संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शरदि हिताहितमाह ॥

॥ अथ शरदि हिताहितमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सर्पि स्वादुकषायतिक्तकरसा यच्छीतलं यल्लघु क्षीरं स्वच्छसितैक्षवः पटुरसः स्वल्पः पलं जाङ्गलम्‌ ।
गोधूमा यवमुद्गशालिसहिता नादेयमंशूदकं चन्द्रश्चनद्रनमिन्दुरादिरजनी माल्यं पटो निर्मलः ॥१॥
विश्र्रामः सुहृदां गणेषु मधुर्रा वाचः सरःक्रीडनं पित्तानां च विरेचनं बलवतो युक्तं शिरोमोक्षणम्‌ ।
एतान्यत्र घनावसानसमये पथ्यानि मुञ्चेद्दधि व्यायामाम्लकटूष्णतीक्ष्णदिवसस्वप्नं हिमं चातपम्‌ ॥२॥
दिवा रविकरैर्जुष्टं निशि शीतकरांशुभिः ।
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम्‌ ॥३॥
इक्षवः शालयो मुद्गाः सरोऽम्भः क्कथितं पयः ।
शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः ॥४॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP