TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २४६

ब्रह्मपुराणम् - अध्यायः २४६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २४६
अस्य श्रवणपठनकर्तॄणां फलप्राप्तिकथनम्
लोमर्हषण उवाच
एवं पुरा मुनीन्व्यासः पुराणं श्लक्ष्णया गिरा ।
दसाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः ॥१॥

पूर्णमस्तमलैः शुद्धैर्नानाशास्त्रसमुच्चयैः ।
जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम् ॥२॥

पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् ।
श्रावयित्वा यथान्यायं विरराम महामतिः ॥३॥

तेऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसंमितम् ।
आद्यं ब्राह्मविधानं च सर्ववाञ्छाफलप्रदम् ॥४॥

हृष्टा बभूवुः सुप्रीता विस्मिताश्च पुनः पुनः ।
प्रशशंसुस्तदा व्यासं कृष्णद्वैपायनं मुनिम् ॥५॥

अहो त्वया मुनश्रेष्ठ पुराणं श्रुतिसंमितम् ।
सर्वाभिप्रेतफलदं सर्वपापहरं परम् ॥६॥

प्रोक्तं श्रुतं तथाऽस्माभिर्विचित्रपदमक्षरम् ।
नतेऽस्त्यविदितं किंचित्त्रिषु लोकेषु वै प्रभो ॥७॥

सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः ।
नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम् ॥८॥

येन त्वया तु वेदार्था भारते प्रकटीकृताः ।
कः शक्नोति गुणान्वक्तुं तव सर्वान्महामुने ॥९॥

अधीत्य चुरो वेदान्साङ्गान्व्याकरणानि च ।
कृतवान्भारतं शास्त्रं तस्मै ज्ञानात्मने नमः ॥१०॥

नमोऽस्तु ते व्यास विशालबुद्धे, फुल्लारविन्दायतपत्रनेत्र ।
येन त्वाय भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः ॥११॥

अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः ।
ज्ञानाञ्जनशलाकेन त्वाय चोन्मीलिता दृशः ॥१२॥

एवमुक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः ।
जग्मुर्यथागतं सर्वे कृतकृत्याः स्वमाश्रमम् ॥१३॥

तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् ।
पुराणं सुमहापुण्यं सर्वपापप्रणाशनम् ॥१४॥

यथा भवद्भिः पृष्टोऽहं संप्रश्नं द्विजसत्तमाः ।
व्यासप्रसादात्तत्सर्वं मया संपरिकीर्तितम् ॥१५॥

इदं गृहस्थैः श्रोतव्यं यतिभिर्ब्रह्मचारिभिः ।
धनसौख्यप्रदं नणां पवित्रं पापनाशनम् ॥१६॥

तथा ब्रह्मपरैर्विप्रैर्ब्राह्मणाद्यैः सुसंयतैः ।
श्रोतव्यं सुप्रयत्नेन सम्यक्श्रेयोभिकाङ्क्षिभिः ॥१७॥

प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे ।
वैश्यस्तु धनमक्षय्यं शूद्रः सुखमवाप्नुयात् ॥१८॥

यं यं काममभिध्यायञ्शुणोति पुरुषः शुचिः ।
तं तं काममवाप्नोति नरो नास्त्यत्र संशयः ॥१९॥

पुराणं वैष्णवं त्वेतत्सर्वकिल्विषनाशनम् ।
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥२०॥

एतद्वो यन्मयाऽऽख्यातं पुराणं वेदसंमितम् ।
श्रुतेऽस्मिन्सर्वदोषोत्थः पापाराशिः प्रणश्यति ॥२१॥

प्रयागे गुष्करे चैव कुरुक्षेत्रे तथाऽर्बुदे ।
उपोष्य यदावाप्नोति तदस्य श्रवणान्नरः ॥२२॥

यदग्निहोत्रे सुहुते वर्षे नाऽऽप्नोति वै फलम् ।
महापुण्यमयं विप्रास्तदस्य श्रवणात्सकृत् ॥२३॥

यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।
मथुरायां हरिं दुष्ट्वा प्राप्नोति पुरुषः फलम् ॥२४॥

तदाप्नोति फलं सम्यक्समाधानेन कीर्तनात् ।
पुराणेऽस्य हितो(?)विप्राः केशवार्पितमानसः ॥२५॥

यत्फलं क्रि(श्रि)यमलोक्य पुरुषोऽथ लभेन्नरः ।
तत्फलं समवाप्नोति यः पठेच्छृणुयादपि ॥२६॥

इदं यः श्रद्धया नित्यं पुराणं वेदसंमितम् ।
यः पठेच्छृणुयान्मर्त्यः स याति भुवनं हरेः ॥२७॥

श्रावयेद्‌ब्राह्मणो यस्तु सदा पर्वसु संयतः ।
एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति ॥२८॥

इदं यशस्यमायुष्यं सुखदं कीर्तिवर्धनम् ।
बलपुष्टिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम् ॥२९॥

त्रिसंध्यं यः पठेद्विद्वाञ्श्रद्धया सुममाहितः ।
इदं वरिष्ठमाख्यानं स सर्वमीप्सितं लभेत् ॥३०॥

रोगार्तो मुच्यते रोगाद् बद्धो मुच्यते बन्धनात् ।
भयाद्विमुच्यते भीत आपदापन्न आपदः ॥३१॥

जातिस्मरत्वं विद्यां च पुत्रान्मेधां पशून्धृतिम् ।
धर्मं चार्थं च कामं च मोक्षं तु लभते नरः ॥३२॥

यान्यान्कामानभिप्रेत्य पठेत्प्रतमानसः ।
तांस्तन्सर्वानवाप्नोति पुरुषो नात्र संशयः ॥३३॥

यश्चेदं सततं शृणोति मनुजः स्वर्गापवर्गप्रदं,विष्णुं सततं शृणोति वरदं भक्त्येकचित्तः शुचिः ।
भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखं, पश्चाद्याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः ॥३४॥

तस्माद्विप्रवरैः स्मधर्मनिरतैर्मुक्त्येकमार्गेप्सुभिस्तद्वत्क्षत्रियपुंगवैस्तु नियतैः श्रेयोर्थिभिः सर्वदा ।
वैश्यैश्चानुदिनं विशुद्धकुलजैः शूद्रैस्तथा धार्मिकैः श्रोतव्यं त्विदमुत्तमं बहुफलं धर्माथमोक्षप्रदम् ॥३५॥

धर्मे मतिर्भवतु वः पुरुषोत्तमानां, स ह्येक एव परलोकगतस्य बन्धुः ।
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना, नैव प्रभावमुपयान्ति न च स्थिरत्वम् ॥३६॥

धर्मेण राज्यं लभते मनुष्यः, स्वर्गं च धर्मेण नरः प्रयाति ।
आयुश्च कीर्तिं च तपश्च, धर्मेण मोक्षं लभते मनुष्यः ॥३७॥

धर्मोऽत्र मातापितरौ नरस्य, धर्मः सखा चात्र परे च लोके ।
त्राता च धर्मस्त्विह मोक्षदश्च, धर्मादृते नास्ति तु किंचिदेव ॥३८॥

इदं रहस्यं श्रेष्ठं च पुराणं वेदसंमितम् ।
न देयं दुष्टमतये नास्तिकाय विशेषतः ॥३९॥

इदं मयोक्तं प्रवरं पुराणं, पापापहं धर्मविवर्धनं च  ।
श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ॥४०॥

इति श्रीमहापुराणे आदिब्राह्मे रोमहर्षणमुनिसंवादे पुराणप्रशंसनं नाम षट्‌चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४६॥

समाप्तमिदमादिब्राह्मभिधं महापुराणम्
ॐतत्सद्‌ब्रह्‌मार्पणमस्तु ॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:47.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

polyacrylonitrile

  • न. पॉलिऍक्रिलोनायट्राइल 
RANDOM WORD

Did you know?

प्रासंगिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.