संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शोधनम्‌ ॥

॥ अथ शोधनम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


शशरक्तेन संलिप्तं किञ्चार्कपयसायसः ।
दलं हुताशने ध्मातं सिक्तं त्रैफलवारिणा ।
एवं त्रिशः कृते लोहं शुद्धिमाप्नोत्यसंशयम्‌ ॥१॥
अन्यच्च ।
क्काथ्यमष्टगुणे तोये त्रिफलाषोडशं पलम्‌ ।
तत्क्काथे पादशेषे तु लोहस्य पलपञ्चकम्‌ ॥२॥
कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत्‌ ।
एवं प्रलीयते धातुर्गिरिजो लोहसम्भवः ॥३॥
इति शोधनम्‌ ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP