TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ नित्यप्रकारमाह ॥

॥ अथ नित्यप्रकारमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ नित्यप्रकारमाह ॥
दिनचर्या निशाचर्यामृतुचर्या यथोदिताम्‌ ।
पुरुषः संव्यवहरन्सदा तिष्ठति नान्यथा ॥१॥
समदोशः समाग्निश्च समधातुमलक्रियः ।
प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ॥२॥
ब्राह्मे मुहूर्ते बुध्येत स्वस्थो रक्षार्थमायुषः ।
तत्र सर्वाघ्शान्त्यर्थं स्मरेच्च मधुसूदनम्‌ ॥३॥
दध्याज्यादर्शसिद्धार्थबिल्वगोरोचनस्रजाम्‌ ।
दर्शनं स्पर्शनं कार्यं प्रबुद्धेन शुभावहम्‌ ॥४॥
स्वमाननं घृते पश्येद्यदीच्छेच्चिरजीवितम्‌ ।
आयुश्यमुषसि प्रोक्तं मलादीनां विसर्जनम्‌ ।
तदन्त्रकूजनाध्मानोदरगौरववारणम्‌ ॥५॥
आटोपशूलौ परिकर्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः ।
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ॥६॥
वातमूत्रपुरीषाणां सङ्गोऽध्मानं क्लमो रुजा ।
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात्‌ ॥७॥
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा ।
विनामो वंक्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ॥८॥
न वेगितोऽन्यकार्यः स्यान्न वेगान्‌ वारयेद्बलात्‌ ।
कामशोकभयक्रोधान्‌ मनोवेगान्‌ विधारयेत्‌ ॥९॥
गुदादिमलमार्गाणाम शौचं कान्तिबलप्रदम्‌ ।
पावित्र्यकरमायुष्यमलक्श्मीकलिपापहृत्‌ ॥१०॥
प्रक्षालनं हि पाण्योश्च पादयोः शुद्धिकारणम्‌ ।
मलश्रमहरं वृष्यं चक्षुष्यं राक्षसापहम्‌ ॥११॥
अर्कन्यग्रोधखदिरकरञ्जककुभादिकम्‌ ।
प्रागुदड्मुखमासीनो निश्चलो मौनवानपि ॥१२॥
मधुको मधुरे श्रेष्ठः करजः कटुके तथा ।
निम्बस्तु तिक्तके श्रेष्ठः कषाये खदिरस्तथा ॥१३॥
समयं तु समालोक्य दोशं च प्रकृतिं तथा ।
यथोचितै रसैर्वीर्यैर्युक्तं द्रव्यं प्रयोजयेत्‌ ॥१४॥
तेनास्यरसवैरस्यं गन्धजिह्वास्यजा गदाः ।
रुचिवैशद्यलघुता न भवन्ति भवन्ति च ॥१५॥
अर्के वीर्यं वटे दीप्तिः करञ्जे विजयो भवेत्‌ ।
प्लक्षे चैवार्थसंपत्तिर्वदर्यां मधुरो ध्वनिः ॥१६॥
खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम्‌ ।
उदुम्बरे तु वाक्सिद्धिस्त्वाम्रे त्वारोग्यमेव च ॥१७॥
कदम्बे च धृतिर्मेधा चम्पके दृढवाक्‌ श्रुतिः ।
शिरीषे कीर्तिसौभाग्यमायुरारोग्यमेव च ॥१८॥
अपामार्गे धृतिर्मेधा प्रज्ञा शक्तिस्तथा ध्वनिः ।
दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा ॥१९॥
जातीतगरमन्दारैर्दुःस्वप्नश्च विनश्यति ।
भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम्‌ ॥२०॥
कनिष्ठिकावत्स्थूलं च मृद्वग्रन्थि तथाव्रणम्‌ ।
एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेण तु ॥२१॥
दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्‌ ।
क्षौद्रत्रिकटुकाक्तेन तैलसिन्धुभवेन वा ॥२२॥
चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत्‌ ।
शिरोरुजार्तस्तृषितः श्रान्तो पानक्लमान्वितः ॥२३॥
अर्दिती कर्णशूली च नेत्ररोगीं नवज्वरी ।
वर्जयेद्दन्तकाष्ठं तु हृदामययुतोऽपि च ॥२४॥
न खादीद्गलताल्वोष्ठजिह्वादन्तगदेशु तत्‌ ।
मुखस्य पाके शोथे च श्वासकासवमीषु च ॥२५॥
दुर्बलो जीर्णभुक्तश्च हिक्कामूर्छामदान्वितः ।
जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा ॥।२६॥
पाटितं मृदु तत्काष्ठं मृदुपत्रमयं तथा ।
दशाङ्गुलं मृदु स्निग्धं तेन जिह्वां लिखेत्सुखम्‌ ॥२७॥
तेनास्यमलवैरस्यगन्धा जिह्वास्यदन्तजाः ।
नश्यन्ति रुचिवैशद्यं लघुता च भवन्ति हि ॥२८॥
मण्डूषमथ कुर्वीत शीतेन पयसा मुहुः ।
कफतॄष्णामलहरं मुखान्तःशुद्धिकारणम्‌ ॥२९॥
सुखोष्णोदकगण्डूषः कफारुचिमलापहः ।
दन्तजाड्यहरश्चापि मुखललाघवकारकः ॥३०॥
विषमूर्छामदार्तानां शोषिणां रक्तपित्तिनाम्‌ ।
कुपिताक्षिमलक्षीणरूक्षाणां स न शस्यते ॥३१॥
मुखप्रक्षालनं शीतपयसा रक्तपित्तजित्‌ ।
मुखस्य पिदकाशोशनीलिकाव्यङ्गनाशनम्‌ ॥३२॥
कुर्याद्वापि कदुष्णेन पयसास्यविशोधनम्‌ ।
कफवातहरं स्निग्धं मुखशोथविनाशनम्‌ ॥३३॥
कटुतैलादि नस्यार्थे नित्याभ्यासेन योजयेत्‌ ।
प्रातः श्लेष्मणि मध्याह्ने पित्ते सायं समीरणे ॥३४॥
सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रियाः ।
निर्वलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः ॥३५॥
सौवीरमञ्जनं नित्यं पथ्यमक्ष्णोस्ततो भजेत्‌ ।
लोचने तेन भवतः सुस्निग्धे घनपक्शःमणी ॥३६॥
वक्रे त्रिवेणिविमले मनोज्ञे सूक्ष्मदर्शने ।
चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्‌ ॥३७॥
स्रोतोऽञ्जनमतः श्रेष्ठं विशुद्धं सिन्धुसंभवम्‌ ।
दृष्टेः कण्डूमलहरं दाहक्लेदरुजापहम्‌ ॥३८॥
अक्ष्णो रूपावहं चैव सहते मारुतातपौ ।
नेत्ररोगा न जायन्ते तस्मादञ्जनमाचरेत्‌ ॥३९॥
रात्रौ जागरितः श्रान्तश्छर्दितो भुक्तवांस्तथा ।
ज्वरातुरः शिरःस्नातो नाक्ष्णोरञ्जनमाचरेत्‌ ॥४०॥
पञ्चरात्रान्नस्वश्मश्रुकेशरोमाणि कल्पयेत्‌ ।
केशश्मश्रुनखादीनां कर्तव्यं संप्रसाधनम्‌ ॥४१॥
पौष्टिकं धन्यमायुश्यं शौचकान्तिकरं परम्‌ ।
उत्पाटयेत्तु रोमाणि नासायां न कदाचन ॥४२॥
तदुत्पाटनतो दृष्टेर्दौर्बल्यं त्वरया भवेत्‌ ।
केशपाशे प्रकुर्वीत प्रसाधन्या प्रसाधनम्‌ ॥४३॥
केशप्रसाधनं केश्यं रजोजन्तुमलापहम्‌ ।
आदर्शालोकनं प्रोक्तं माङ्गल्यं कान्तिकारकम्‌ ॥४४॥
पौष्टिकं बलमायुष्यं पापलक्श्मीविनाशनम्‌ ।
लाघवं कर्मसामर्थ्यं विभक्तघनगात्रता ॥४५॥
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ।
व्यायामदृढगात्रस्य वाधिर्नास्ति कदाचन ॥४६॥
विरुद्धं वा विदग्धं वा भुक्तं शीघ्रं विपच्यते ।
भवन्ति शीघ्रं नैतस्य वलीशिथिलतादयः ॥४७॥
व्न चैनं सहसाक्रम्य जरा समधिरोहति ।
न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्‌ ॥४८॥
स सदा गुणमाधत्ते बलिनां स्निग्धभोजिनाम्‌ ।
वसन्ते शीतसमये सुतरां स हितो मतः ॥४९॥
अन्यदापि च कर्तव्यो बलार्धेन यथाबलम्‌ ।
हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते ॥५०॥
मुखं च शोषं लभते तद्बलार्धस्य लक्षणम्‌ ।
किंवा ललाटे नासायां गात्रसंधिषु कक्षयोः ॥५१॥
यदा संजायते स्वेदो बलार्धं तु तदादिशेत्‌ ।
भुक्तवान्‌ कृतसम्भोगः कासी श्वासी कृशः क्षयी ॥५२॥
रक्तपित्ती क्षती शोषी न तं कुर्यात्कदाचन ।
अतिव्यायामतः कासो ज्वरश्छर्दिर्भ्रमः क्लमः ॥५३॥
तृश्णाक्षयः प्रतमको रक्तपित्तं च जायते ।
अभ्यङ्गं कारयेन्नित्यं सर्वेष्वङ्गेषु पुष्टिदम्‌ ॥५४॥
शिरःश्रवनपादेशु तं विशेषेण शीलयेत्‌ ।
सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम्‌ ॥५५॥
अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन ।
अभ्यङ्गो वातकफहृत्‌ क्लमशान्तिबलं सुखम्‌ ॥५६॥
निद्रावर्नमृदुत्वायुः कुरुते दृष्टिपुष्टिकृत्‌ ।
अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रियतर्पणः ॥५७॥
दृष्टिपुष्टिकरो हन्ति शिरोभूमिगतान्‌ गदान्‌ ।
केशानां बहुतां दार्ढ्य मृदुतां दीर्घतां तथा ।
कृष्णतां कुरुते कुर्याच्छिरसः पूर्णतामपि ॥५८॥
न कर्णरोगा न मलं न च मन्याहनुग्रहः ।
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णपूरणात्‌ ॥५९॥
रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते ।
तैलाद्यैः पूरणं कर्णे भास्करेऽ‍स्तमुपागते ॥६०॥
पादाभ्यङ्गस्तु सुस्थैर्यनिद्रादृष्टिप्रसादकृत्‌ ।
पादसुप्तिभ्रमस्तम्भसंकोचस्फुटनप्रणुत्‌ ॥६१॥
मूर्ध्नोऽभ्यङ्गात्कर्णयोः शीतमाहुः कर्णाभ्यङ्गात्पादयोरेवमेव ।
पादाभ्यङ्गो नेत्ररोगान्‌ हरेच्च नेत्राभ्यङ्गाद्दन्तरोगश्च नश्येत्‌ ॥६२॥
व्यायामक्षुण्णवपुषं पद्भ्यां संमर्दितं तथा ।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ॥६३॥
रोमकूपशिराजालधमनीभिः कलेवरम्‌ ।
तर्पयेब्दलमाधत्ते स्नेहो युक्तोऽ‍वगाहने ॥६४॥
अद्भिः संसिक्तमूलानां तरूणां पल्लवादयः ।
वर्धन्ते हि तथा नूणां स्नेहसंसिक्तधातवः ॥६५॥
नवज्वरी ह्यजीर्णी च नाभ्यक्तव्यः कदाचन ।
तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः ॥६६॥
पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा ।
शेषाणाम बहवः प्रोक्ता वह्निसादादयो गदाः ॥६७॥
उद्वर्तनं कफहरं मेदोघ्नं शुक्रदं परम्‌ ।
बल्यं शोणितकृत्कान्तित्वक्प्रसादमृदुत्वकृत्‌ ॥६८॥
मुखलेपाद्‌ दृढं चक्षुः पीनो गण्डस्तथाननम्‌ ।
कान्तमव्यङ्गपिटकं भवेत्कमलसंनिभम्‌ ॥६९॥
दीपनं वृष्यमायुष्यं स्नानमोजोबलप्रदम्‌ ।
कण्डूमलश्रमस्वेदतन्द्रातृड्दाहपापनुत्‌ ॥७०॥
बाह्यैश्च सेकैः शीताद्यैरूष्मान्तर्याति पीडितः ।
नरस्य स्नातमाम्रस्य दीप्यते तेन पावकः ॥७१॥
प्रातःस्नातनरस्य पापहरणं दुःस्वप्नविध्वनंसनं शौचस्यायतनं मलापहरणं संवर्धनं तेजसाम्‌ ।
रूपद्योतकरं शरीरसुखदं कामाग्निसंदीपनं स्त्रीणां मन्मथगाहनं श्रमहरं स्नाने दशैते गुणाः ॥७२॥
शीतेन पयसा स्नानं रक्तपित्तप्रशान्तिकृत्‌ ।
तदेवोष्णेन तोयेन बल्यं वातकफापहम्‌ ॥७३॥
उष्णाम्बुनाधः कायस्य परिषेको बलावहः ।
तेनैव चोत्तमाङ्गस्य बलहृत्केशचक्षुषाम्‌ ॥७४॥
शिरःस्नानमचक्षुष्यमत्युष्णेनाम्बुना सदा ।
वातश्लेष्मप्रकोपे तु हितं तच्च प्रकीर्तितम्‌ ॥७५॥
यः सदामलकैः स्नानं करोति स विनिश्चितम्‌ ।
वलीपलितनिर्मुक्तो जीवेद्वर्षशतं नरः ॥७६॥
अशीतेनाम्भसा स्नानं पयःपानं युवस्त्रियः ।
एतद्धि मानवाः पथ्यं स्निग्धमल्पं च भोजनम्‌ ॥७७॥
स्नानं ज्वरेऽतिसारे च नेत्रकर्ण्निलार्तिषु ।
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्‌ ॥७८॥
स्नानस्यानन्तरं सम्यग्वस्त्रेण तनुमार्जनम्‌ ।
कान्तिप्रदं शरीरस्य कण्डूत्वग्दोषनाशनम्‌ ॥७९॥
कौशेयं चित्रवस्त्रं च रक्तवस्त्रं तथैव च ।
वातश्लेष्महरं शीतकाले तत्तु विधारयेत्‌ ॥८०॥
मेध्यं सुशीतं पित्तघ्नं काषायं वस्त्रमुच्यते ।
तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ॥८१॥
शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम्‌ ।
न चोष्णं न च वा शीतं तच्च वर्षासु धारयेत्‌ ॥८२॥
यशस्यं काम्यमायुष्यं श्रीदमानन्दवर्धनम्‌ ।
त्वच्यं वशीकरं रुच्यं नवं निर्मलमबरम्‌ ॥८३॥
कदापि न जनैः सद्भिमलिनमम्बरम्‌ ।
तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम्‌ ॥८४॥
कुङ्कुमं चन्दनं चापि कृश्णागुरुविमिश्रितम्‌ ।
उष्णं वातकफध्वंसि शीतकाले तदिष्यते ॥८५॥
चन्दनं घनसारेण वालकेन च मिश्रितम्‌ ।
सुगन्धि परमं शेतमुष्णकालेप्रशस्यते ॥८६॥
चन्दनं घुसृणोपेतं मृगनाभिसमायुतम्‌ ।
न चोश्णं न च शीतं वा वर्षाकाले तदिष्यते ॥८७॥
अनुलेपस्तृषामूर्छादुर्गन्धश्रमदाहजित्‌ ।
सौभाग्यतेजस्त्वग्वर्णकान्त्योजोबलवर्धनः ।
स्नानानर्हस्य लोकस्य त्वनुलेपोऽपि नो हितः ॥८८॥
सुगन्धिपुष्पपत्राणाम धारणं कान्तिकारणम्‌ ।
पापरक्षोग्रहहरं कामौजःश्रीविवर्धनम्‌ ॥८९॥
भूषणैर्भूशयेदङ्गं यथायोग्यं विधानतः ।
शुचि सौभाग्यसंतोषदायकं काञ्चनं स्मृतम्‌ ॥९०॥
ग्रहदुष्टिहरं पुष्टिकरं दुःस्वप्ननाशनम्‌ ।
पापदौर्भाग्यशमनं रत्नाभरणधारणम्‌ ॥९१॥
