TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ नाडीपरीक्षा ॥

॥ अथ नाडीपरीक्षा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ नाडीपरीक्षा ॥
नाडीमङ्गुष्ठमूलाधः स्पृशेद्दक्षिणके करे । ज्ञानार्थ रोगिणो वैद्यो निजदक्षिणपाणीना ॥१॥
स्थिरचित्तः प्रशान्तात्मा मनसा च विशारदः । स्पृशेदङ्गुलिभिर्नाडीं जानीयाद्दक्षिणे करे ॥२॥
प्रायः स्फुटा भवति वामकरे वधूनां पुंसां च दक्षिणकरे तदियं परीक्ष्य ईषद्धि चानतकरं वितताङ्गुलीकं बाहुं प्रसार्य रहितं परिपीडनेन ॥३॥
ईषद्विनम्रकृतकूर्परवामभागे हस्ते प्रसारितसदङ्गुलिसन्धिके च । अङ्गुष्ठमूलपरिपश्चिमभागमध्ये नाडीं प्रभातसमये प्रहरं परीक्ष्य ॥४॥
वारत्रयं परीक्षेत धृत्वा धृत्वा विमोचयेत्‌ । विमृश्य बहुधा बुद्ध्या रोगव्यक्तिं विनिर्दिशेत्‌ ॥५॥
अङ्गुलित्रितये स्पृष्ट्वा क्रमाद्दोषत्रयोद्भवाम्‌ । मन्दां मध्यगतिं तीक्ष्णां त्रिभिर्दोषैस्तु लक्ष्ययेत्‌ ॥६॥
वातं पित्तं कफं द्वन्द्वं त्रितयं सान्निपातिकम्‌ । साध्यासाध्यविवेकं च सर्वं नाडी प्रकाशयेत्‌ ॥७॥
स्नायुर्नाडी ततो हंसे धमनी धरणी धरा । तन्तुकी जीवनज्ञाना शब्दाः पर्यायवाचकाः ॥८॥
सद्यः स्नातस्य भुक्तस्य तथा स्नेहावगाहिनः । क्षुत्तृषार्तस्य सुप्तस्य नाडि सम्यङ्‌ न बुध्यते ॥९॥
अङ्गुष्ठमूलभागे या धमनी जीवसाक्षिणी । तच्चेष्टया सुखं दुःखं ज्ञेयं काकस्य पण्डितैः ॥१०॥
स्त्रीणां भिषग्‌ वामहस्ते पादे वामे च यत्नतः । शास्त्रेण संप्रदायेन तथा स्वानुभवेन वै ॥११॥
परीक्षा रत्नवच्चास्यास्त्वभ्यासादेव जायते । वातनाडी भवेत्‌ ब्रह्मा पित्तनाडी च शङ्करः ॥१२॥
श्लेष्मनाडी भवेद्विष्णुस्त्रिदेवा नाडिसंस्थिताः । अग्रे वातवहा नाडी मध्ये वहति पित्तला । अन्ते श्लेष्मविकारेण नाडी ज्ञेया बुधैः सदा ॥१३॥
सर्पजलौकादिगतिं वदन्ति विबुधाः प्रभञ्जने नाडीम्‌ । पित्तेन काकलावकमण्डूकादेस्तथा चपलाम्‌ ॥१४॥
राजहंसमयूराणां पारावतकपोतयोः । कुक्कुटस्य गतिं धत्ते धमनी कफसङ्गिनी ॥१५॥
मुहुः सर्पगतिं नाडीं मुहुर्भेकगतिं तथा । वातपित्तसमुद्भूतां तां वदन्ति विचक्षणाः ॥१६॥
सर्पहंसगतिं तद्वत्‌ वातश्लेष्मवतीं वदेत्‌ । हरिहंसगतिं धत्ते पित्तश्लेष्मान्विता धरा ॥१७॥
काष्ठकुट्टो यथा काष्ठं कुट्टते चातिवेगतः ।
स्थित्वा स्थित्वा गता नाडी सन्निपाते भवेद्‌ ध्रुवम्‌ ॥१८॥
वृद्धहारीतात्‌ । स्पन्दते चैकमानेन त्रिंशद्वारं यदा धरा । स्वस्थानेन तदा नूनं रोगी जीवति नान्यथा । स्थित्वास्थित्वा वहति या सा ज्ञेया प्राणघातिनी ॥१९॥
मन्दं मन्दं शिथिलशिथिलं व्याकुलं व्याकुलं वा स्थित्वा स्थित्वा वहति धमनी यातिसूक्ष्मा च सूक्ष्मा । नित्यं स्कन्धे स्फुरति पुनरप्यङ्गुलीः संस्पृशेद्वा भावैरेवं बहुविधतरैः संनिपातादसाध्या ॥२०॥
तस्य मृत्युं विजानीयाद्यस्येदं नाडिलक्षणम्‌ ॥२१॥
पूर्वं पित्तगतिं प्रभञ्जनगतिं श्लेष्माणमाबिभ्रतीमत्यन्तं भ्रमणं मुहुर्विदधतीं चक्रादिरूढामिव । भीष्मत्वं दधतीं कलासु पतितां सूक्ष्मत्वमातन्वतीं नो साध्यां धमनीं वदन्ति मुनयो नाडिगतिज्ञानिनः ॥२२॥
गम्भीरा या भवेन्नाडी सा भवेन्मांसवाहिनी । ज्वरवेगेन धमनी सोष्णा वेगवती भवेत्‌ ॥२३॥
कामक्रोधाद्वेगवहा क्षीणा चिन्ताभयप्लुता । मन्दार्गेः क्षीणधातोश्च नाडि मन्दतरा भवेत्‌ ॥२४॥
असृक्पूर्णा भवेत्सोष्णा गुर्वीसामा गरीयसी । लघ्वी वहति दीप्ताग्नेस्तथा वेगवती मता ॥२५॥
चपला क्षुधितस्यापि तृप्तस्य वहति स्थिरा । मरणे डमरूकस्य भवेदेकदिनेन च ॥२६॥
कम्पते स्पन्दतेऽत्यन्तं पुनः स्पृशति चाङ्गुलीः । तामसाध्यां विजानीयान्नाडीं दूरेण वर्जयेत्‌ ॥२७॥
स्थिरा नाडि भवेद्यस्य विद्युद्ध्युतिरिवेक्ष्यते । दिनैकं जीवितं तस्य द्वितीये मृत्युरेव च ॥२८॥
शीघ्रा नाडी मलोपेता शीतला वाथ दृश्यते । द्वितीये दिवसे मृत्युर्नाडी ज्ञेया विचक्षणैः ॥२९॥
मुखे नाडि वहेत्तीव्रा कदाचिच्छीतला वहेत्‌ । आयाति पिच्छिलः स्वेदः सप्तरात्रं न जीवति ॥३०॥
देहे शैत्यं मुखे श्वासो नाडी तीव्रा विदाहवत्‌ । मासार्धं जीवितं तस्य नाडिविज्ञानभाषितम्‌ ॥३१॥
मुखे नाडि यदा नास्ति मध्ये शैत्यं बहिः क्रमः । यदा मन्दा भवेन्नाडी त्रिरात्रं नैव जीवति ॥।३२॥
अतिसूक्ष्मा च वेगाच शीतला च भवेद्यदि । तदा वैद्यो विजानीयाद्रोगिणं च गतायुषम्‌ ॥३३॥
विद्युद्वन्नमिता नाडि दृश्यते च न दृश्यते । अकालविद्युत्पातेन स गच्छेद्यमशासनम्‌ ॥३४॥
तिर्यगुष्णा च या नाडी सर्पगा वेगवत्तरा । कफपूरितकण्ठस्य जीवितं तस्य दुर्लभम्‌ ॥३५॥
चैलाञ्चलितवेगा च नासिकाधारसंयुता । शीतलादृश्यते या च याममध्ये च मृत्युदा ॥३६॥
दृश्यते चरणे नाडि करे नैवाभिदृश्यते । मुखं विकसितं यस्य तं दूरं परिवर्जयेत्‌ ॥३७॥
वातपित्तकफाश्चापि त्रयो यस्यां समाहिताः । कृच्छ्रसाध्यामसाध्यां वा प्राहुर्वैद्यविशारदाः ॥३८॥
वक्रा च चपला शीतस्पर्शा वातज्वरे भवेत्‌ । द्रुता च सरला दीर्घा शीतपित्तज्वरे भवेत्‌ ॥२९॥
मन्दा च सुस्थिरा शीता पिच्छिला श्लेष्मतो भवेत्‌ । वक्रा च ईषच्चपला कठिना वातपित्तजा ॥४०॥
ईषच्च दृश्यते स्पष्टा मन्दा स्याच्छ्लेष्मवातजा । सूक्ष्मा शीता स्थ इरा नाडी पित्तश्लेष्मसमुद्भवा ॥४१॥
हंसगा चैव या नाडी तथैव गजगामिनी । मुखं प्रशस्तं च भवेत्तस्यारोग्यं भवेत्सदा ॥४२॥
यो रोगिणः करं स्पृष्ट्वा स्वकरं क्षालयेद्यति । रोगास्तस्य विनश्यन्ति पङ्कः प्रक्षालनाद्यथा ॥४३॥
॥ इति नाडीपरीक्षा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-10T18:35:22.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हान

  • स्त्री. १ नुकसान ; तोटा ; बूड . २ घात ; दुखापत ; धोका ; उध्वस्तता ; बिघाड ; नाश . [ सं . ] म्ह० आपली हानि जगाचें हासें . 
  • उअ . अन् ‍ ; आणि . - शर . 
  • ०पंचक न. ( ज्यो . ) एक कुमुहूर्त . चोरपंचक पहा . 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.