश्छर्दिरुदरं मूढमारुतम्‍ । स्थिरनीलारुणशिरारोमराजिविराजितम्‍ ॥ नाभेरुपरि च प्रायो गोपुच्छाकृति जायते ॥४॥
॥ अथ दक्षोदरमाह ॥ शल्यं तथान्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा । तस्मात्स्त्रुतोऽन्त्रात्सलिलप्रकाश: स्त्राव: स्त्रावैद्वै गुदतस्तु भ्यूय: ॥१॥
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यतेऽतीव विदाल्यते च । एतत्परिश्राव्युदरं प्रदिष्टं दकोदरं कीर्तयतो निबोध ॥२॥
अथ दकोदरमाह ॥ य: स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरुढ: । पिबेज्जलं शीतलमाशु तस्य स्त्रोतांसि दुष्यन्ति हि तद्वहानि ॥१॥
स्नेहोपलिप्तेष्वथ वापि तेषु दकोदरं पूर्ववदभ्युपैति । स्निग्धं महत्तत्परिवृत्तनाभिसमाततं पूर्णमिवाम्बुना च ॥२॥
यथा दृति: क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत्‍ ॥३॥
अथ साध्यासाध्यत्वमाह ॥ जन्मनैवोदरं सर्वं प्राय: कृच्छ्र्तमं मतम्‍ । बलिनस्तदजाताम्बु यत्नासाध्यं नवोत्थितम्‍ ॥१॥
अशोषमरुणाभासं सशब्दं नातिभारिकम्‍ । सदा गुडगुडायुक्तं शिराजालगवाक्षितम्‍ ॥२॥
नाभिं विष्टभ्य वायुस्तु वेगं कृत्वा प्रणश्यति । हृद्वड्क्षणकटीनाभिगुदं प्रत्येकशूलीन: ॥३॥
कर्कशं सृजते वातं नातिमन्दे च पावके । लोलस्यापि रमे वाल्पे मूत्रऽल्पे संहते विशि ॥४॥
अजातोदकमित्येतैर्युक्तं विज्ञाय लक्षणै: । कुक्षेवृद्धिश्चातिमात्रं शिरान्तर्धानमेव च । दकपूर्णदृतिक्षोभस्पर्शं जातोदकं तथा । प्रायो भवत्यभावाय च्छिद्रान्त्रमुदरं नृणाम्‍ ॥१॥
अथ पुनरप्यसाध्यत्वमाह ॥ शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्‍ । बलशोणीतमांसाग्निपरिक्षीणं च वर्जयेत्‍ ॥१॥
पार्श्वभड्गान्नविद्वेषशोफातीसारपीडितम्‍ । विरक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत्‍ ॥२॥
इत्युदरनिदानम्‍ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T20:05:42.1330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झुलार

  • पु. झोंपाळा ; पाळणा ; झुला पहा . परी पुत्रमोहाची संपत्ती । चित्तझुलारीं हेलावे । - नव १६ . १७३ . 
RANDOM WORD

Did you know?

एखाद्या वास्तुला वास्तुशास्त्रानुसार कोणतेच उपाय नसल्यास, मग कांहीे उपाय आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site