माणिक्यं तरणेः सुनिर्मलमथो चन्द्रस्य कुक्ताफलं माहेयस्य च विद्रुमो निगदितः सौम्यस्थ गारुत्मतम्‌ ।
देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शनेर्नीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥९२॥
वासःस्रगादिरत्नानां धारणं प्रीतिवर्धनम्‌ ।
रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम्‌ ॥९३॥
सततं सिद्धमन्त्रस्य महौषध्यास्तथैव च ।
रोचनासर्षपादीनां मङ्गल्यानां च धारणम्‌ ॥९४॥
आयुर्लक्ष्मीकरं रक्षोहरं मङ्गलदं शुभम्‌ ।
हिंस्रादिभयविध्वंसि वशीकरणकारकम्‌ ॥९५॥
देवगोविप्रवॄद्धानां गुरूणां चैव पूजनम्‌ ।
आयुष्यं वृद्धिदं पुण्यमलक्ष्मीकिल्बिषापहम्‌ ॥९६॥
ततो भोजनवेलायां कुर्यान्मङ्गलदर्शनम्‌ ।
तेशां प्रतिक्षणं नित्यमायुर्धर्मविवर्धनम्‌ ॥९७॥
लोकेऽस्मिन्मङ्गलान्यष्ठौ ब्राह्मणो गौर्हुताशनः ।
हिरण्यं सर्पिरादित्यः स्त्रियो राजा तथाष्टमःः ॥९८॥
पादुकारोहण्म कुर्यात्पूर्वं भोजनतः परम्‌ ।
पादरोगहरं वृष्यं चक्षुष्यं चायुषे हितम्‌ ॥९९॥
शरीर जायते नित्यं वाञ्छा नॄणां चतुर्विधा ।
बुभुक्षा च पिपासा च सुषुप्सा सुरतस्पृहा ॥१००॥
भोजनेच्छाविघातात्स्यादङ्गमर्दोऽरुचिः श्रमः ।
तन्द्रा लोचनदौर्बल्यं धातुदाहो बलक्षयः ॥१०१॥
विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत्‌ ।
श्रवनस्यावरोधश्च रक्तशोषो हृदि व्यथा ॥१०२॥
निद्राविघाततो जृम्भा शिरोलोचनगौरवम्‌ ।
अङ्गमर्दस्तथा तन्द्रा स्यादन्नापाक एव च ॥१०३॥
बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात्‌ ।
मन्दीभवति कायाग्निर्नाग्निर्वर्धेन्निरिन्धनः ॥१०४॥
आहारं पाचति शिखी दोषानाहारवर्जितः पचति ।
दोषक्षये च धातून्‌ पचति च धातुक्षये प्राणान्‌ ॥१०५॥
आहारः प्रीणनः सद्यो बलकृद्देहधारणः ।
स्मृत्यायुःशक्तिवर्णौजःसत्वशोभाविवर्धकः॥१०६॥
यथोक्तगुनसंपन्नमुपसेवीत भोजनम्‌ ।
विचार्य देशकालादीन्कालयोरुभयोरपि ॥१०७॥
सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम्‌ ।
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥१०८॥
याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत्‌ ।
याममध्येऽरसोत्पत्तिर्यामयुग्माद्बलक्षयः ॥१०९॥
क्षुत्संभवति पक्केषु रसदोषमलेषु च ।
काले वा यदि वाकाले सोऽन्नकाल उदाहृतः॥११०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-12T18:39:51.0870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

high frequency potential

  • उच्च वारंवारता विभव 
RANDOM WORD

Did you know?

स्त्रिया पायात चांदीचे दागिने वापरतात, मग सोन्याचे कां नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site