संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १२

ब्रह्मपुराणम् - अध्यायः १२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


सोमवंशवर्णन आयुवंश-वर्मनम्
लोमहर्षण उवाच
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥१॥

यतिर्ययातिः संयातिरायातिर्यातिरेव च ।
सुयातिः षष्ठस्तेषां वै ययातिः पार्थिवोऽभवत् ॥२॥

ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः ।
यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन् मुनिः ॥३॥

तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।
देवयानीमुशनसः सुतां भार्य्यामवाप सः ॥४॥

शर्म्मिष्ठामासुरीं चैव तनयां वृषपर्व्वणः ।
यदुञ्च चतुर्व्वसुञ्चैव देवयानी व्यजायत ॥५॥

द्रुह्यं चानुं च पुरुं च शर्म्मिष्ठा वार्षपर्व्वणी ।
तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥६॥

अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः ।
युक्तं मनोजवैः शुभ्रैर्येन कार्य्यं समुद्वहन् ॥७॥

स तेन रथमुख्येन षड्रात्रेणाजयन्मीम् ।
ययातिर्युधि दुर्द्धर्षस्तथा देवान् सदानवान् ॥८॥

स रथः कौरवाणां तु सर्व्वषामभवत्तदा ।
संवर्त्तवसुनामस्तु कौरवाज्जनमेजयात् ॥९॥

कुरोः पुत्रस्य राजेन्द्रराज्ञः पारिक्षितस्य ह ।
जगाम स रथो नाशं सापाद्गर्गस्य धीमतः ॥१०॥

गर्गस्य हि सुतं बालं स राजा जनमेजयः ।
कालेन हिंसयामास ब्रह्महत्यामवाप सः ॥११॥

स लोहगन्धो राजर्षिः परिधावन्नितस्ततः ।
पौरजानपदैस्तयवतो न लेभे शर्म्म कर्हिचित् ॥१२॥

ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित् ।
विप्रेन्द्रं शौनकं राजा शरणं प्रत्ययद्यत ॥१३॥

याजयामास च ज्ञानी शौनको जनमेजयम् ।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥१४॥

स लोहगन्धो व्यनशत्तस्यावभृथमेत्य ह ।
स च दिव्यरथो राज्ञो वशश्चेदिपतेस्तदा ॥१५॥

दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः ।
बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम् ॥१६॥

ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम् ।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥१७॥

सपत्द्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् ।
विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस्तदा ॥१८॥

ययातिर्दिशि पूर्व्वस्यां यदुं ज्येष्ठं न्ययोजयत् ।
मध्ये पुरुं च राजानमभ्यषिञ्चत् स नाहुषः ॥१९॥

दिशि दक्षिणपूर्व्वस्यां तुर्व्वसुं मतिमान्नृपः ।
तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना ॥२०॥

यथाप्रदेशमद्यापि धर्म्मेण प्रतिपाल्यते ।
प्रजास्तेषां पुरस्तात्तु वक्ष्यामि मुनिसत्तमाः ॥२१॥

धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः ।
जरावानभवद्राजा भारमावेश्य बन्धुषु ॥२२॥

विक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः ।
प्रीतिमानभवद्राजा ययातिरपराजितः ॥२३॥

एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत् ।
जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥२४॥

तरुणस्तव रूपेण चरेयं पृथिवीमिमाम ।
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥२५॥

यदुरुवाच
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
अनपाकृत्य तां ग्रहीष्यमि ते जराम् ॥२६॥

जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ॥२७॥

सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिग्रहीतुं धर्म्मज्ञ पुत्रमन्यं वृणीष्व वै ॥२८॥

स एवमुक्तो यदुना राजा कोपसमन्वितः ।
उवाच वदतां श्रेष्ठो ययातिर्गर्हयन् सुतम् ॥२९॥

ययातिरुवाच
क आश्रमस्तवान्योऽस्ति को वा धर्म्मो विधीयत् ।
मामनादृत्य दुर्व्बुद्धे यदहं तव देशिकः ॥३०॥

एवमुक्त्वा यदुं विप्राः शशापैनं स मन्युमान ।
अराज्या ते प्रजा मूढ भवित्रीति न संशयः ॥३१॥

द्रुहयुं च तुर्व्वसुं चैवाप्यनुं च द्विजसत्तमाः ।
एवमेवाब्रवीद्राजा प्रत्याख्यातश्च तैरपि ॥३२॥

शशेप तानतिक्रुद्धो ययातिरपराजितः ।
यथावत् कथितं सर्व्वं मयास्य द्विजसत्तममाः ॥३३॥

एवं शप्त्वा सुतान् सर्व्वाश्चतुरः पुरुपुर्व्वजान् ।
तदेव वचनं राजा पुरुमप्याह भो द्विजाः ॥३४॥

तरुणास्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे ॥३५॥

स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् ।
ययातिरपि रूपेम पुरोः पर्य्यचरन् महीम् ॥३६॥

स मार्गमाणः कामानामन्तं नृपतिसत्तमः॥
विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥३७॥

यदा स तृप्तः कामेषु भोगेषु च नराधिपः ।
तदा पुरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत ॥३८॥

यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना ।
याभिः प्रत्याहरेत्कामान् सर्वशोऽङ्गानि कूर्म्मवत् ॥३९॥

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥४०॥

यत्पुथिव्यां व्रीहियवं हिरण्यं पश्वः स्त्रियः ।
नालमेकस्य तत्सर्वमिति कृत्वा न मुह्यति ॥४१॥

यदा भावं न कुरुते सर्व्वभूतेषु पापकम् ।
कर्म्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥४२॥

यदा तेभ्यो न बिभेति यदा चास्मान्न बिब्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥४३॥

या दुस्त्यजा दुर्म्मतिभिर्या न जीर्य्यति जीर्य्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥४४॥

जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्य्यतः ।
धनाशा जीविताशा चजीर्य्यतोऽपि न जीर्य्यति ॥४५॥

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्माक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम् ॥४६॥

एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् ।
कालेन महता नार्हन्ति षोडशीं कलाम् ॥४७॥

भृगुतुङ्गे गतिं प्राप तपसोऽन्ते महायशाः ।
अनश्नन् देहमुत्सृज्य सदारः स्वर्गमाप्तवान् ॥४८॥

तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः ।
यैर्व्याप्ता पृतिवी सर्व्वा सूर्य्यस्येव गभस्तिभिः ॥४९॥

यदोस्तु वंशं वक्ष्यामि श्रुणुध्वं राजसत्कृतम् ।
यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः ॥५०॥

सुस्तः प्रजावानायुष्मान् कीर्त्तिमांश्च भवेन्नरः ।
ययातिचरितं नित्यमिदं श्रुण्वन् द्विजोत्तमाः ॥५१॥

इति श्रीब्राह्मे महापुराणे सोमवंशे ययातिचरितनिरूपणं नाम द्वादशोऽध्यायः॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP