TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पारद: ॥

॥ अथ पारद: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ पारद: ॥
॥ अथ पारद: ॥
रसो विप्र: सितो रक्त: क्षत्रिय: पीत ऊरुज: । शूद्र: कृष्ण इति प्रोक्तो वर्णभेदाच्चतुर्विध: ॥१॥
ब्राम्हण: कल्प्यते कल्पे गुटिकाया च बाहुज: । धातुवादे तथा वैश्य: शूद्रश्वेतरकर्मणि ॥२॥
अन्त: सुनीलो बहिरुज्जवलाड्गो मध्याह्यचन्द्रप्रतिमप्रकाश: । शस्तोऽथ धूम्र: परिपाण्डुरश्च चित्रो न योज्यो रसकर्मसिध्यै ॥३॥
पूर्वैर्दोषा रसेन्द्रस्य ये च पोक्ता मनीषिभि: । अतस्तेषां प्रशान्त्यर्थं प्रोच्यते कर्म सास्प्रतम्‍ ॥४॥
यथा । मलशिखिविषनामानो रसस्य नैसर्गिकास्त्रयो दोषा: मूर्छां मलेन कुरुते शिखिना दाहं विषेण मृत्युं च ॥५॥
अन्यच्च । मलेन मूर्छा दहनेन दाहं विषेण मृत्युं वितनोति सूत: । मलादिदोषत्रयमेतदत्र नैसर्गिकं शुद्धिमतोऽभिधास्ये ॥१॥
नागो वड्गो मलो वह्यिश्चाञ्चल्यं च गिरिर्विषम्‍ । पारदे कञुका: सप्त सन्ति नैसर्गिका इमे ॥२॥
रक्तेष्टिकानिशाधूमसारोर्णाभस्मचूर्णकै: । जम्बीरद्रवसंयुक्तैर्नागदोषापनुत्तये ॥३॥
विशालाड्कोलमूलानां रजसा काज्जिकेन च । शनै: शनै: स्वहस्तेन वड्गदोषविमुक्तये ॥४॥
राजवृक्षस्य मूलोत्थचूर्णेन सह कन्यका । मलदोषापनुत्यर्थं चित्रको वह्यिदूषनम्‍ ॥५॥
चाच्चल्यं कृष्णधत्तूरो गिरिं हन्ति फटुत्रयम्‍ । त्रिपला विषनाशाय कन्यका सप्त कञ्जुकान्‍ ॥६॥

॥ अथान्यप्रकार: ॥
आरग्वधो हन्ति मलं प्रयत्नात्कुमारिका सप्त हि कञ्जुकांश्च । अड्कोलमूलं च विषं निहन्याद्रसस्य वह्यि: किल पावकं च ॥१॥
प्रत्येकं सप्तवारं च मर्दितं: पारदो भवेत्‍ । तदा विशुद्धतां याति सर्वयोगार्हितो भवेत्‍ ॥२॥
अन्यच्च । कुमारीत्रिफ्लाव्योषचित्रकं निम्बुकं रसम्‍ । दिनैकं मर्दितं धृत्वा शुद्धो भवति पारद: ॥१॥
अथ फ़्च । आरनालेन चोष्णेन क्षालयेत्प्रतिमर्दनम्‍ । रसं तत्र प्रयात तु शोषयित्वाथ पातयेत्‍ ॥१॥
गृहीत्वा प्रक्षिपेत्सूते स्यादेवं पारद: शुचि: । पारदात्षोडशांशं तु मिलित्वा सकलं भिषक्‍ ॥२॥
चूर्णं प्रदेयं च पलं मर्दने तप्तखल्वके । अजाशकृत्तुषाग्निं च खनित्वा भूमिमावपेत्‍ ॥३॥
तस्योपरि स्थितं खल्वं तप्तखल्वं जगुर्बुधा: ॥ एतन्मर्दनमाख्यातं रससंशुद्धये बुधै: ॥४॥
इति मर्दनम्‍ ॥ त्र्यूषणं त्रिफला वन्ध्या कन्दक्षुद्राद्वयान्वितम्‍ । चित्रकेण निशाक्षारकन्यार्ककनकद्रवै: ॥१॥
सूतं कृतेन क्वाथेन वारान्सप्त विमर्दयेत्‍ । इत्थं संमूर्छित: सूतो जह्यात्सप्तापि कञ्चुकान्‍ ॥२॥
इति मूर्छनम्‍ ॥

॥ अथोत्थापनम्‍ ॥
तत उत्थापयेत्सूतमातपे निम्बुकार्दितम्‍ । उत्थापनं विशिष्टं तु चूर्णपातनयत्रके । धृत्वाग्रा ऊर्ध्वभाण्डातं संग्रहेत्पारद: शुचि: ॥१॥
इत्युत्थापनम्‍ ॥

॥ अथ स्वेदनम्‍ ॥
रसं चतुर्गुणे वस्त्रे रसोनकशरावके । नियत्र्य दोलायत्रे तु प्रकल्प्य दिवसं पचेत्‍ ॥१॥
सव्योषत्रिफलावह्यिकन्याकल्के तुषाम्बुनि । शेषदोषापनुत्यर्थमिदं स्वेदनमीरितम्‍ ॥२॥ इति स्वेदनम्‍ ॥
पलादूनस्य सूतस्य शतपल्यधिकस्य च । न संस्कार: प्रकर्तव्य: संस्कार: स्यात्ततोऽपर: ॥१॥
शुभेऽहनि प्रकर्तव्य आरम्भो रसशोधने एकान्ते धामनि शुभे पुराभ्यर्च्यो हि भैरव: ॥२॥
इति रसशोधनप्रकार: ।

॥ अथ गुणागुणा: ॥
सूतोऽशुद्धतया गुणं न कुरुते कुष्ठाग्निमान्द्यक्रिमिच्छर्द्यारोचकजाड्यदाहमरणं धत्ते नृणां सेवनात्‍ । शुद्धं स्यात्सकलामयौघशमनो यो योगवाहो मृतो युक्त्या षडगुणगन्ध्युग्गदहरो योगेन धात्वादिभुक्‍ ॥१॥
मूर्च्छार्तो गदह्यत्तथैव खगतिं दत्ते निबद्धोऽर्थदस्तद्भस्मामयवार्धकादिहरणं दृक्‍पुष्ठिकान्तिप्रदम्‍ । वृष्यं मृत्युविनाशनं बलकरं कान्ताजनानन्ददं शार्दूलातुलसत्वकृत्क्रमभुजां योगानुसारि स्फुटम्‍ ॥२॥
अन्यच्च । मूर्च्छा गतो यो हरते च रोगान्‍ बद्धो यदा खेचरतामुपैति । लीनो भवेत्सर्वसमृद्धिदायी विराजतेऽसौ नितरां रसेन्द्र: ॥१॥
मूर्छित्वा हरति रुजम्बन्धनमनुभय मुक्तिदो भवति । अमरीकरोति हि मृत: कोऽन्य: करूणाकर: सूतात्‍ ॥२॥
अर्था: सहाया निखिलं च शास्त्रं हस्तक्रियाकर्मणि कौशलं च । नित्योद्यमस्तत्परता च वह्यिरेभिर्गुणै: सिध्यति सूतकेन्द्र: ॥३॥
अथवा दरदाकृष्टं स्विन्नं लवणाम्बुभाजि दोलायाम्‍ । रसमादाय यथेच्छं कर्तव्यस्तेन भैषजो योग:॥४॥
निम्बूरसेन संपिष्टं प्रहरं दरदं दृढम्‍ । ऊर्ध्वपातनयस्त्रेण सड्गाह्यो  निर्मलो रस:  ॥५॥ इति दरदाकृष्टि: ॥

॥ अथ रसस्य मुखकरणम्‍ ॥
अथ षडबिन्दुकीटैश्च रसो मर्द्यस्त्रिवासरम्‍ । लवणाम्लैर्मुखं तस्य जायते धातुभक्षकम्‍ ॥१॥
अन्यच्च । सास्यां रस: स्यात्पटुशिग्रुतुल्यै: सराजिकै: शोषणकैस्त्रिवारम्‍ पिष्टस्तत: खिन्नतनु: सुवर्णमुख्यानयं खादति सर्वधातून्‍ ॥१॥
इति मुखकरणम्‍ ।

॥ अथ षडगुणगन्धकजारणम्‍ ॥
तप्तखल्वे रसं क्षिप्त्वा अधश्रुल्यास्तुषाग्रिभि: । स्तोकं स्तोकं क्षिपेद्गन्धमेवं वै षडगुणं चरेत्‍ ॥१॥
अथवा कच्छपयन्त्रेण गन्धकजारणम्‍ । मृत्कुण्डे निक्षिपेन्नीरं तन्मध्ये च शरावकम्‍ । मृत्कुण्डे च पिधानम्‍ मध्ये मेखलया युतम्‍ ॥१॥
क्षिप्तवा च मेकलामध्ये संशुद्धं रसमुत्तमम्‍ । रसस्योपरि गन्धस्य रजो दद्यात्समांशकम्‍ ॥२॥
दत्वोपरि शरावं च भस्ममुद्रां प्रदापयेत्‍ । तस्योपरि पुटं दद्याच्चतुर्भिर्गोमयोपलै: ॥३॥
एवं पुन: पुनर्गन्धं षडगुणं जीर्यते बुधै: । गन्धे जीर्णे भवेत्सूतस्तीक्ष्णाग्नि: सर्वकर्मसु ॥४॥ इति गन्धकजारणम्‍ ।

अथ तद्रुणा: ॥

समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मनुत्‍ । जीर्णे तु त्रिगुणे गन्धे कामिनीदर्पनाशन: ॥१॥
चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारद: । भवेत्पच्चगुणे सिद्ध: षड्‍गुणे मृत्युनाशन: ॥२॥
इति षड्‍गुणगन्धकजारणम्‍ ॥ दिनमेकं रसेन्द्र्स्य यो दताति हुताशनम्‍ । द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥इति शिवागमोक्तम्‍ ।

॥ अथ रसबन्धनम्‍ ॥
रम्भा वीरस्नुही चैव क्षीरककञ्चुकिरेव च । दिनारिश्चैव गोरम्भा मीनाक्षी काचमाचिका ॥ एभिस्तु मर्दित: सूत: पुनर्जन्म न विद्यते ॥१॥
अन्यच्च । पुष्पितमनोजमन्दिरमध्ये सूतो नियोजितो युक्त्या । बद्धो भवति कियद्भिर्दिवसै: पुष्पप्रभावेण ॥२॥
अन्यच्च । भूलताशीवरीमूलं वारिणा मर्दयेदृढम्‍ । तन्मूषां लेपयेन्मध्ये तन्मध्ये निक्षिपेद्रसम्‍ ॥३॥
कञ्चटड्कप्रमाणं तां मूषामड्गारके क्षिपेत्‍ । एवं बद्धोभवेत्सूतो मूषान्त:स्थो दृढो भवेत्‍ ॥४॥
मुखमध्यगतस्तिष्ठेन्मुखरोगविनाशन: । शरीरे क्रंमिते सूते जरापालितजिन्नर: ॥५॥
स्तम्भयेच्छ्स्त्रसंघातं कामोत्पादनकारक: । पुनर्नवं वय: कुर्यात्साधकानां न संशय: ॥६॥
इति रसबन्धनम्‍ ।

॥ अथ रसमारणम्‍ ॥
अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत्‍ । तत्सम्पुटे न्यसेत्सूतं मलयूदुग्धमिश्रितम्‍ ॥१॥
द्रोणपुष्पीप्रसूनानि विडड्गमरिमेदक: । एतच्चूर्णमधश्चोर्ध्वं दत्वा मुद्रांप्रदापयेत्‍ ॥२॥
तं गोलं मुद्रयेत्सम्यग्‍ मृन्मूषासंपुटे सुधी: । मुद्रां दत्वा शोषयित्वा ततो गजपुटे पचेत्‍ । एवमेकपुटेनैव जायते सूतभस्मकम्‍ ॥३॥
अन्यच्च । शुद्धसूतं समं गन्धं वटक्षीरैर्विमर्दयेत्‍ ॥ पाचयेन्मृत्तिकापात्रे वटकाष्ठैर्विघट्ट्येत्‍ ॥१॥
लघ्वग्निना दिनं पाच्यं भस्मसूतं भवेद्‍ध्रुवम्‍ । द्विगुञ्जं पर्णखण्डेन पुष्टिमग्निं च वर्धयेत्‍ ॥२॥ इति रसमारणम्‍ ।

॥ अथ रससिन्दूर: ॥
पलद्वयं शुद्ध्रसं पलार्धं शुद्ध्गन्धकम्‍ । कर्षार्धं नवसारं च जम्बीरेण विमर्दयेत्‍ ॥१॥
काचकुप्यां क्षिपेच्चैव सप्तधा मृदकर्पटै: । विलेप्य काचकूपीं तामातपे शोषयेदृढम्‍ ॥२॥
छिद्रभाण्डे तत: कूपीं न्यसेत्सिकतयन्त्रके । कूपिकां कण्ठमानेन पूजयेदिष्टदेवता: ॥३॥
पञ्च पूज्या: कुमार्यश्च तताश्चुल्यां विनिक्षिपेत्‍ । पचेद्यामाष्टकं चैव कूपिकां च क्षणे क्षणे ॥४॥
संशोध्य पाचयेद्यन्त्रे स्वाड्गशीतं समुद्धरेत्‍ । ग्राह्यं च दरदाकारं देवदानवदुर्लभम्‍ ॥५॥
सेवयेद्रोगनाशाय तत्तद्रोगानुपानत: । वल्लं वा वल्लयुग्मं वा कणया मधुना सह ॥६॥
सेवितं कामिनी कामं दर्शयेद्रतिकौतुकम्‍ । वीर्यबन्धकरं शीघ्रं योषामदविनाशनम्‍ ॥७॥
सिन्दूरं हरवीर्य सम्भवमिदं रुक्षाग्रिमान्द्यापहं यक्ष्मादिक्षयपाण्डुशोफमुदरं गुल्मप्रमेहापहम्‍  । शूलप्लीहविनाशनं ज्वरहरं दुष्ट्व्रन्नाशयेदर्शांसि ग्रहणीभगन्दरहरं छर्दित्रिदोषापहम्‍ ॥८॥
इति रससिन्दूर:
अन्यच्च । सूत: पञ्चपल: स्वदोषरहितस्तत्तुल्यभागो बलिर्द्वौटड्कौ नवसारपादकलितौ संमर्द्य कूप्यां न्यसेत्‍ । तां यन्त्रे सिकताख्यके तलबिले पक्त्वाऽर्कयामं हिमं भित्वा कुड्कुमपिकञ्जरं रसवरं भस्माददेद्वैद्यराट्‍ ॥१॥
वाते सक्षौद्रपिप्पल्यपि च कफरुजि त्र्यूषणं साग्रिचूर्णं पित्ते सैला सिता स्पाद्‍व्रणवति बृहती नागरार्द्रामृताम्बु । पुष्टौ साज्यत्रियामा  हरनयनफला शाल्मली पुष्पवृन्तं किंवा कान्ताललाटाभरणरसपते: स्यादनूपानमेतत्‍ ॥२॥
अन्यच्च । भागो रसस्य त्रय एव भागा गन्धस्य माष: पवनाशनस्य । संमर्द्य गाढं सकलं सुभाण्डे तां कज्जलीं काचकृते निदध्यात्‍ ॥१॥
संरुध्य मृत्कर्पटकैर्वटीनां मुखे सचूर्णां गुटिकां च दत्वा । क्रमाग्निना त्रीणि दिनानि पक्त्वा तां वालुकायन्त्रगतां तत; स्यात्‍ ॥२॥
बन्धूकपुष्पारूणभं रसस्य भस्म प्रयोज्यं च किलामयेषु । निजानुपानैर्मरणं जरां च हन्तस्य वल्ल: क्रमसेवनेन ॥३॥
अपहरति रोगवृन्दं द्रढयति कायं महद्धलं कुरुते । शुक्रशतानि च सूते सिन्दूराख्यो रस: पुंसाम्‍ ॥४॥
निखिलक्षयमभक्षणदक्षतरं व्रणकुष्ठभगन्दरमेहहरम्‍ । बलदीधितिशुक्रसमृद्धिकरं रसभस्म समस्तगदापरहम्‍ ॥५॥
अन्यच्च । पलमात्रं रसं शुद्धं तावन्मात्रं तु गन्धकम्‍ । विधिवत्कज्जलीं कृत्वा न्यग्रोधाड्कुरवारिणा ॥१॥
भावनात्रितयं दत्वा स्थालीमध्ये निधापयेत्‍ । विधाय काच्छपं यन्त्रं वालुकाभि: प्रपूरयेत्‍ ॥२॥
दद्यात्तदनुमन्दाग्निं भिषग्यामचतुष्टयम्‍ । जायते रससिन्दूरं तरूणारुणसन्निभम्‍ ॥३॥
अनुपानविशेषेण करोति विविधान्‍ गुणान्‍ । क्षयकुष्ठमरुप्लीहमेहघ्रं पाण्डुनाशनम्‍ ॥४॥

॥ अथ विशिष्टानुपानानि ॥

यथा जलगतं तैलं तत्क्षणादेव सर्प्ति । एवमौषधमड्गेषु प्रसर्पत्यनुपनत: ॥१॥
पिप्पलीमधुना सार्धं बातमेहं हिनस्त च । त्रिफलाशर्करासार्धं पित्तमेहहर: स्मृत: ॥२॥
पिप्पली मरिचं शुण्ठी भार्गी च मधुना सह । कासश्वासप्रशमन: शूलस्य च विनाशन: ॥३॥
हरिद्राशर्करासार्धं रुधिरस्य विकारनुत्‍ । त्यपूषणं त्रिफला वासा कामलापाण्डुमान्द्यहृत्‍ ॥४॥
पिप्पली चित्रकं पथा तथा सौवर्चलं क्षिपेत्‍ । अग्निमान्द्यवद्धकोष्ठहृद्यथानाशनं परम्‍ ॥५॥
शिलाजतुतथैला च सितोपलस्मन्वितम्‍ । मूत्रकृच्छ्रे प्रशस्तोऽयं सत्यं नागार्जुनतोदितम्‍ ॥६॥
लवड्गं कुड्कुमं पत्री हिड्गुलं करहाटिका । पिप्पली विजया चैव समानेमानि कारयेत्‍ ॥७॥
कर्पूरादहिफेनं च नागाद्भागार्धकं क्षिपेत्‍ । सर्वमेकत्र संमर्द्य धातुवृद्धौ प्रदापयेत्‍ ॥८॥
सौवर्चलं लवड्गं च भूनिम्बश्च हरीतकी । श्रस्यानुपानयोगेन सर्वज्वरविनाशन: ॥९॥
तथा रेच्कर: प्रोक्त: सौवचेलपलत्रिक: । लवड्गं कुड्कुमं चैव दरदेन च संपुत: ॥१०॥
ताम्बूले समं भक्ष्यो धातुवृद्धिकर: पर: । विदारीचूर्णयोगेन धातुवृद्धिकरो मत: ॥ विजयादीप्यसंयुक्तो वमनस्य विकारनुत्‍ ॥११॥
सौवर्चलं हरिद्रा च विजया दीप्यकस्तथा । अनेनोदरपीडां च सद्योजातां विनाशयेत्‍ ॥१२॥
चतुर्वल्लं पलाशस्य बीजाच्च द्विगुणं गुडात्‍ । अस्यानुपानयोगेन कृमिदोषविनाशन: ॥१३॥
अहिफेनं लवड्गं च दरदं विजया तथा । अस्यानुपानत: सद्य: सर्वातीसारनाशन: ॥१४॥
सौवर्चलेन दीप्येन चाग्निमान्द्यहर: पर: । क्षुब्दोधजनकश्वैव सिद्धनागेश्वरोतितम्‍ ॥१५॥
गुडूचीतसत्वयोगेन सर्वपुष्टिकर: स्मृत: । युक्तानुपानसहित: सर्वान्‍ रोगान्विनाशयेत्‍ ॥१६॥

॥ अथ रसेन्द्रस्य पथ्यापथ्यानि ॥
सैन्धवामृतधान्याकजीरकार्द्रकसंयुतम्‍ । तण्डुलीयकवार्ताकपटोलालाजसाधितम्‍ ॥१॥
गोधूमजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि । हंसोदकं मुद्ररसं रसेन्द्रे च हितं विदु: ॥२॥
ग्रन्थान्तरे । अभ्यड्गं मलिने योज्यं तैलैर्नारायनादिभि: । अबला शीततोयेन मस्तके परिषेचयेत्‍ ॥१॥
तृष्णायां नारिकैलाम्बु मुद्रयूषं सशर्करम्‍ । द्राक्षादाडीमखर्जूरकदलीनां फलं भजेत्‍ ॥२॥
बृहतीबिल्वकूष्माण्डं वंशाग्रं कारवेल्लकम्‍ । माषान्‍ मसूरनिष्पावं कुलत्थाल्लवणं तिलान्‍ ॥३॥
लड्घनोद्वर्तनं स्नानं ताम्रभाण्डे सुरासवम्‍ । अनूपमांसं धान्याम्लं भोजनं कदलीदले ॥४॥
कांस्यके गुरु विष्टम्भि तीक्ष्णं चोष्णं भृशं तथा । अपथ्यं सूतराजस्य पुरा प्रोक्तं महर्षिभि: ॥५॥
कूष्माण्डं कर्कटी कोलं कलिड्गं करमर्दकम्‍ । करीरं चेति षट्‍कादीन्‍ रसभुग्वर्जयेज्जन: ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-15T19:41:54.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आटाळी

  • अमध्यें पहा . 
  • पुस्त्रीन . माळा ; गच्ची . अटाळा - ळी - ळें पहा . मोडिल्या गोपुर आटाळी । - मुवन ३ . ५ . 
RANDOM WORD

Did you know?

नजर लागते किंवा दृष्ट लागते म्हणजे काय? त्यावर उपाय काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.