संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|

॥ अथ तमकस्यैव पित्तानुबन्धाज्ज्वरादियोगेन प्रतमकसंज्ञामाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ तमकस्यैव पित्तानुबन्धाज्ज्वरादियोगेन प्रतमकसंज्ञामाह ॥
ज्वरमूर्च्छापरीतस्य विद्यात्प्रतमकं तु तम्‍ । उदारवर्तरजोऽजीर्णक्लिन्नकायनिरोधज: ॥१॥
तमसा वर्धतेऽत्यर्थ शीतैश्चाशु प्रशाम्यति । मज्जतसम्सीवास्य विद्यात्प्रतमकं तु तुम्‍ ॥२॥
॥ अथ क्षुद्रश्वासलक्षणमाह ॥
रुक्षायासोद्भव: कोष्ठे क्षुद्रवातमेदीरयेत्‍ । क्षुद्रश्वासो न सोऽत्यर्थं दु:खेनाड्गप्रवाधक: ॥१॥
हिनस्ति न स गात्राणि न च दु:खो यथेतरे । न च भोजनपानानां निरुणद्‍ध्युचितां गतिम्‍ ॥२॥
इन्द्रियाणां व्यथां वापि काञ्चिदापादयेद्रुजम्‍ । स साध्य उक्तो बलिन: सर्वे चाव्यक्तलक्षणा: ॥३॥

॥ अथ साध्यासाध्यानाह ॥
वाताधिको भवेत्क्षुद्रस्तमकश्च कफाधिक: । कफवाताधिक: पित्तसंसर्गाच्छिन्नसंज्ञक: ॥१॥
श्वासो मारुतभूयिष्ठो महानूर्ध्वस्तथा तम: । क्षुद्र: साध्यतमस्तेषां तमक: कृच्छ्र उच्यते ॥ त्रय: श्वासा न सिध्यन्ति तमको दुर्बलस्य च ॥२॥
कामं प्राणहरा रोगो बहवो न तु ते तथा । यथा श्वासश्च हिक्का च हरत: प्राणमाशु वै ॥३॥
इति श्वासनिदानम्‍ ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP