TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शूलनिदानं व्याख्यास्याम: ॥

॥ अथ शूलनिदानं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ शूलनिदानं व्याख्यास्याम: ॥
॥ अथ शूलनिदानं व्याख्यास्याम: ॥
यदुक्तं हारीते । अनड्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च । तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतूनं प्रविष्ट: ॥१॥
स विष्णुहुड्कारविमोहितात्मा पपात भूमौ प्रथित: स शूल: । स पञ्चभूतानुगत शरीरं प्रचूषयत्यस्य हि पूर्वसृष्टि: ॥२॥
शूलरोपणवत्पीडा यस्याकस्मात्प्रजायते । त्रिशूलसम्भवं चैनं शूलमाहु: पुराविद: ॥३॥
शड्खस्फोटनवत्तस्य यस्मात्तीव्रा च वेदना । शूक्तासक्तस्य भवति तस्माच्छूलमोहोच्यते ॥४॥
अथ तस्य सड्ख्यामाह ॥ पृथगदोषै: समस्तामद्वन्द्वै: शूलोऽष्टधा भवेत्‍ ॥ अथ प्राधान्यमाह ॥ सर्वेष्वेतेषु शूलेषु प्रायेण पवन: प्रभु: ॥१॥
अथ सम्प्राप्तिमाह ॥ व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्‍ । कलायमुद्गाढकिकोरदूषादत्यर्थरुक्षाध्यशनाभिघातात्‍ ॥ कषायतिक्तातिविरुढजान्त्रविरुद्धवल्लूरकशुष्कशाकात्‍ ॥१॥
अथ वातिकमाह ॥ विट्‍शुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात्‍ । वायु: प्रवृद्धो जनयेद्धि शूलं । त्दृपार्श्वंपृष्ठत्रिकबस्तिदेशे ॥१॥
अथ तस्य कालनियममाह ॥ जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम्‍ । मुहुर्मुहुश्चोपशमप्रकोपौ विड्वातसंरतम्भनतोदभेदै: ॥१॥
अथोपशयमाह ॥ क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषै: । कट्वम्लसौवीरसुराविकारै: क्रोधानलायासरविप्रतापै: ॥१॥
ग्राम्यातियोगादशनैर्विदग्धै: पित्तं प्रकुप्याशु करोति शूलम्‍ । तृण्मोहदाहार्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम्‍ ॥१॥
अथ तस्य कालनियममाह ॥ मध्यंदिने कुप्यति चार्धरात्रे निदाघकाले जलदात्यये च ॥ अथ तस्य शान्तिमाह ॥ शीते च शीतै: समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च ॥१॥
अथ श्लैष्मिकमाह ॥ आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभि: । अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम्‍ ॥१॥
त्दृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वै: ॥२॥
अथ तस्य कालनियममाह ॥ भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च ॥१॥
अथ सान्निपातिकमाह ॥ सर्वेषु दोषेषु च सर्वलिड्गं विद्याद्भिषक्‍ सर्वभवं हि शूलम्‍ । सुकष्टमेनं विषवज्रतुल्यं विवर्जनीयं प्रवदन्ति तज्ज्ञा: ॥१॥
अथ आमजमाह ॥ आटोपत्दृल्लासवमीगुरुत्वस्तैमित्यकनाहकफप्रसेकै: । कफस्य लिड्गेन समानलिड्गमामोद्भवं शूलमुदाहरन्ति ॥१॥
अथ द्विदोषजमाह ॥ द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम्‍ । बस्तौ त्दृत्कण्ठपार्श्वेषु स शूल: कफवातिक: ॥१॥
कुक्षौ त्दृन्नाभिमध्ये य: स शूल: कफपैत्तिक: । दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिक: ॥२॥
अथ तन्त्रान्तरे ॥ वातात्मकं बस्तिगतं वदन्ति पित्तात्मकं चापि वदन्ति नाभ्याम्‍ । त्दृपार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्निपातात्‍ ॥१॥
अथ मध्ये साध्यासाध्यत्वमाह ॥ एकदोषोत्थित: साध्य: कृचछ्रसाध्यो द्विदोषज: । सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्यपद्रव: ॥१॥
अथ भूर्यपद्रवानाह ॥ वेदनातितृषामूर्च्छा ह्यानाहो गौरवारुची । भ्रमो ज्वर: कृशत्वं च बलहानिस्तथैव च ॥ कास: श्वासश्च हिक्का च शूलस्योपद्रवा: स्मृता: ॥१॥
इति शूलनिदानम्‍ ॥

॥ अथ सामान्यतस्तच्चिकित्सा ॥
वमनं लड्घनं स्वेद: पाचनं फलवर्तय: । क्षारश्चर्णश्च गुटिका: शस्यन्ते शूलशान्तये ॥१॥

॥ अथ वातशूलचिकित्सामाह ॥
ज्ञात्वा तु वातजं शूलं स्नेहस्वेदैरुपाचरेत्‍ । पायसै: कृशरापिण्डै: स्निग्धैर्वापिशितोत्कटै: ॥१॥
आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत्‍ । तस्य शूलाभिपत्रस्य स्वेद एव सुखावह: ॥२॥
अथ तिलकल्कस्वेद: ॥ तुषावारिविनिष्पिष्टतिलकल्कोष्णपोटली । भ्रामिता जठरस्योर्ध्वं मुहु: शूलं विनाशयेत्‍ ॥१॥
अथ लेपसेकौ ॥ नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम्‍ । बिल्वैरण्डतिलैर्वापि पिष्टैरम्लेन पोटली ॥१॥
अथ कुलत्थादियूष: ॥ वातात्मकं हन्त्यचिरेण शूलं स्नेहेन युक्तस्तु कुलत्थयूष: । ससैन्धवो व्योषयुत: सलाव: सहिड्गुसौवर्चलदाडिमाढ्य: ॥१॥
अथ बलादिक्वाथ: ॥ बलापुनर्नवैरण्डबृहतिद्वयगोक्षुरै:  । क्वाथ: सहिड्गुलवण: पीतो वातरुजं जयेत्‍ ॥१॥
अथ शार्ड्गधरान्नागरादि: ॥ नागरैरण्डयो: क्वाथ: क्वाथ इन्द्रयवस्य वा । हिड्गुसौर्वचलोपेतो वातशूलनिवारण: ॥१॥
अथ करञ्जाद्यं चूर्णम्‍ । करञ्जसौवर्चलनागराणां सरामठानां समभागिकानाम्‍ । चूर्णं कटुष्णेन जलेन पीतं च गोतक्रेण च पेषितम्‍ । तेन लेपेन हन्त्याशु शूलं वातसमुद्भवम्‍ ॥१॥
अथ हिड्गुवादिलेप: ॥ हिड्गुतैलं सलवणं गोमूत्रेण विपाचितम्‍ । नाभिस्थाने प्रदातव्यं यस्य शूलं सवेदनम्‍ ॥१॥
अथ शूले साटोपे ॥ तैलमेरण्डजं वापि दशमूलस्य वारिणा । पीतं निहन्ति साटोपं हिड्गुसौवर्चलान्वितम्‍ ॥१॥
इति वातशूलचिकित्सा ॥

॥ अथ पित्तशूलचिकित्सामाह ॥
वामयेत्पित्तशूलार्तं पटोलेक्षुरसादिभि: । पश्चाद्विरेचयेत्सम्यक्‍ पित्तगुल्मविरेचनै: ॥१॥
अथ शतावर्यादिक्वाथ: ॥ शतावरी सयष्टाह्वा वाट्यालकुशगोक्षुरै: । शृतशीतं पिबेत्तोयं सगुडक्षौद्रशर्करम्‍  । पित्तशूलास्त्रदाहघ्नं हिक्काज्वरवमिच्छिदम्‍ ॥१॥
अथ बृहत्यादिक्वाथ: ॥ बृहतीगोक्षुरैरण्डकुशकाशेक्षुवालका: । पीता: पित्तभवं शूलं सद्यो हन्यु: सुदारूणम्‍ ॥१॥
अथ त्रिफलारग्वधादि: । त्रिफलारग्वधक्वाथ: शर्कराक्षौद्रसंयुत: । रक्तपित्तहरो दाहपित्तशूलनिवारण: ॥१॥
अथ त्रिफलादि: । त्रिफलारिष्टयष्टयाह्वकटुकारग्वधै: शृतम्‍ । पाययेन्मधुसंमिश्रं दाहशूलोपशान्तये ॥१॥
अथ शतावरीस्वरसादि वृन्दात्‍ ॥ शतावरीरसं क्षौद्रयुक्तं प्रात: पिबेन्नर: । दाहशूलोपशान्त्यर्थं सर्वपित्तामयापहम्‍ ॥१॥
अथ धात्र्यादियोग: ॥ धात्र्या रसं विदार्या वा त्रायन्तीगोत्तनाम्बुना । पिबेत्सशर्करं सद्य: पित्तशूलनिवारणम्‍ ॥१॥
अथ धात्रीचूर्णादि ॥ प्रलिह्यात्पित्तशूलघ्नं धात्रीचूर्णं समाक्षिकम्‍ । सगुडां घृतसम्मिश्रां भक्षयेद्वा हरीतकीम्‍ ॥१॥
अथ गुडादियोग: ॥ गुडशालियवक्षीरं सर्पिर्दुग्धं विरेचनम्‍ । जाड्गलानि च मांसानि भेषजं पित्तशूलिन: ॥१॥
इति पित्तशूलचिकित्सा ॥
=
॥ अथ कफशूलचिकित्सामाह ॥
शाल्यत्रं जाड्गलं मांसमरिष्टं कटुकं रसम्‍ । मद्यानि जीर्णगोधूमं कफशूले प्रयोजयेत्‍ ॥१॥
अथ त्रिलवणादिचूर्णम्‍ ॥ लवणत्रयसंयुक्तं पञ्चकोलं सरामठम्‍ । सुखोष्णेम्भसा पीतं कफशूलं हरं परम्‍ ॥१॥
इति श्लेष्मशूलचिकित्सा ॥

॥ अथ त्रिदोषशूलचिकित्सामाह ॥
अथ शड्खचूर्णयोग: । शड्खचूर्णं सलवणं सहिड्गु व्योषसंयुतम्‍ । उष्षोदकेन तत्पीतं हन्ति शूलं त्रिषोषजम्‍ ॥१॥
अथ मण्डूरावलेह: ॥ गोमूत्रं सिद्धमण्डूरं त्रिफला चूर्णसंयुतम्‍ । विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम्‍ ॥ इति त्रिदोषशूल: ॥

॥ अथामशूलचिकित्सामाह ॥
आमशूले क्रिया कार्या कफशूलविनाशिनी । शेषमामहरं सर्वं यद्यग्निविवर्धनम्‍ ॥१॥
अथ चित्रकादिक्वाथ: ॥ चित्रकग्रन्थिकैरण्डादिक्वाथ: ॥ एरण्डबिल्वबृहतीद्वयमातुलुड्गपाषाणभिन्त्रिकटुमूलकृत: कषाय: । सक्षारहिड्गुलवणो रुबुतैलमिश्र: श्रोण्यंसपृष्ठह्रुदयस्तनरुक्षु पेय: ॥१॥
अथैरण्डतैलादियोग: ॥ एरण्डतैलं षड्‍भागं लशुनस्य तथाष्टकम्‍ । एकं हिड्गुत्रिसिन्धूत्थं सर्वमेकत्र मर्दयेत्‍ ॥ त्रिनिष्कं भक्षयेच्चानु ह्यामशूलप्रशान्तये ॥१॥
हिड्गुत्रिगुणसैन्धवं तस्माच्च शुद्धतैलमैरण्डम्‍ । तत्‍ त्रिगुणरसोनरसं गुल्मोदावर्तशूलग्नम्‍ ॥२॥ इत्यामशूलचिकित्सा ॥

॥ अथ द्वन्द्दजशूलचिकित्सा ॥
अथ कण्टकार्यादिक्वाथ: ॥ निदिग्धिकाबृहत्यौ च कुशकाशेक्षुवालका: ।
श्वदंष्ट्रैरण्डमूलं च वारिणा सह पाचयेत्‍ ॥ पिबेत्सशर्करक्षौद्रं शूले पित्तानिलात्मके ॥१॥
॥ अथ पटोलादि: ॥ पटोलत्रिफलारिष्टामृतं क्षौद्रयुतं पिबेत्‍ । पित्तश्लेष्मज्वरच्छर्दिदाहशूलोपशान्तये ॥१॥
अथ द्राक्षादिक्वाथ: ॥ द्राक्षाटरुषयो: क्वाथ: श्लेष्मपित्त रुजं जयेत्‍ । पित्तश्लेष्मोद्भवं शूलं विरेकवमनैर्जयेत्‍ ॥१॥
अथ क्षाराम्बुयोग: ॥ क्षारोदकं पिबेदुष्णं पिप्पलीलवणान्वितम्‍ । वातष्लेष्मोद्भवं शूलं कुक्षिशूलं च नाशयेत्‍ ॥१॥
इति द्वन्द्वजशूलचिकित्सा ॥

॥ अथ श्रूले साधारणविधि: ॥
॥ अथ त्रिफलादिबिरेचनम्‍ ॥ त्रिफलाक्वाथगोमूत्रक्षौद्रक्षीररस: पृथक्‍ । एरण्डसैलद्विगुणैर्हितं शूले विरेचनम्‍ ॥१॥
अथ बीजपूरादिस्वरस: ॥ बीजपूररस: पानान्मधुक्षीरयुतो जयेत्‍ । पार्श्वहृब्दस्तिशूलानि कोष्ठवायुं च दारुणम्‍ ॥१॥
अथ पथ्यादिक्वाथ: ॥ पथ्यासशक्रयवपुष्करमूलयुक्तां निष्काथ्य हिड्गुजटिलातिविषासमेताम्‍ । पीत्वा मुखोष्णमथ वातकृतं सशूलमामोद्भवं कफकृतं च निहन्ति तूर्णम्‍ ॥१॥
॥ अथ मातलुड्गादि: ॥ मातुलुड्गरसो वापि शिगुक्वाथस्तथा पर: । सक्षारो मधुना पीत: पार्श्वहृब्दस्तिशूलहा ॥१॥
अन्यच्च ॥ मातुलुड्गरसे सर्पि: सहिड्गु लवणान्वितम्‍ । सुखोष्णं पाययेत्तद्धि विड्विबन्धानुलोमनम्‍ ॥ कुक्षिहृत्पार्श्वशूलेषु वेदना चोपशाम्यति ॥१॥
अथ बिल्वमूलादि: ॥ बिल्वमूलमथैरण्डं चित्रकं विश्वभेषजम्‍ । हिड्गुसैन्धवसंयुक्तं सद्य: शूलनिवारणम्‍ ॥१॥
अथ हरीतकीयोग: ॥ मूत्रान्त: पाचितां शुष्कां लोहचूर्णसमन्विताम्‍ । सगुडामभयां दद्यात्‍ सर्वशूलोपशान्तये ॥१॥
अथ लोहत्रिफलायोग: ॥ तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्ततम्‍ । प्रयोज्यं मधुसर्पिर्भ्यां सर्वशूलनिवारणम्‍ ॥१॥ अथ चूर्णानि ॥ अथादौ
तुम्बुर्वाद्यं चूर्णम्‍ ॥ चूर्णं तुम्बुरुरामठत्रिलवणक्षाराजमोदाभयावेल्लत्र्यूषणपुष्कराह्वयकृतं कुम्भत्रिभागान्वितम्‍ । मन्दोष्णेन जलेन पीतमखिलं शूलं सगुल्मोदराध्मानाजीर्णविबन्धमामपवनानाहौ च शीघ्रं जयेत्‍ ॥१॥
अथ द्विक्षाराद्यम्‍ । विश्वोद्‍धृदयपृष्ठकटिग्रहामपक्वाशयार्तिभृशरुग्ज्वरगुल्मशूली ॥१॥
अथ हिड्ग्वादि ॥ हिड्ग्वम्लत्रिपपटूग्रषट्‍कटुशटीवृक्षाम्लदीप्याल्लकम्‍ पाठाजाज्यजगन्धमूलहपुषाद्विक्षारसाराभयम्‍ । हिध्माध्मानविबन्धर्ध्मकसनश्वासाग्निसादारुचिप्लीहार्शोऽखिलशूलगुल्मगलह्रुद्रोगाश्मपाण्डुप्रणतु ॥१॥
अथ नाराचकचूर्णम्‍ ॥ कर्षमाद्या भवेत्कृष्णा त्रिवृतं स्त्यात्पलोन्मितम्‍ । खण्डात्पलं च विज्ञेयं चूर्णमिकत्र कारयेत्‍ ॥१॥
कर्षोन्मितं लिहेदेतत्क्षौद्रेणाध्माननाशनम्‍ । गाढविट्‍कोदरकफपित्तशूलानि नाशयेत्‍ ॥२॥ इति चूर्णानि ॥
अथ शड्खवटी ॥ चिञ्चाक्षारं पञ्चपलं लवणानि पलं पलम्‍ । सञ्चूर्ण्यं निक्षिपेत्प्रस्थद्वयैर्जम्बीरवारिभि: ॥१॥
शड्खं दशपलं  तप्त्वा निक्षिपेत्सप्तवारत: । तत्समस्तं विशोष्याथ हिड्गुव्योषं चतुष्पलम्‍ ॥२॥
बलिसूतविषाद्‍ भागान्‍ पलार्धं च पृथक्‍ पृथक्‍ । एतत्समस्तं संमर्द्यं जम्बीराम्लैर्दिनत्रयम्‍ ॥३॥
बदरास्थितप्रमाणेन वटिकां कारयेब्दुध: । एकैकां भक्षयेत्प्रात: कोष्णतोयं पिबेदनु ॥४॥
सर्वशूलं हरेद्‍ गुल्ममजीर्णं परिणामजम्‍ । अतिसारगदं हन्याद्भहणीं च विशेषत: ॥५॥
अथ सूर्यप्रभा वटी ॥ व्योषग्रन्थिवचाग्निहिड्गुजरणद्वन्द्वं विषं निम्बुकद्रावैर्द्रकजैरसैर्विमृदितं तुल्यं मरीचोपमा । कर्तव्या वटिकाथ सा दिनमुखे भुक्ता कवोष्णाम्बुना शूलं त्वष्टविधं निहन्ति सहसा सूर्यप्रभा नामत: ॥१॥
अथ खण्डपिप्पली ॥ कणाचूर्णं तु कुडवं षट्‍पलं हविषस्तथा । पलषोडशकं खण्डं शतावर्या: पलाष्टकम्‍ ॥१॥
क्षीरप्रस्थद्वये सार्धे लेहीभूते तदुद्धरेत्‍  । त्रिजातमुस्तधान्याकं शुण्ठीमांसीद्विजीरकम्‍ ॥२॥
अभयामलकं चैव चूर्णं द्वादशकार्षिकम्‍ । तदर्धं मरिचं भागं सारं खादिरमेव च ॥३॥
मधुत्रिपलसंयुकं खादेत्सिद्धं यथाबलम्‍ । शूलारोचकहृल्लासच्छार्दिपित्ताम्लरोगनुत्‍ ॥
अग्निसन्दीपनी हृद्या खण्डपिप्पलिका मता ॥४॥ अथ घृतम्‍ ॥
घृताच्चतुर्गुणो देयो मातुलुड्गरसो दधि । शुष्कमूलकोलाम्लकषायो दाडिमाम्भसा ॥१॥
विड्गलवणक्षारं पञ्चकोलयवानिभि: । पाठामूलककल्केन सिद्धं शूले घृतं मतम्‍ ॥२॥
त्दृत्पार्श्वशूलं वै श्वासं कासं हिक्का तथैव च । वर्ध्मगुल्मप्रमेहार्शोवातव्याधींश्च नाशयेत्‍ ॥३॥

