TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ श्लीपदनिदानम् ॥

॥ अथ श्लीपदनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ श्लीपदनिदानम् ॥
मेदोमांसाश्रयं शोफं पादयो: श्लीपदं वदेत्‍ । स्वलिड्गदर्शिर्दोषैस्त्रेधा स्याच्च कफोत्तरम्‍ ॥१॥
अथ तस्य संप्राप्तिमाह ॥ य: सज्वरो वड्क्षणजो भृशार्ति: शोफो नृणां पादगत: क्रमेण । तच्छ्‍लीपदं स्यात्करकर्णनेत्रशिश्नोष्ठनासास्वपि केचिदाहु: ॥१॥
अथ वातजमाह ॥ वातजं कृष्णरुक्षं तु स्फुटितं तीव्रवेदनम्‍ । अनिमित्तरुजं तस्य बहुशो ज्वर एव च ॥१॥
अथ पित्तजमाह ॥ पित्तजं पीतसंकाशं दाहज्वरयुतं मृदु ॥१॥
अथ श्लेष्मजमाह ॥ श्लैष्मिकं स्निग्धवर्णं च श्वेतं पाण्डुगुरुस्थिरम्‍ ॥१॥
अथैषामसाध्यत्वमाह ॥ वल्कीकमिव संजातं कण्टकैरिव संचितम्‍ । सर्वात्मकं महतच्च वर्जनीयं विशेषत: ॥१॥
अथ श्लीपदे कफस्याव्यभिचारेण प्राधान्यमाह ॥ त्रीण्येतानि विजानीयाच्छ्लीपदानि विशेषत: ॥१॥
अथ पुनरसाध्यत्वमाह ॥ यच्छ्‍लेष्मलाहारविहारजातं पुंस: प्रकृत्या च कफात्मकस्य । सस्त्रावमत्युन्नतसर्वलिड्गं सकण्डुरं श्लेष्मयुतं विवर्ज्यम्‍ ॥१॥
इति श्लीपदनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
लड्घनालेपनस्वेदरेचनै रक्तसेचनै: । प्राय: श्लेष्महरैरुष्णै: श्लीपदं समुपाचरेत्‍ ॥१॥
स्नेहस्वेदोपनाहांश्च श्लीपदेऽनिलजे भिषक्‍ । कृत्वा गुल्फोपरि शिरां विधेत्तु चतुरड्गुले ॥२॥
गुल्फस्याध: शिरां विध्येच्छ्लीपदे पित्तसंभवे । पितघ्नीं च क्रियां कुर्यात्पित्तार्बुदविसर्पवत्‍ ॥३॥
मञ्जिष्ठामधकं रास्नामहिंस्त्रां सपुनर्नवाम्‍ । पिष्ट्वारनालैर्लेपोऽयं पित्तश्लीपदशान्तये ॥ शिरासु विदितां विध्येदड्गुष्ठे श्लेष्मश्लीपदे ॥४॥
सिद्धार्थसौभाञ्जनदेवदारुविश्वौषधैर्मूत्रयुतै: प्रलेपयेत्‍ । पुनर्नवानागरसर्षपाणां कल्केन वा काञ्चिकमिश्रितेन ॥५॥
धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपै: ॥६॥
प्रलेप: श्लीपदं हन्ति चिरोत्थमपि दारुणम्‍ । हितश्च लेपने नित्यं चित्रको देवदारु च ॥७॥
सिद्धार्थशिग्रुकल्को वा सुखोष्णो मूत्रपेषित:  । प्रपिबेद्वाभयाकल्कं मूत्रेणान्यतमेन वा ॥८॥
पिबेदेवं गुडूचीं च नागरं भद्रदारु वा । पिबेत्सर्षपतैलेन श्लीपदानां निवृत्तये ॥९॥
पूतीकरञ्जच्छदजं रसं वापि यथाबलम्‍ । अनेनैव विधानेन पुत्रजीवकजं रसम्‍ ॥ प्रयुञ्जीत भिषक्‍ प्राज्ञ: कालसात्म्यविभागत: ॥१०॥
पलाशमूलस्वरसं पिबेद्वा तैलेन तुल्यं सितसर्षपाणाम्‍ । मूत्रेण पथ्यामरदारुविश्वं सगुग्गुलुं श्लीपदिभिर्निषेव्यम्‍ ॥११॥
वृद्धदारवचूर्णं वा मूत्रसौवीरकादिभि: । शीलितं श्लीपदं हन्ति कृच्छ्रं संवत्सरोषितम्‍ ॥१२॥
अथ पिप्पल्यादिचूर्णम्‍ ॥ पिप्पलीत्रिफलादार्वीनागरं सपुनर्नवम्‍ । भागैर्द्विपलिकैस्तेषां तत्समं वृद्धदारकम्‍ ॥१॥
काञ्जिकेन तु तच्चूर्णं पिबेत्कर्षप्रमाणत: । जीर्णे वा परिहीनं स्याद्भोजनं सर्वकामिकम्‍ ॥२॥
श्लीपदं वातरोगांश्च प्लीहगुल्ममरोचकम्‍ । अग्निं च कुरुते घोरं भस्मकं च प्रयच्छति ॥३॥
अथ कृष्णाद्यो मोदक: ॥ कृष्णाचित्रकदन्तीनां कर्षमर्धपलं पलम्‍ । विंशतिश्च हरीतक्यो गुडस्य च पलद्वयम्‍ । मधुना सह संयुक्तं श्लीपदं हन्ति दारुणम्‍ ॥१॥
अथ विड्ड्गादितैलम्‍ ॥ विडड्गसारिवार्केषु नागरे चित्रके तथा । भद्रदार्वेलकाख्येषु सर्वेषु लवणेषु च ॥ तैलं पक्वं पिबेद्वापि श्लीपदीनां निवृत्तये ॥१॥
अथ सौरेश्वरघृतम्‍ ॥ सुरसा देवकाष्ठं च त्रिफला त्रिकटुर्गजा । लवणानि च सर्वाणि विडड्गान्यथ चित्रकम्‍ ॥१॥
चविका पिप्पलीमूलं गुग्गुलं हपुषा वचा । यवाग्रज: सपाठश्च सव्येलं वृद्धकारक: ॥२॥
कल्कैश्च कार्षिकैरेभिर्घृतप्रस्थं विपाचयेत्‍ । दशमूलकषायेण धान्ययूषद्र्वेण च ॥३॥
दधिमण्डसमायुक्तं प्रस्थं प्रस्थं पृथक्‍ पृथक्‍ । पक्वं स्यादुद्‍धृतं कल्कात्पिबेत्कर्षत्रयं हवि: ॥४॥
श्लीपदं कफवातोत्थं मांसरक्ताश्रितं च यत्‍ । मेद:श्रिताभिघातोत्थं हन्यादेव न संशय: ॥५॥
अपचीगलगण्डानि अन्त्रवृद्धिं तथार्बुदम्‍ । नाशयेद्‍ ग्रहणीदोषं श्वयुथं गुदजान्यपि ॥६॥
परमग्निकरं हृद्यं कोष्ठक्रिमिविनाशनम्‍ । घृतं सौरेश्वरं नाम श्लीपदं हन्ति सेवितम्‍ ॥७॥
जीवकेन घृतं ह्येतद्रोगानीकविनाशनम्‍ । यवान्नं कूर्ममांसं च कटुतैलं च योजयेत्‍ ॥ पदानां प्रशान्त्यर्थं मांसांन्तं दाहमग्निना ॥८॥
गन्धर्वतैलभृष्टां हरीतकीं गोजलेन य: पिबति । श्लीपदबन्धनमुक्तो भवत्यसौ सप्तरात्रेण ॥९॥
अथ गुडूच्यादिलेप: ॥ गुडूचीकटुकाशुण्ठीदेवदारुविड्डकम्‍ । पिष्ट्वा गोमूत्रसंयुक्तं लेपाच्छ्लीपदनाशनम्‍ ॥१॥
अथ धान्याम्लादि ॥ धान्याम्लं तैलसंयुक्तं कफवातविनाशनम्‍ । दीपनं चामदोषघ्नं मेद:श्लीपदनाशनम्‍ ॥१॥
पिण्डारकतरुसंभवबन्धूकशिफा जयति सर्षिता पीता । श्लीपदमुग्रं नियतं बद्धा सूत्रेण जड्घायाम्‍ ॥२॥
संपिष्टमारनालेन रुयिकामूलवल्कलम्‍ । प्रलेपाच्छलीपदं हन्ति बद्धमूलमपि दृढम्‍ ॥३॥
यवान्नं कतुतैलं च कूर्ममांसं च योजयेत्‍ । श्लीपदानां प्रशान्त्यर्थं मांसान्ते दाहमग्निना ॥४॥
पादकण्डूहरं कुर्यान्नवनीतेन माक्षिकम्‍ । पाददाहहरं खादेत्तिलाद्विगुणबाकुचे: । चूर्णं तु मधुसर्पिर्भ्यां कर्षमार्तिप्रशान्तये ॥५॥
अथ पथ्यापथ्यम्‍ ॥ पुरातना: षष्टिकशालयश्च यवा: कुलत्था: लशुनं पटोलम्‍ । वार्ताकसौभाञ्जनकारवेल्लं पुनर्नवामूलमुपोदिका च ॥१॥
एरण्डतैलें सुरभीजलं च कटूनि तिक्तानि अ दीपनानि । एतानि पथ्यानि भवन्ति पुंसां रोगे सति श्लीपदनामधेये ॥२॥
पिष्टान्नं दुग्धविकृतिं गुडमानूपमाभिशम्‍ । स्वाद्वम्लं पारियात्रं च सिन्धुविन्ध्यनदीजलम्‍ ॥ पिच्छिलं गुर्वभिष्यन्दि श्लीपदी परिवर्जयेत्‍ ॥३॥
इति श्लीपदरोगचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-03-17T19:56:42.3930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

navigate

  • नौपरिवहन करणे 
  • नौकानयन करणे 
  • (to conduct or manage an aircraft in flying) दिक्चालन करणे 
  • नौपरिवहन करणे 
More meanings
RANDOM WORD

Did you know?

गणपतीचे प्रकार किती व कोणते?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.