॥ अथ रसौ ॥
अथ शूलगजकेसरी रस: ॥ रसविषगन्धकपर्दक्षारेण सिन्धुपिप्पलीविश्वै: । अहिवल्यम्बुविघृष्ट: शूलेभहरिर्द्विगुञ्जोऽयम्‍ ॥१॥
अन्यच्च । क्षारं कपर्दाद्विषसैन्धवौ च व्योषं च सम्मर्द्यं भुजड्गुवल्ल्या: । रसेन गुञ्जाप्रमित: प्रदिष्ट: समीरशूलेभहरि: प्रचण्ड: ॥१॥
इति रसौ ॥

॥ अथ पथ्यापथ्यम्‍ ॥
पटोलं कारवेल्लं च वास्तुकं शिग्रुजं तथा । सामुद्रं लशुनं वाथ शालि: संवत्सरोषित: ॥१॥
एरण्डतैलं सुरभीजलं च तप्ताम्बुजम्बीररसोऽपि कुष्ठम्‍ । लघूनि च क्षाररजांसि चेति वर्गो हित: शूलगदार्दितेभ्य: ॥२॥
विरुद्धान्यन्नपानानि जागरं विषमाशनम्‍ । रुक्षतिक्तकषायाणि शीतलानि गुरुणी च ॥३॥
व्यायामं मैथुनं मद्यं वैदलं कटुकानि च । वेगरोधं शुचं क्रोधं वर्जयेच्छूलवान्नर: ॥४॥
इति शूलरोगचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-03T19:11:50.6400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नासियह

  • वि. तेजस्वी . - आफ . - मुधो . ( अर .) 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site